॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|2|142
SK 3122
3|2|142
संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च  
SK 3122
सूत्रच्छेद:
सम्पृच-अनुरुध-आङ्यम-आङ्यस-परिसृ-सृसृज-परिदेवि-संज्वर-परिक्षिप-परिरट-परिवद-परिदह-परिमुह-दुष-द्विष-द्रुह-दुह-युज-आक्रीश-विविच-त्यज-रज-भज-अतिचर-अपचर-आमुष-अभिहन:- पञ्चम्येकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , वर्तमाने  [3|2|123] , आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु  [3|2|134]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
घिनुणनुवर्तते। संपृचादिभ्यो धातुभ्यो घिनुण् भवति तच्छीलादिषु। पृची सम्पर्के इति रुधादिर् गृह्यते नत्वदादिर् लुग्विकरणत्वात्। परिदेविर्भ्वादिर्गृह्यते देवृ देवने इति। क्षिप प्रेरणे दिवादिस्तुदादिश्च सामानेन गृह्यते। युज समाधौ दिवादिः, युजिर् योगे रुधादिः द्वयोरपि ग्रहणम्। रञ्ज रागे इत्यस्य निपातनादनुनासिकलोपः। संपर्की। अनुरोधी। आयामी। आयासी। परिसारी। संसर्गी। परिदेवी। संज्वारी। परिक्षेपी। परिराटी। परिवादी। परिदाही। परिमोही। दोषी। द्वेषी। द्रोही। दोही। योगी। आक्रीडी। विवेकी। त्यागी। रागी। भागी। अतिचारी। अपचारी। आमोषी। अभ्याघाती।
`पृची सम्पर्के` (धातुपाठः-1462) सम्पूर्वः। `रुधिर् आवरणे` (धातुपाठः-1438) अनुपूर्वः;`यम उपरमे` (धातुपाठः-984), `यसु प्रयत्ने` (धातुपाठः-1210) आङपूर्वः,`सृज विसर्गे` (धातुपाठः-1178), `ज्वर रोगे` (धातुपाठः-776) सम्पूर्वः;`क्षिप प्रेरणे` (धातुपाठः-1285), `रट परिभाषणे` (धातुपाठः-297), `वद वक्ताव्यां वाचि` (धातुपाठः-1009), `दह भस्मीकरणे` (धातुपाठः-991), `मुह वैचित्त्ये` (धातुपाठः-1198) परिपूर्वः, `दुष वैकृत्ये` (धातुपाठः-1185), `द्विष अप्रीतौ` (धातुपाठः-1013), `द्रुह जीघांसायाम्` (धातुपाठः-1197),`दुह प्रपूरणे` (धातुपाठः-1014), `क्रीडृ विहारे` (धातुपाठः-350) आङपूर्वः, `विजिर् पृथग्भावे` (धातुपाठः-1094) विपूर्वः, `त्यज {हानौ इत्येव-धा।पा} वयोहानौ` (धातुपाठः-986), `रञ्ज रागे` (धातुपाठः-999), `भज सेवायाम्` (धातुपाठः-998), `चर गत्यर्थ` (धातुपाठः-559) अतिपूर्वः, स एवानुपूर्वः, `मुष स्तेये` (धातुपाठः-1530) आङपूर्वः, `हन हिंसागत्योः` (धातुपाठः-1012) अभ्याङपूर्वः। शरेषा वृत्तावेव निर्दिष्टाः। `न त्वदादिः`इति। `गृह्रते`इति सम्बध्यते। आदादिकः कस्मान्न गृह्रत इत्याह-- आदादिकस्तु लुग्विकरणः, तस्मात् स न गृह्रते। `परिदेविर्भ्वादिः` इति। `गृह्रते` इति सम्बन्धः। अथ परिदिव#ए#ः क्रीडाद्यर्थस्य ण्यन्तस्य ग्रहणं कस्मान्न भवति? अण्यन्तैरितरैः साहचर्यात्। `सामान्येन गृह्रते` इति। विशेषाभावात्। `द्वयोरपि ग्रहणम्` इति। तत एव हेतोः। `निपातनादनुनासिकलोपः` इति। `त्यजरज`इति सूत्रे निरनुनासिकस्योच्चारणमेव निपातनम्। `सम्पर्की` इति। लघूपधगुणः। `आयामी` इति। `अत उपधायाः` 7|2|116 इति वृद्धिः। `परिसारी` इति। अत्रापि `अचो ञ्णिति` 7|2|115 इति वृद्धिः। `अभ्याघाती` इति। पूर्ववद्घत्वतत्वे॥
