Page loading... Please wait.
3|2|15 - अधिकरणे शेतेः
॥ तस्मै पाणिनये नमः ॥
3|2|15
SK 2929
अधिकरणे शेतेः   🔊
सूत्रच्छेदः
अधिकरणे (सप्तम्येकवचनम्) , शेतेः (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सुपि इति सम्बध्यते। शेतेर् धातोरधिकरणे सुबन्त उपपदे अच् प्रत्ययो भवति। खे शेते खशयः। गर्तशयः। पार्श्वादिषु उपसङ्ख्यानम्। पार्श्वाभ्यां शेते पार्श्वशयः। उदरशयः। पृष्ठशयः। दिग्धसहपूर्वाच् च। दिग्धेन सह शेते दिग्धसहशयः। उत्तानादिषु कर्तृषु। उत्तानः शेते उत्तानशयः। अवमूर्धा शेते अवमूर्धशयः। गिरौ डश्छन्दसि। गिरौ शेते गिरिशः।
`सुपीति सम्बध्यते` इति।शेतेरकर्मकत्वात्। अधिकरणस्य चाकर्मकत्वे सम्भवति सुपीतीह सम्बध्यते, न कर्मणीति।`पार्(ाआदिषूपसंख्यानम्` इति। आरम्भोऽयमनधिकरणार्थः। पार्(ाआभ्यामिति तृतीयान्तमुपपदं दर्शयति। उरःशः, पृष्ठशय इत्यत्रापि तृतीयान्तमेवोपपदं वेदितव्यम्।`दिग्धसहशयः` इति। दिग्धेन सह शेत इति `तृतीया` 2|1|29 इति योगविभागेन समासः। दिग्धस्य सहेन प्राक् प्रत्ययोत्पत्तेः पश्चादुपपदसमासः।`गिरौ` इत्यादि। गिरावुपपदे शेतेश्छन्दसि विषये डो भवति। `गिरिशः`इति। डित्त्वाट्टिलोपः। एतत् सर्वं `व्यत्ययो बहुलम्` 3|1|85 इति बहुलवचनात् सिद्धम्॥बाल-मनोरमाअधिकरणे शेतेः 744, 3.2.15 अधिकरणे। सुबन्तेऽधिकरणवाचिन्युपपदे शीङ्धातोरच् स्यादित्यर्थः। पार्(ाआदिष्विति। अत्राऽधिकरणवाचनिनीति न संबध्यते। तद्ध्वनयन्नुदाहरति-- पार्(ाआभ्यामिति। उत्तानादिषु कर्तृष्विति। वार्तिकमिदम्। उत्तानादिशब्देषु कर्तृवाचिषूपपदेषु शीङोऽजित्यर्थः। गिराविति। वार्तिकमिदम्। गिरावुपपदे शीङो दभस्यापि टेर्लोपः। यद्यपि वैदिकप्रक्रियायामेवेदं व्याख्येयम्, तथापि लोके डप्रत्ययस्य न प्रवृत्तिः कि त्वजेवेति प्रदर्शनार्थमिह तद्व्याख्यानमित्यभिप्रेत्य लोके अच्प्रत्ययमुदाहरति-- गिरिशय इति। कथमिति। लोके डप्रत्ययाऽसंभवादिति भावः। समाधत्ते-- गिरिरस्यास्तीत्यादि। बाल-मनोरमाहरतेर्दृतिनाथयोः पशौ 752, 3.2.15 हरतेर्दृतिनाथयोः। दृतिः चर्मभस्त्रिका। दृतिहरिः आआ इति वृत्तिः। `नाथ` शब्दस्य विवरणम्--नासारज्जुमिति। नासिकाप्रोतरज्जुमित्यर्थः। नाथहरिरिति। नासिकाप्रोतरज्जुके पशुविशेषे रूढोऽयम्।
