Page loading... Please wait.
3|2|157 - जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च
॥ तस्मै पाणिनये नमः ॥
3|2|157
SK 3137
जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च   🔊
सूत्रच्छेदः
जि-दृ-क्षि-वि-श्रि-इण्-वम-अव्यथ-अभ्यम-परिभू-प्रसूभ्यश्च (पञ्चमीबहुवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 वर्तमाने  3|2|123 आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु  3|2|134
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
जि जये। दृङादरे। क्षि क्षये, क्षि निवासगत्योः इति द्वयोरपि ग्रहणम्। प्रसू इति षू प्रेरणे इत्यसय् ग्रहणम्। जिप्रभृतिभ्यो धातुभ्यः इनिः प्रत्ययो भवति तच्छीलादिषु कर्तृषु। जयी। दरी। क्षयी। विश्रयी। अत्ययी। वमी। अव्यथी। अभ्यमी। परिभवी। प्रसवी।
`जि जये` (धातुपाठः-561), `दृङ आदरे` (धातुपाठः-1411), `श्रिञ् सेवायाम्`(धातुपाठः-897) विपूर्वः, `इण् गतौ` (धातुपाठः-1045), `टुवम उद्गिरणे` (धातुपाठः-849), `व्यथ {भयसञ्चलनयोः-धातुपाठः-} भयचलनयोःर` (धातुपाठः-764) नञ्पूर्वः, `अम रोगे`(धातुपाठः-1720) अभिपूर्वः। `षू प्रेरणे` (धातुपाठः-1408) प्रपूर्व इत्यस्य ग्रहणम्, न `षूङ प्राणिगर्भविमोचने`(धातुपाठः-1031) `षूओङ प्राणिप्रसवे`(धातुपाठः-1132) इत्येतयोः। निरनुबन्धकपरिभाषयेति (व्या।प।53) भावः। इण्जिभ्यामित्यत्र `इण्नश्जिसर्त्तिभ्यः क्वरप्` 3|2|163 इति वचनात् क्परप् भवति॥
जिद्दक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च॥ ठ्जी जयेऽ जि अभिभवेऽ---द्वयोरपि ग्रहणम्, ठ्द्दङ् आदरेऽ,ठ्श्रिञ् सेवायाम्ऽ,ठिण् गतौ,ठ्टुअवम् उद्वमनेऽ,ठ्व्यथ भयचलनयोःऽ नञ्पूर्वः, नञः कृतलोपस्य निर्द्देशः, निपातनाच्च नञो धातुना समासः, ततो वलोपः, ततः प्रत्ययः। ठम रोगेऽ,ठ्भू सतायाम्ऽ। द्वयोरपि ग्रहणमिति। ठ्क्षिष् हिंसायाम्ऽ इत्यस्य तु सानुबन्धकत्वादग्रहणम्। षू प्रेरण इत्यस्य ग्रहणमिति। ठ्षूङ् प्राणिगर्भविमोचनेऽठ्षूङ् प्राणिप्रसवेऽ इत्येतयोस्तु सानुबन्धकत्वादग्रहणम्। प्रजोरप्यत्रैव ग्रहणं कर्तव्यम्, एवं हि चकारो न वक्तव्यो भवति? तथा तु न कृमित्येव॥
सिद्धान्तकौमुदी
जयी । दरी । क्षयी । विश्रयी । अत्ययी । वमी । अव्यथी । अभ्यमी । परिभवी । प्रसवी ॥
जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च - जिदृक्षि । जि, दृ, क्षि, विश्रि, इण्, वम, अव्यथ, अभ्यम, परिभू, प्रसू, एषां दशानं द्वन्द्वः । जि जये, जि अभिभवे, दृङ् आदरे, क्षि क्षये, क्षि निवासगत्योः, श्रिञ् सेवायां विपूर्वः । इण् गतौ । वमु उद्गिरणे । व्यथ भयसंचलनयोः — नञ्पूर्वः । निपातनान्नञो धातुना समासे "न लोपो नञः" इति नकारलोपः । अमु गत्यादिषु- अभिपूर्वः । भू सत्तायाम् — परिपूर्वः । षू प्रेरणे प्रपूर्वः । एभ्य इनिः स्यात्तच्छीलादिष्वित्यर्थः । सूतिसूयत्योस्तु सानुबन्धकत्वान्नेह ग्रहणम् ।
जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च - जिदृक्षि । जि जये, जि अभिभवे, दृङ् आदरे, क्षि क्षये,क्षि निवासगत्यो, श्रिञ् सेवायां विपूर्वः, व्यथ भयसंचलनयोर्नञ्पूर्वः । निपातनान्नञो धातुना समासे नलोपे ततः प्रत्ययः । अम गत्यादिषु अभिपूर्वः । प्रसवीति । षू प्रेरणे । अस्मादिनिः । षूङ् प्राणिगर्भविमोचने, षूङ् प्राणिप्रसवे, इमौ न गृह्रेते, सानुबन्धत्वात् ।जिदृक्षी॑त्यत्रैव प्रजुं पठित्वा पूर्वसूत्रं त्यक्तुमुचितम् । एवं हि पृथग्विभक्तिश्चकारश्च मास्त्विति सुवचम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.