सम्पृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रहदुहयुजाक्रीविविचत्यजरजभजातिचराचरामुषाभ्यहनश्च॥ ठ्पुची संपर्केअऽ, रुधिर् आवरणेऽ; ठनो रुध कामेऽ इत्यस्य तु दैवादिकस्याग्रहणम्; पृचिना साहचर्यात्। अनुना सह पठितस्य दैवादिकस्य ग्रहणमित्यन्ये। ठ्यम उपरमेऽ,ठ्यसु प्रयत्नेऽ, ठ्सृ गतौऽ,ठ्सृज विसर्गेऽ, देवृ देवनेऽ,ठ्ज्वर रोगेऽ,ठ्क्षिप् प्रेरणेऽ,ठ्रट परिभाषणेऽ,ठ्वद व्यक्तायां वाचिऽ,ठ्दह भस्मीकरणेऽ,ठ्मुह वैचित्येऽ,ठ्दुष वैकृत्येऽ,द्विष अप्रीतौऽ,ठ्द्रुह जिघांसायाम्ऽ,ठ्दुह प्रपूरणेऽ,ठ्युजिन् योगेऽ,ठ्क्रीड्ःअ विहारे, ठ्विचिर् पृथग्भावेऽ,ठ्त्यज हानौऽ,ठ्रञ्ज रागेऽ,ठ्भज सेवायाम्ऽ,ठ्चर गत्यर्थः, ठ्मुष स्तेयेऽ,ठ्हन हिसागत्योःऽ। परिदेविर्बूवादिरिति। गृह्यते इति सम्बन्धः। क्रीडार्तस्य तु ण्यन्तस्याग्रहणम्, अण्यन्तैः साहचर्यात्, प्रतिपदोक्तत्वाच्च। अत एव ठ्दिव परिकूजनऽ इत्यस्य चौरादिकस्यापि न भवति। संपर्कीति। ठ्चजोः कु घिण्ण्यतोःऽ इति कुत्वम्। येऽत्र संपूर्वाः तेषां द्वन्द्वं कृत्वा ठ्सम एतेभ्यःऽ इति वक्तव्यम्, एवमाङ्पूर्वेषु परिपूर्वेषु च, एवं सिद्धे यत्प्रतिपदं पठति तस्यैतत्प्रयोजनम्---उपातादएव रूपाद्यथा स्यात्, उपसर्गान्तरयुक्तान्मा भूदिति॥
सिद्धान्तकौमुदी
घिनुण् स्यात् । संपर्की । अनुरोधी । आयामी । आयासी । परिसारी । संसर्गी । परिदेवी । संज्वारी । परिक्षेपी । परिराटी । परिवादी । परिदाही । परिमोही । दोषी । द्वेषी । द्रोही । दोही । योगी । आक्रीडी । विवेकी । त्यागी । रागी । भागी । अतिचारी । अपचारी । आमोषी । अभ्यघाती ॥
संपृचानु। संपृच, अनुरुध, आड�म, आड�स, परिसृ, संसृज, परिदेवि, संज्वर, परिक्षिप, परिरट, परिवद, परिदह, परिमुह, दुष, द्विष, द्रुह, दुह, युज, आक्रीड, विविच, त्यज, रज, भज, तिचर, अपचर, आमुष , अभ्याहन्, एषां सप्तविंशतेर्द्वन्द्वात्पञ्चमी। संपर्कीति। `चजो`रिति कुत्वम्। अनुरोधीत्यादौ लघूपधगुणः। अदुपधेषु उपधावृद्धिः। परिदेवीति। `देवृ देवने` भ्वादिः। दीव्यतेस्तु ण्यन्तस्य ग्रहणं , लाक्षणिकत्वात्, अण्यन्तैः साहचर्याच्च। अभ्याघातीति। `हनस्तोऽचिण्णलो`रिति तत्वम्। `हो हन्ते` रिति कुत्वम्।
संपृचा। संपर्कीति। पृची संपर्के। `चजो` कुत्वं। गुणः। परिदेवीति। देवृ देवने भ्वादिः। ण्यन्तस्य दीव्यतेस्तु नेह ग्रहणं, लाक्षणिकत्वात्, अण्यन्तैः साहचर्याच्च। अभ्याघातीति। अभ्याङ्पूर्वाद्धन्तेर्हस्य कुत्वेन घः। `हनस्तोऽचिण्णलोःर` इति नस्य तः। `अत उपधायाः` इति वृद्धिः।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!