॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|2|176
SK 3156
3|2|176
यश्च यङः   🔊
SK 3156
सूत्रच्छेद:
यः - पञ्चम्येकवचनम् , च - अव्ययम् , यङः - पञ्चम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , वर्तमाने  [3|2|123] , आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु  [3|2|134]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
या प्रापने, अस्माद् यङन्तात् तच्छीलादिषु कर्तृषु वरच् प्रत्ययो हवति। यायावरः।
`यायावरः` इति। पूर्ववदकारयलोपौ॥
यायावर इति पूर्ववदिटि प्रतिषिद्धे ठतो लोपःऽ,ठ्लोपो व्योर्वलिऽ,ठल्लोपस्य स्थानिवत्वादाल्लोपः प्राप्तो वरे कृतस्य स्थानिवत्वनिषेधान्न भवति॥
सिद्धान्तकौमुदी
यातेर्यङन्ताद्वरच् स्यात् । अतो लोपः (कौमुदी-2380) । तस्य अचः परस्मिन् (कौमुदी-50) इति स्थानिवद्भावे प्राप्ते पदस्य चरमावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तोऽजादेशे न स्थानिवत् तस्य यलोपं प्रति स्थानिवद्भावनिषेधात् लोपो व्योः--- (कौमुदी-873) इति यलोपः । अल्लोपस्य स्थानिवत्त्वामाश्रित्य आतो लोपे प्राप्ते । वरे लुप्तं न स्थानिवत् । यायावरः ॥
यश्च यङः - यश्च यङः । "या प्रापणे" इत्यस्य धातोरनुकरणस्य या इत्यस्य "यः" इति षष्ठन्तम् । तदाह — - यातेरिति । याधतोर्यङ् । द्वित्वादि । "दीर्घोऽकितः" इत्यभ्यासस्य दीर्घः ।यायाये॑ति यङन्ताद्वरचिविशेषमाह — अतो लोप इति । हलः परत्वाऽभावात् "यस्य हलः" इति यकारोलोप न । "यायाय् - वर" इति स्थिते आह — लोपो व्योरिति यकारलोप इति । ननु अतो लोपस्यअचः परस्मिन् इतस्थानिवत्त्वदाकरेण व्यवधानाद्वल्परत्वाऽभावात्कथमह यलोप इत्यत आह — तस्येति । तस्य= अल्लोपस्य यलोपे कर्तव्येन पदान्ते॑ति स्थानिवत्त्वनिषेधादित्यर्थः । एवं च यङोऽकारस्य यकारस्य च लोपे यायावर इत्यत्रआतो लोप इटि चे॑त्याल्लोपमाशङ्क्य निराकरोति — अल्लोपस्येति । यङकारलोपस्यअचः परस्मि॑न्नति स्थानिवत्त्वमाश्रित्य तदाकारात्मकाद्र्धधातुकपरत्वादाकारस्यआतो लोप इटि चे॑त्याल्लोपे प्राप्ते सति परिहार उच्यते इत्यर्थः । परिहारमेवाह — वरे लुप्तं न स्थानिवदिति ।लुप्त॑मिति भावे क्तः । "न पदान्ते" ति सूत्रे "वरे" इत्यनेन वरे परे विहितं न स्थानिवदिति लभ्यते । अल्लोपोऽयमाद्र्धधातुके वरे परे विहितः । अतस्तस्य स्थानिवत्त्वाऽभावान्न यङोऽकारमाश्रित्यआतो लोप इटि चे॑त्यस्य प्रवृत्तिरित्यर्थः । एवंचन पदान्ते॑ति सूत्रे "वरे" इत्यंशस्य , "यलोपे" इत्यंशस्य च यायावर इत्युदाहरणमिति बोध्यम् ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!