Page loading... Please wait.
3|2|162 - विदिभिदिच्छिदेः कुरच्
॥ तस्मै पाणिनये नमः ॥
3|2|162
SK 3142
विदिभिदिच्छिदेः कुरच्   🔊
सूत्रच्छेदः
विदि-भिदि-च्छिदेः (पञ्चम्येकवचनम्) , कुरच् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 वर्तमाने  3|2|123 आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु  3|2|134
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ज्ञानार्थस्य विदेः ग्रहणं न लाभाद्यर्थस्य, स्वभावात्। विदादिभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु कुरच् प्रत्ययो भवति। विदुरः पण्डितः। भिदुरं काष्ठम्। छिदुरा रज्जुः। भिदिच्छिद्योः कर्मकर्तरि प्रयोगः। व्यधेः सम्प्रसारणं कुरच् च वक्तव्यः। विधुरः।
`ज्ञानार्थस्य विदेग्र्रहणम्` इति। `विद ज्ञाने` (धातुपाठः-1064) इत्येतस्य। `न लाभार्थस्य` इति। `विद्लृ लाभे` (धातुपाठः-1432) इत्येतस्य। अज्ञानार्थस्य विदेरुपलक्षणमेतत्, तेन सत्ताविचारणार्थौ यौ विदी तयोरपि ग्रहणं न भवत्येव। क्वचित्त्वनयोरादिशब्देनोपसंग्रहाय लाभार्थस्येति पाठः। कस्मात् पुनज्र्ञानार्थस्य ग्रहणमित्याह-- `स्वभावात्` इति। विदेरुत्पन्नेन प्रत्ययेन स्वभाव एव ज्ञानक्रियाया यः कत्र्ता स एव प्रतीयते, नान्यः। तस्माज्ज्ञानार्थस्य ग्रहणम्, नान्यस्य। `कर्मकत्र्तरि प्रत्ययः`इति। स्वयमेव च्छिद्यत इत्यर्थे। तत्र स्वभावादिति पूर्वोक्त एव हेतुः॥
विदिबिदिच्चिदेः कुरच्॥ न लाभार्थस्येति। ज्ञानार्थस्येदमुपलक्षणं न लाभार्थस्येत्यर्थः। कुत इत्याह---स्वभावादिति। तेन ठ्लुग्विकरणालुग्विकरणयोरित्येतदपि न प्रवर्तत इत्यर्तः। विदिभिदिच्छिदेर्ङिदिति प्रकृतस्यैव घुरचो ङ्त्वाइतिदेशेनैव सिद्धे ठ्प्रत्ययान्तरकरणमातिदेशिकं ङ्त्विमनित्यम्ऽ इति ज्ञापनार्थम्। तेन ठ्धू विधूननेऽ कुटादिः, ततः ठर्तिलूधूऽ इतीत्रप्रत्ययो कृते ङित्कार्य न भवति। केचितु---धुवित्रमित्येवेच्छन्ति, प्राणा वै धुवित्राणीति छान्दसं तदनुसारेण कल्पसूत्रेषु प्रयोगः। कर्मकर्तरीति। माघस्तु शुद्धे कर्तरि प्रयुङ्क्ते---ठ्गुरुमत्सरच्छिदुरया दुरयाचितमङ्गनाऽ इति॥
सिद्धान्तकौमुदी
विदुरः । भिदुरम् । छिदुरम् ॥
विदिभिदिच्छिदेः कुरच् - विदिभिदि । तच्छीलादिष्वित्येव । विदेज्र्ञानार्थस्य ग्रहणं, नतु लाभार्थस्य, व्याख्यानादित्याहुः । विदुर इत्यादौ कित्त्वान्न लघूपधगुणः ।
विदिभिदिच्छिदेः कुरच् - विदिभिदि । विदेज्र्ञानार्थस्यैव ग्रहणं न तु लाभार्थस्य, व्याख्यानात् । छिदुरमिति । कर्मकर्तरि प्रत्यय इति वृत्तिः । नैतद्भाष्ये दृष्टम् । तथा च माघो मुख्ये कर्तरि प्रायुङ्क्त — ॒प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयाऽदुरयाचितमङ्गना॑ इति । इह अदुरिति च्छेदः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.