Page loading... Please wait.
3|2|125 - सम्बोधने च
॥ तस्मै पाणिनये नमः ॥
3|2|125
SK 3102
सम्बोधने च   🔊
सूत्रच्छेदः
सम्बोधने (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 वर्तमाने  3|2|123
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
प्रथमासमनाधिकरणार्थ आरम्भः। सम्भोधने च विषये लटः शतृशानचौ प्रत्ययौ भवतः। हे पचन्। हे पचमान।
`प्रथमासमानाधिकरणार्थ आरम्भः` इति। अवधारणमिह द्रष्टव्यम्। पूर्वयोगो ह्रप्रथमासमानाधिकरणार्थः, क्वचित् प्रथमासमानाधिकरणार्थश्च; अयं तु प्रथमासमानाधिकरणार्थं एव। यदि तर्हि पूर्वसूत्रं प्रथमासमानाधिकरणार्थमपि, तह्र्रेषंसति तौ यथा अन्यत्र प्रथमासमानाधिकरणेऽपि भवतस्तथा सम्बोधनेऽपि भविष्यत इत्यपार्थकम्? नापार्थकम्; तस्यैव प्रपञ्चार्थत्वात्। `हे पचन्` इति। `न ङिसम्बुद्ध्योः` 8|2|8 इति नलोपप्रतिषेधान्नलोपाभावः। `हे पचमान` इति। `एङ ह्यस्वात् सम्बुद्धेः` 6|1|67 इति सुलोपः॥
सम्बोधने च॥ हे पचन्निति। संयोगान्तलोपस्यासिद्धत्वान्नलोपाभावः। अत्र सम्भोधने प्रथमा, अयमादेशश्चेत्युभयं मिलितं सम्बोधनं द्योतयति॥
सिद्धान्तकौमुदी
हे पचन् । हे पचमान ॥
सम्बोधने च - संबोधने च ।शतृशानचा॑विति शेषः । प्रथमासमानाधिकरणार्थ आरम्भः । पूर्सूत्रस्थपुनर्लड्ग्रहणस्य अधकविधानार्थत्वादेव सिद्धे प्रपञ्चार्थमिदम् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.