Page loading... Please wait.
3|2|134 - आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु
॥ तस्मै पाणिनये नमः ॥
3|2|134
SK 3114
आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु   🔊
सूत्रच्छेदः
(अव्ययम्) , क्वे (पञ्चम्येकवचनम्) , तच्छील-तद्धर्म-तत्साधुकारिषु (सप्तमीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 वर्तमाने  3|2|123 आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु  3|2|134
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
भ्राजभासधुर्विद्युतौउर्जिपृ̄जुग्रावस्तुवः क्विप् 3|2|177 इति क्विपं वक्ष्यति। आ एतस्मात् क्विप् संशब्दाद् यानित ऊर्ध्वमनुक्रमिष्यामस् तच्छीलादिषु कर्तृषु ते वेदितव्याः। अभिविधौ च अयम् आङ्। तेन क्विपो ऽप्ययम् अर्थनिर्देशः। तदिति धात्वर्थः शीलादि विशेषणत्वेन निर्दिश्यते। तच्छीलो यः स्वभावतः फलनिरपेक्षस् तत्र प्रवर्तते। तद्धर्मा तदाचारः, यः स्वधर्मे ममायमिति प्रवर्तते विनापि शीलेन। तत्साधुकरी यो धात्वर्थं साधु करोति। उत्तरत्रैव उदाहरिष्यामः।
`तच्छीलादिषु कर्त्तुषु` इति। अनेन तच्छीलादीनां प्रत्ययार्थविशेषणतां दर्शयति।`अभिविधौ चायमाङ` इति। अभिविधिः = अभिव्याप्ति-। अत्राङ न मर्यादायाम्, तेन वक्ष्यमाणस्य क्विपोऽप्ययमर्थनिर्देश इति। सोऽपि तच्छीलीदिष्वेव भवति। `तत्ित्यादि। `धातोः` 3|1|91 इति वत्र्तते,न च धातोः शीलादिविशेषणमुपपद्यते, तस्मात् तस्य योऽर्थः स शीलादीनां त्रयाणां विशेषणभावेन तच्छीलादिशब्देन निर्दिश्यते। स धात्वर्थः शीलं यस्य स तच्छीलः। स एव धर्मो यस्य स तद्धर्मा। साधु करोतीति साधुकारी, तस्य धात्वर्थस्य साधुकारीति यावत्। `स्वभावतः` इति। भवत्यस्मात् फलनिरपेक्षा वृत्तिरिति भावः। स्वभावश्चैतनिको धर्मः, स पुनः शीलमेव।`फलनिरपेक्षः` इति। फलाकाङ्क्षारहितः। `तत्र`इति। धात्वर्थे। `तदाचारः`इति। तच्छीलात् तदाचारस्यान्यथात्वं दर्शयति। `यो धात्वर्थं साधु करोति` इति। अत्रापि विना शीलेनेति सम्बध्यते। `साधु`इति। प्रशस्तमित्यर्थः। क्रियाविशेषणत्वान्नपुंसकत्वम्॥
आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु॥ तदित्यादि। ठ्धातोःऽ इति वर्तते, धातुश्च शब्दः, न तस्य शीलादिप्रतिविशेषणत्वमुपपद्यते, तस्मातस्य योऽर्थः स शीलादीनां त्रयाणां विशेष्याणां विशेषणत्वेन त्रिभिस्तच्छब्दैर्निर्दिश्यते। तत्र धात्वर्थे शीलं यस्य स धात्वर्थो धर्मो यस्य तस्य धात्वर्थस्य साधुकारीत्येवमित्यर्थः। तद्धर्मा तदाचार इति। धर्मशब्दस्याचारे प्रसिद्धत्वात्। विनापि शीलेनेति। तच्छीलाद्भेदं दर्शयति। यो धात्वर्थ साघु करोतीति। विनापि शीलेनेत्यनुषङ्गः॥
सिद्धान्तकौमुदी
क्विपमभिव्याप्य वक्ष्यमाणाः प्रत्ययास्तच्छीलतद्धर्मतत्साधुकारिषु कर्तृषु बोध्याः ॥
आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु - आ क्वेः । आङभिविधौ । तदाह — क्विपमभिव्याप्तेति ।भ्राजभासधुर्विद्युतोर्जिपृजुग्रावस्तुवः क्वि॑ बिति सूत्रमभिव्याप्येति यावत् । तत्र ताच्छीलिकाः प्रत्ययाः प्रायेण सोपसर्गेभ्यो नेति "आढसुभगे" ति सूत्रे भाष्ये स्पष्टम् । तच्छीलः = तत्स्वभावः । फलमनपेक्ष्य स्वभावादेव प्रवर्तमान इति यावत् । स धर्मो यस्य स तद्धर्मा । स्वधर्मोऽयमिति प्रवर्तमानः । तस्या = धात्वर्थस्य साधुकर्ता तत्साधुकारी ।
आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु - आ क्वेः । शीलादीनां त्रयाणां विशेषणं समर्थयितुं निर्दिष्टैस्त्रिभिस्तच्छब्दैः प्रकृतिभूतधात्वर्थो निर्दिश्यते । क्विपमभिव्याप्तेति ।भ्राजभासधुर्विद्युतोर्जी॑ति वक्षमाण॑मिति शेषः । कर्ता कटानीति ।न लोकाव्यये॑ति षष्टीनिषेधः ।
लघुसिद्धान्तकौमुदी
कर्ता कटान्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.