॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|2|13
SK 2927
3|2|13
स्तम्बकर्णयोः रमिजपोः   🔊
SK 2927
सूत्रच्छेद:
स्तम्ब-कर्णयोः - सप्तमीद्विवचनम् , रमि-जपोः - षष्ठीद्विवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
स्तम्ब कर्ण इत्येतयोः सुबन्तयोरुपपदयोर् यथासङ्ख्यं रमिजपोः धात्वोः अच्प्रत्ययो भवति। रमेः अकर्मकत्वात्, जपेः शब्दकर्मकत्वात् कर्म न सम्भवति इति सुपि इत्येतदिह अभिसम्बध्यते। हस्तिसूचकयोरिति वक्तव्यम्। स्तम्बे रमते इति स्तम्बेरमः हर्ती। कर्णे जपति इति कर्णेजपः सूचकः। हस्तिसूचकयोः इति किम्? स्तम्बे रन्ता। कर्णे जपिता मशकः।
`जपेः शब्दकर्मकत्वात्` इति गायत्रीं जपति;अनुवाकं जपतीत्यत्र शब्दकर्मकस्यैव प्रयोगदर्शनात्। `कर्मं न सम्भवति` इति। कर्णस्याशब्दात्मकत्वादित्यभिप्रायः।इतिकरणो हेतौ। यत एव कर्णशब्दः कर्म न सम्भवति तेन सुपीत्येतदिह सम्बध्यते,न कर्मणीति।`हस्तिसूचकयोः` इत्यादि। हस्तिसूचकग्रहणं प्रत्ययार्थस्यैव कर्त्तुर्विशेषणम्। `स्तम्बकर्णयो रमिजपोः` इति योऽयमज्विधिः स हस्तिसूचकयोः कत्र्रोर्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु-- तस्यैव विभाषाग्रहणानुवृत्तस्य व्यवस्थितविभाषात्वमाश्रित्य कत्र्तव्यम्। `स्तम्बेरमः कर्णेजपः` इति। `तत्पुरुषे कृति बहुलम्` 6|3|13 इति सप्तम्या अलुक्। `सूचकः`इति। पिशुनक इत्यर्थः॥
स्तम्बकर्णयो रमिजपोः॥ रमेरकर्मकत्वादिति। ननु ठ्व्याङ्परिभ्यो रमःऽ ठुपाच्चऽ इत्यत्रोदाहृतम्---देवदतमुपरमतीति? एवं मन्यते---ठनुपसर्गेऽ इति वर्तत इति। जपेश्च शब्दकर्मकत्वादिति। मन्त्रं जपतीत्यादौ तत्रैव प्रयोगदर्शनात्। कर्म न संभवतीति। केवलस्य रमेर्जपेश्च कर्माद्यशब्दात्मकमिति भावः। सूचकःऊपिशुनः। स्तम्बेरम इति। ठ्तत्पुरुषे कृति बहुलम्ऽ इत्यलुक्। कर्णे जपिता मशक इति। उपांशुशब्दायितेत्यर्थः॥
सिद्धान्तकौमुदी
हस्तिसूचकयोरिति वक्तव्यम् (वार्तिकम्) ॥ स्तम्बे रमते स्तम्बेरमो हस्ती । तत्पुरुषे कृति--(कौमुदी-972) इति हलन्ता (कौमुदी-966) इति वा ङेरलुक् । कर्णेजपः सूचकः ॥
स्तम्बकर्णयोः रमिजपोः - स्तम्बकर्णयोः । रम जप अनयोरकर्मकत्वात्कर्मणीति न संबध्यते । जपेः शब्दोच्चारणार्तकस्य धात्वर्थोपसङ्ग्रहादकर्मकत्वं बोध्यम् । दर्भादितृणनिचयः - स्तम्बः । सूचकः - पिशुनिः । हस्तिसूचकयोः किम् । स्तम्बे रन्ता गौः कर्णे जपिता गुरुः, मशको वा ।
स्तम्बकर्णयोः रमिजपोः - * हस्तिसूचकयोरिति वक्तव्यम् । हस्तसूचकयोरिति । अन्यत्र तु स्तम्बे रन्ता । कर्णे जपिता ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
स्तम्बकर्णयोरमिजपोः (780) (475 अच्प्रत्ययविधिसूत्रम्।। 3 । 2 । 1 आ।7) (2017 अर्थपरिसंख्यावार्तिकम्।। 1 ।।) - स्तम्बकर्णयोर्हस्तिसूचकयोः- (भाष्यम्) स्तम्बकर्णयोरित्यत्र हस्तिसूचकयोरिति वक्तव्यम्। स्तम्बेरमो हस्ती। कर्णेजपः सूचकः। स्तम्बेरन्ता कर्णे जपितेत्येवान्यत्र।। स्तम्बकर्णयोः।। 13 ।।