Page loading... Please wait.
3|2|16 - चरेष्टः
॥ तस्मै पाणिनये नमः ॥
3|2|16
SK 2930
चरेष्टः   🔊
सूत्रच्छेदः
चरेः (पञ्चम्येकवचनम्) , टः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अधिकरणे इति वर्तते। चरेर् धातोरधिकरणे सुबन्त उपपदे टप्रत्ययो भवति। कुरुषु चरति कुरुचरः। मद्रचरः। कुरुचरी। मद्रचरी। प्रत्ययान्तरकरणं ङीबर्थम्।
`प्रत्ययान्तरकरणं ङीबर्थम्` इति। टित्त्वान्ङीब्भवति॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
अधिकरणे उपपदे । कुरुचरः । कुरुचरी ॥
चरेष्टः - चरेष्टः । ट इति च्छेदः । "अधिकरणे उपपदे" इति शेषः । "अधिकरणे शेते" रित्यतस्तदनुवृत्तेरिति भावः । कुरुचर इति । कुरुषु चरतीति विग्रहः । न चअकर्मकधातुभिर्योगे॑ इति कर्मत्वं शङ्क्यं, तस्य वैकल्पिकतयायास्तत्रैव प्रपञ्चितत्वात् । तत्र अत्रत्यमपि भाष्यं प्रमाणम् ।
चरेष्टः - कुरुचर इति । कुरुषु देशेषु चरति । अटतीत्यर्थः ।
लघुसिद्धान्तकौमुदी
अधिकरणे उपपदे। कुरुचरः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.