Page loading... Please wait.
3|2|113 - न यदि
॥ तस्मै पाणिनये नमः ॥
3|2|113
SK 2774
न यदि   🔊
सूत्रच्छेदः
(अव्ययम्) , यदि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 भूते  3|2|84
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
यच्छब्दसहिते अभिज्ञावचन उपपदे लृट् प्रत्ययो न भवति। पूर्वेण प्राप्तः प्रतिषिद्यते। अभिजानासि देवदत्त यत् कश्मीरेष्ववसाम। वासमात्रं स्मर्यते, न तु अपरं किंचिल् लक्ष्यते। तेन उत्तरसूत्रस्य न अयं विषयः।
`यदि` इति। सती सप्तमीयम्। अभिज्ञावचनञ्चानुवत्र्तते। तेन यत्र यच्छब्दोऽस्ति तत्र नियोगतोऽभिज्ञावचनं तत्सहितं न भवतीत्याह-- `यच्छब्दसहिते`इत्यादि। `अवसाम` इति। वसेर्लङ्, `नित्यं ङितः` 3|4|99 इति सलोपः, पूर्ववद्दीर्घः। `वासमात्रम्ित्यादिना उत्तरसूत्रस्य नायं विषय इति दर्शयति। यदि हि तत्रापरं लक्षणमपेक्ष्यते तदोत्तरसूत्रे पाक्षिको विधिः स्यात्, स नेष्यते, तस्मान्नापेक्षते॥
न यदि॥ यदीति सतिसप्तमीयम्। अभिज्ञावचनं चानुवर्तते, तेन यत्र यच्छब्दोऽस्ति, तत्र यदभिज्ञावचनं तन्नियोगतो यच्छब्देन सहितं भवतीत्यभिप्रेत्याह-----यच्छब्दसहित इत्यादि। अवसामेति। वेसर्लङ् मस्, ठ्नित्यं ङ्तिःऽ इति सलोपः, दीर्घः, वासमात्रमित्यादिनोतरसूत्रस्य नायं विषय इति दर्शयति। यदि तत्रापरं किञ्चिल्लक्ष्यमपेक्ष्येत तदोतरसूत्रेण पाक्षिको विधिस्स्यात्, तच्च नेष्यते, तस्मान्न तस्य विषयः॥
सिद्धान्तकौमुदी
यद्योगे उक्तं न । अभिजानासि कृष्ण यद्वने अभुञ्जमहि ॥
न यदि - न यदि ।यदी॑ति सप्तमीति मत्वाह — - यद्योगे इति । उक्तं नेति । "अभिज्ञावचने" इति लृण्न भवतीत्यर्थः । अभिजानासीति । वने अभुञ्जमहीति यत्तस्मरसीत्यर्थः ।
न यदि - न यदि । लृटः प्रतिषेधे उत्सर्गो लङ् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.