Page loading... Please wait.
3|2|149 - अनुदात्तेतश्च हलादेः
॥ तस्मै पाणिनये नमः ॥
3|2|149
SK 3129
अनुदात्तेतश्च हलादेः   🔊
सूत्रच्छेदः
अनुदात्तेतः (पञ्चम्येकवचनम्) , च (अव्ययम्) , हलादेः (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 वर्तमाने  3|2|123 आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु  3|2|134
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अनुदात्तेद् यो धतुः हलादिरकर्मकः, ततश्च युच् प्रत्ययो भवति। वर्तनः। वर्धनः। अनुदात्तेतः इति किम्? भविता। हलदेः इति किम्? एधिता। आदिग्रहनं किम्? जुगुप्सनः। मीमांसनः। अकर्मकातित्येव, वसिता वस्त्रम्।
`एधिता`इति। `एध वृद्धौ` (धातुपाठः-2)। `जुगुप्सनः,मीमांसनः` इति `गुप्तिज्किद्भ्यः सन्` 3|1|5 `मान्बध` 3|1|6 इत्यादिना सनि दीर्घे च कृते भवतः। अत्र तदन्तौ समुदायावनुदात्तेतौ अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवतीति। तथा च यद्यादिग्रहणं न क्रियते तदा ताभ्यां न स्यात्; यस्मादसत्यादिग्रहणे हला तु तदन्तविधिर्विज्ञायते-- अनुदात्तेतो हलन्तादिति। न च जुगुप्समीमांसशब्दौ हलन्तौ, किं तर्हि? अजन्तौ। आदिग्रहणे सत्यहलन्तेभ्योऽपि भवतीत्यादिग्रहणं कत्र्तव्यम्। तच्च तदा कत्र्तव्यं यदातो लोप आर्धधातुके परतो भवतीत्ययं पक्षः, न तु यदार्धधातुके विषयभूत इत्येष पक्षः। तदा ह्रार्धधातुकविवक्षायां विज्ञायमाने हलन्तग्रहणमनर्थकं स्यात्; व्यावत्र्याभावात्। तस्माद् ह्ल्ग्रहणसामथ्र्यादादेर्विशेषणं विज्ञास्यत इत्यादिग्रहणं न कत्र्तव्यमेव। अत्रादिग्रहणं विस्पष्टार्थमेव व्याख्येयम्। `वसिता` इति। `वस आच्छादने` (धातुपाठः-1023)॥
अनुदातेतश्च हलादेः॥ जुगुप्सन इति। ठ्गुपादिष्वनुबन्धकरणमात्मनेपदार्थम्ऽ इत्युक्तत्वाद् ठवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवतिऽ इति समुदायस्यानुदातेत्वम्। तत्रासत्यादिग्रहणे तदन्तविधिः स्यात्, ततश्चात्र न स्यात्, अतस्तदन्तविधिर्मा बूदित्येवमर्थमादिग्रहणम्॥
सिद्धान्तकौमुदी
अकर्मकाद्युच् स्यात् । वर्तनः । वर्धनः । अनुदात्तेतः किम् । भविता । हलादेः किम् । एधिता । अकर्मकात्किम् । वसिता वस्त्रम् ॥
अनुदात्तेतश्च हलादेः - अनुदात्तेतश्च । आदिग्रहणाऽभावे हलन्तादित्यर्थः स्यात्, ततश्च जुगुप्सन इति न स्यात्, सन्नन्तस्य हलन्तत्वाऽभावात् । अस्ति चाऽनुदात्तेत्वं सन्नन्तस्य, "गुप" इत्यनुदात्तेत्त्वस्य केवले प्रयोजनाऽभावेन सन्नन्तार्थत्वात् ।
अनुदात्तेतश्च हलादेः - अनुदात्तेश्च हलादेः । ननु सर्वोऽप्यनुदात्तेद्धलन्त एवेति तदन्तविधं बाधित्वा सामथ्र्याद्धलादरेव ग्रहीष्यते, तत्किमादिग्रहणेनेति चेत् । अत्राहुः — आदिग्रहणाऽभावे हलन्ताष्वचरितार्थस्याऽनुबन्धस्य समुदायविसेषकत्वादिति दिक् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.