अधिकरणे शेतेः॥ पर्श्वादिष्विति। अनधिकरणार्थमिदम्। तद्विग्रहेण दर्शयति----पार्श्वाभ्यामिति। दिग्धसहशय इति। दिग्धेन सह शेते इत्यचि कृते मयूरव्यंसकादित्वात्समासः। दिग्दसहशब्दो मयूरव्यंसकादिस्तस्योपपदसमासः। अवमूर्द्धशय इति। अवनतां मूर्द्धा यस्य अवमूर्द्धा अधोमुखः शेत इत्यर्थः। गिरौ डश्चन्दसीति। यदि च्छन्दसीत्युच्यते, कथम् ठ्गिरिशमुपचचार प्रत्यहं सा सुकेशीऽ,ठारोपितं यद्रिरिशेन पश्चात्ऽ इति? निरंकुशाः कवयः। अन्ये त्वाहुः-----इह यो गिरौ शेते गिरिस्तस्यास्तीति लोमादिषु दर्शनाच्छप्रत्ययः। तथा चात्रैव वार्तिकम्----तद्धितो वेति। न च लोमादिष्वपि च्छन्दोग्रहणमस्ति, तेन भाषायामपि गिरिश इति भवति। एवं च कृत्वा निघण्टुअषु पाठोऽप्युपन्नो भवति। गिरौ शेत इति। गिरावास्त इत्यर्थः॥
सिद्धान्तकौमुदी
खे शेते खशयः ॥ ।पार्श्वादिषूपसंख्यानम् (वार्तिकम्) ॥ पार्श्वाभ्यां शेते पार्श्वशयः । पृष्टशयः । उदरेण शेते उदरशयः ॥ । उत्तानादिषु कर्तृषु ॥ उत्तानः शेते उत्तानशयः । अवमूर्धशयः । अवनतो मूर्धा यस्य सः अवमूर्धा । अधोमुखः शेते इत्यर्थः ॥ ।गिरौ डश्छन्दसि (वार्तिकम्) ॥ गिरौ शेते गिरिशः । कथं तर्हि गिरिशमुपचचार प्रत्यहं सा सुकेशीति । गिरिरस्यास्तीति विग्रहे लोमादित्वाच्छः ॥
अधिकरणे शेतेः - हरतेर्दृतिनाथयोः । दृतिः चर्मभस्त्रिका । दृतिहरिः आआ इति वृत्तिः । "नाथ" शब्दस्य विवरणम् — नासारज्जुमिति । नासिकाप्रोतरज्जुमित्यर्थः । नाथहरिरिति । नासिकाप्रोतरज्जुके पशुविशेषे रूढोऽयम् ।
अधिकरणे शेतेः - * पार्ाआदिषूपसङ्ख्यानम् । पार्ाआभ्यामित्यादिना ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अधिकरणे शेतेः (782) (477 अच्प्रत्ययविधिसूत्रम्।। 3 । 2 । 1 । आ.9) (2019 उपपदपरिसंख्यावार्तिकम्।। 1 ।।) - अधिकरणे शेतेः पार्श्वादिषूपसंख्यानम्- (भाष्यम्) अधिकरणे शेतेः पार्श्वादिषूपसंख्यानं कर्तव्यम्। पार्श्वशयः पृष्ठशयः उदरशयः।। (2020 उपपदपरिसंख्यावार्तिकम्।। 2 ।।) - दिग्धसहपूर्वाच्च- (भाष्यम्) दिग्धसहपूर्वाच्चेति वक्तव्यम्। दिग्धसहशयः।। (2021 उपपदन्यूनतापूरकवार्तिकम्।। 3 ।।) - उत्तानादिषु कर्तृषु- (भाष्यम्) उत्तनादिषु कर्तृष्विति वक्तव्यम्। उत्तानशयः। अवमूर्धशयः। (2022 उपपदवार्तिकम्।। 4 ।।) - गिरौ डश्छन्दसि- (भाष्यम्) गिरावुपपदे छन्दसि डो वक्तव्यः। गिरौ शेते गिरिशः।। (2023 प्रत्याख्यानवार्तिकम्।। 5 ।।) - तद्धितो वा - (भाष्यम्) तद्धितो वा पुनरेष भविष्यति। गिरौशेते गिरिरस्यास्तीति गिरिशः।। अधिकरणे।। 15 ।। (टप्रत्ययप्रकरणम्)