Page loading... Please wait.
3|2|168 - सनाशंसभिक्ष उः
॥ तस्मै पाणिनये नमः ॥
3|2|168
SK 3148
सनाशंसभिक्ष उः   🔊
सूत्रच्छेदः
सन्-आशंस-भिक्षः (पञ्चम्येकवचनम्) , उः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 वर्तमाने  3|2|123 आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु  3|2|134
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सनिति सन्प्रत्ययान्तो गृह्यते न सनिर्धातुः, अनभिधानात् व्याप्तिन्यायाद् वा। सन्नन्तेभ्यो धातुभ्यः आशंसेर् भिक्षेश्च तच्छीलादिषु कर्तृषु उः प्रत्ययो भवति। चिकीर्षुः। जिहीर्षुः। आशंसुः। भिक्षुः। आङः शसि इच्छायाम् इत्यस्य ग्रहणं, न शंषेः स्तुत्यर्थस्य।
`सन्प्रत्ययो गृह्रते` इति। `गुप्तिज्किद्भ्यः` 3|1|5 इत्यादिना यो विहितः। `न सनिर्धातुः`इति। `षणु दाने` (धातुपाठः-1464) ` वन षण सम्भक्तौ` (धातुपाठः-463,464) इति न गृह्रते। एतच्च गर्गादिषु जिगीषुशब्दपाठाद्विज्ञायते, स हि प्रत्ययग्रहणे चोपपद्यते, न तु धातुग्रहणे। `आङ शासि इच्छायाम्ित्यादि। एतदप्याङा सह निर्देशाद्विज्ञायते। इच्छार्थो ह्राङसहितः पठते, न स्तुत्यर्थः। `आशंसु, भिक्षुः` इति। अत्र `अनुदात्तेश्च हलादेः` 3|2|149 इति युचि प्राप्त उप्रत्ययस्य विधानम्॥
सनाशंसभिक्ष उः॥ न सनिर्धातुरिति। ठ्षणु दानेऽ ठ्वन षण संभक्तौऽ इति च धातुर्न गृह्यते, कुतः? गर्गादिषु विजिगीषुशब्दस्य पाठात्। न शंसेः स्तुत्यर्थस्येति। एतदाङ सह निर्द्दशाद्विजायते---इच्छार्थो हि स तेन सह पठ।ल्ते, न स्तुत्यर्थः॥
सिद्धान्तकौमुदी
चिकीर्षुः । आशंसुः । भिक्षुः ॥
सनाशंसभिक्ष उः - सनाशंस । सन्, आशंस, भिक्ष एषां त्रयाणां द्वन्द्वात्पञ्चम्येकवचनम् ।स॑निति सन्प्रत्ययान्तं गृह्रते ।षणु दाने॑, "षण संभक्तौ" इत्यनयोस्तु न ग्रहणं , गर्गादिषु विजिगीषुशब्दापाठाल्लिङ्गात् । एभ्य उप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः । आशंसुरिति ।आङः शसि इच्छाया॑मित्यस्मादुः ।
सनाशंसभिक्ष उः - सनाशंस ।स॑निति प्रत्ययग्रहणात्तदन्तग्रहणम् । षणु दाने, षण संभक्ताविति धात्वोस्तु नेह ग्रहणं, गर्गादिषु विजिगीषुशब्दस्य पाठात् । आशंसेत्याङः शसि इच्छायामित्ययं गृह्रते, न शंसु स्तुताविति, आङा सह निर्देशात् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.