Page loading... Please wait.
3|2|122 - पुरि लुङ् चास्मे
॥ तस्मै पाणिनये नमः ॥
3|2|122
SK 2782
पुरि लुङ् चास्मे   🔊
सूत्रच्छेदः
पुरि (सप्तम्येकवचनम्) , लुङ् (प्रथमैकवचनम्) , च (अव्ययम्) , अस्मे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 भूते  3|2|84
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अनद्यतनग्रहणम् इह मण्डूकप्लुत्या ऽनुवर्तते। पुराशब्दे उपपदे स्मशब्दवर्जिते भूतानद्यतने ऽर्थे विभाषा लुङ् प्रत्ययो भवति, लट् च। ताभ्यां मुक्ते पक्षे यथाविषयमन्ये ऽपि प्रत्यया भवन्ति। वसन्ति इह पुरा छात्राः, अवात्सुरिह पुरा छात्राः, अवसन्निह पुरा छात्राः, ऊषुरिह पुरा छात्राः। अस्मे इति किम्? नडेन सम् पुरा अधीयते।
`पुराशब्दे` इति। एतेन पुराशब्द इहोपपदत्वेनोपात्तो न पुरिति दर्शयति। यद्येतदेव, अस्याकारान्तत्वात् पुरीति सप्तम्यन्तो निर्देशो नोपपद्यते? `आतो धातोः` 6|4|140 इति योगविभागादाकारलोपाददोषः। अथ `पृ पालनपूरणयोः`(धातुपाठः-1086) इत्येतस्माद्भ्राजादिसूत्रेण 3|2|177 क्विपि विहितः `उदोष्ठपूर्वस्य` 7|1|102 इत्युत्त्वे रपरत्वे च कृते यः पूःशब्द सम्पद्यते तस्येहाप्युपपदत्वेनोपादानमिति कस्मान्न विज्ञायते? तस्यानद्यतनवृत्त्यसम्भवात्। पुराशब्दस्तु तत्रैव वत्र्तत इति तस्यैव ग्रहणं युक्तम्। `लुङ च` इति चकारेण लडनुकृष्यत इति दर्शयति। `यथाविषयम्` इति। `यथाऽसादृश्ये` 2|1|7 इति वीप्सायामव्ययीभावः। `अन्येऽपि`इति। लङादयः। `वसन्ति` इति। लट्। `अवात्सुः` इति। लुङ, `सिजभ्यस्तविदिभ्यश्च` 3|4|109 इति झेर्जुसादेशः, `वदव्रज` 7|2|3 इत्यादिना वृद्धिः, पूर्ववत् सकारस्य तत्वम्। `अवसन्` इति। लङ। `ऊषुः` इति। लिट्, `परस्मैपदानाम्` 3|4|82 इत्यादिना झेर्जुस्, द्विर्वचनम्, वच्यादिसूत्रेण 6|1|15 सम्प्रसारणम्, `लिटभ्यासस्योभयेषाम्` 6|1|17 इत्यभ्यासस्य च; `शासिवसिघसीनाञ्च` 8|3|60 इति षत्वम्॥
पुरि लङ् चास्मे॥ अनद्यतनग्रहममित्यादि। लुङ्ग्रहणं चात्र लिङ्गम्। यदि हि भूतमात्रेऽयं विधिः स्यात् विभाषा लटो विधानातेन मुक्ते लुङपि भविष्यति, कि लुङ्ग्रहणेन! अनद्यतनग्रहणानुवृतौ तु लटा मुक्ते लणेóव स्यादिति कर्तव्यं लुङ्ग्रहणम्। अन्येऽपीति। लङ्लिटौ, अभिज्ञावचने लृट्---अभिजानासि देवदत वत्स्यन्तीह पुरा छात्रा इति॥
सिद्धान्तकौमुदी
अनद्यतग्रहणं मण्डूकप्लुत्याऽनुवर्तते । पुराशब्दयोगे भूतानद्यतने विभाषा लुङ् चाल्लट् नतु स्मयोगे । पक्षे यथाप्राप्तम् । वसन्तीह पुरा छात्राः । अवात्सुः । अवसन् । ऊषुर्वा । अस्मे किम् । यजति स्म पुरा । भविष्यतीत्यनुवर्तमाने ॥
पुरि लुङ् चास्मे - पुरि लुङ् चास्मे ।अस्मे इति च्छेदः । पुरेत्याकारान्तमव्यम् । पुरीति तस्य सप्तम्येकवचनम् । आत इति योगविभाघादाल्लोपः । मण्डूकप्लुत्येति । अत्र व्याख्यानमेव शरणम् । चाल्लडिति । तथा च लुङ् लट् च वेति फलितम् । पक्षे इति । एतदुपभयाऽभावपक्षे इत्यर्थः । यथाप्राप्तमिति । अनद्यतनपरोक्षभूते लिट् । परोक्षत्वाऽविवक्षायां तु लङित्यर्थः । "अभिज्ञावचने " इत्यारभ्य एतदन्ता विधयस्तृतीयस्य द्वैतीयीकाः । अथ तृतीयस्य तार्तीयीका विधयो वक्ष्यन्ते । भविष्यतीत्यनुवर्तमाने इति । "भविष्यति गम्यादयः" इति सूत्रादिति भावः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
पुरि लुङ् चास्मे (889) (598 लुङ्लड्विधिसूत्रम्।। 3 । 2 । 2 आदृ 16) (3017 वार्तिकम्।। 1 ।।) - हशश्वद्भ्यां पुरा- (भाष्यम्) हशश्वल्लक्षणात्पुरालक्षणो भवति विप्रतिषेधेन। हशश्वल्लक्षणस्यावकाशः ‐ -इति हाकरोत् इति ह चकार, ‐ ‐ शश्वदकरोत् शश्वच्चकार पुरालक्षणस्यावकाशो ‐ ‐ रथेनायं पुरा याति रथेनायं पुरायासीत्। इहोभयं प्राप्नोति ‐ ‐ -रथेन हशस्वत्पुरा याति रथेन हशश्वत्पुरायासीत्। पुरालक्षणो भवति विप्रतिषेधेन।। (3018 वार्तिकम्।। 2 ।।) - स्मः सर्वेभ्यो विप्रतिषेधेन- (भाष्यम्) स्मलक्षणः सर्वेभ्यो भवति विप्रतिषेधेन। हशस्वल्लक्षणात्पुरालक्षणाच्च। हशश्वल्लक्षणस्यावकाशः ‐ -इति हाकरोत्उःथ्द्य;ति ह चकार। शश्वदकरोत्शश्वच्चकार। पुरालक्षणस्यावकाशः ‐ ‐ णस्यावकाशः ‐ ‐ धर्मेण स्म कुरवो युध्यन्ते। इह सर्वे प्राप्नोति ‐ -न ह स्म वै पुरा शश्वदग्निरपरशुवृक्णं दहति। स्मलक्षणो लड् भवति विप्रति षेधेन।। पुरि लुङ्।। 122 ।। (इति भूताधिकारः)