॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|2|110
SK 2218
3|2|110
लुङ्   🔊
SK 2218
सूत्रच्छेद:
लुङ् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , भूते  [3|2|84]
सम्पूर्णसूत्रम्
भूते धातो: पर: आद्युदात्त: लुङ्
सूत्रार्थ:
भूतकालं द्योतयितुम् धातोः परः आद्युदात्तः लुङ्-प्रत्ययः भवति ।
अनेन सूत्रेण लुङ्लकारः विधीयते । भूतकालं द्योतयितुम् धातोः परः लुङ्-लकारः भवति । यथा -

1) सः चित्रम् अद्राक्षीत् ।
2) यूयम गीताम् अपाठिष्ट ।
3) वृक्षाणि ऐधिषत ।
4) अहम् ग्रामम् न अगमम् ।
5) त्वं किम् अकार्षीः ?

ज्ञातव्यम् - परोक्ष-अनद्यतन-भूतकालं दर्शयितुम् परोक्षे लिट् 3|2|115 इत्यनेन लिट्-लकारः विधीयते (यथा - रामः वनं जगाम) तथा, यत्र अनद्यतन-भूतःकालः स्पष्टरूपेण निर्दिष्टः अस्ति, तत्र अनद्यतने लङ् 3|2|111 इत्यनेन लङ्-लकारस्य प्रयोगः विधीयते (यथा - सः ह्रः ग्रामम् अगच्छत्) । एते द्वे अवस्थे विहाय अन्यत्र सर्वत्र भूतकालम् दर्शयितुम् अनेन सूत्रेण लुङ्-लकारः विधीयते ।
One-line meaning in English
The लुङ्-प्रत्यय: is used to indicate the past tense.
काशिकावृत्तिः
भूते इत्येव। बूते ऽर्थे वर्तमानाद् धातोः लुङ् प्रत्ययो भवति। अकार्षीत्। अहार्षीत्। वसतेर् लुङ् रात्रिविशेषे जागरणसन्ततौ वक्तव्यः। क्व भवानुषितः। अहमत्रावात्सम्।
ङकारः `नित्यं ङितः` 3|4|99 इति विशेषणार्थः। उकारः `लुङलङलृङक्ष्वडुदात्तः` 6|4|71 इति विशेषणार्थः। भूतसामान्ये चायं लुङ वेदितव्यः; भूतविशेषणेऽनद्यतन्यां लङलिटोर्विधानात्। `अकार्षीत्` इति। `सिचि वृद्धिः परस्मैपदेषु` 7|2|1 इति वृद्धिः; पूर्ववदीट्। `वसतेः` इत्यादि। `वस निवासे` (धातुपाठः-1005) इत्यस्मादनद्यतने लङि प्राप्ते लुङ वक्तव्यः। दिवसः सकलोऽतिक्रान्ताया रात्रेश्चतुर्थो याम आगामिन्याश्च प्रथमो यामः-- इत्येषोऽनद्यतनः कालः। तत्र रात्रिविशेषेऽतिक्रान्ताया रात्रेश्चतुर्थे यामे प्रत्युत्थितः क्व भवानुषितः? इति केनचित् पृष्टः कश्चित्, स तस्मिन् रात्रविशेषे दिवा वा प्रतिवचनं प्रयच्छन् लुङं प्रयुङ्क्ते-- `अहमत्रावात्सम्` इति। स च न प्राप्नोति; यस्मादसौ ततो रात्रिशेषात् पूर्वभागं प्रहरत्रयलक्षमधिशयितः, सोऽस्यानद्यतनकालः, ततश्चानद्यतने लङ स्यात्; तसमाल्लुङ् वक्तव्यः = व्याख्येयः। व्याख्यानं त्विहापि बहुलग्रहणमाश्रित्य कत्र्तव्यम्। `जागरणसन्ततौ` इति। यद्यसौ रात्रिशेषं सकलं सन्तत्याऽविच्छेदेन जागरितवानेवं लुङ् भवति। मुहूत्र्तमपि यद्यस्मिन् रात्रिविशेषे शयितवांस्ततो लङेव-- आहमत्रावसमिति। `अवात्सम्` इति। लुङ्, मिप्, `तस्थस्थ` 3|4|101 इत्यादिनाम्भावः, `वदव्रज` 7|2|3 इत्यादिना वृद्धिः; `सः स्यार्धधातुके` 7|4|49 इति सकारस्य तत्वम्॥
लुङ्॥ इह भूतसामान्ये लुङ् विधीयते, तस्य विशेषेऽनद्यतने लङ्लिटावपवादौ, तद्विषयेऽपि लुङ् द्दश्यते, आगमाम घोषात्, अपास पयः, अशेयिष्महि पूतीकतृणेषु, अभून्नृपो विवुधसखः परन्तपः, इति चिरवृतं कथयतः प्रयुञ्चते? नैष दोषः; विशेषे सामान्यमस्ति, तत्र विशेषाविवक्षायां सामान्याश्रयणेन वस्तुतोऽनद्यतनेऽपि लुणुपपद्यते, द्रूपविवक्षायामेव तु लङ्लिटौ, विवक्षोपारूढो ह्यर्थः शब्दप्रयोगनिमितः, न वस्तुतः सन्निति। गतमेतत्। वसेरिति। ठ्वस निवासेऽ रात्रेश्चतुर्थे यामे पृष्टो यदा वाक्यं प्रयुङ्क्ते तदा तस्यातिक्रान्तरात्रिप्रहरत्रयवसनमनद्यतनमिति लङ्प्रयोगे लुङ् वक्तव्यः। लङ्निवृत्तिपरं चैतत् लुङ् भूतसामान्यविवक्षया सिद्धः। जागरणसन्तताविति। यदा प्रयोक्ता सकलमतिक्रान्त रात्रिप्रहरत्रयं जागरिवतान् तदा लुङ्प्रयोगः यदा सुप्त्वा प्रबुद्ध्य तदा लङ्प्रत्यय एवेत्यर्थः॥
सिद्धान्तकौमुदी
भूतार्थावृत्तेर्धातोर्लुङ्स्यात् ॥
लुङ् - लुङ् । धातोरिति भूत इति चाधिकृतम् । तदाह — भूतार्थवृत्तेरिति ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
भूतार्थे धातोर्लुङ् स्यात्॥
महाभाष्यम्
लुङ् (877) (512 लुङ्विधिसूत्रम्।। 3 । 2 । 2 आ. 10) (2098 आक्षेपवार्तिकम्।। 1 ।।) - लुङ्लृटोरपवादप्रसङ्गो भूतभविष्यतोरविशेषवचनात्- (भाष्यम्) लुङ्लृटोरपवादः प्राप्नोति। अगमामघोषान्। अपाम पयः। अशयिष्महि पूतीकतृणेषु। गमिष्यामो घोषान् पास्यामः पयः शयिष्यामहे पूतीकतृणेषु। किं कारणम्। भूतभविष्यतोरविशेषवचनात्। भूतभविष्यतोर्ह्यविशेषेणैतौ विधीयेते लुङ्लृटौ, तयोर्विशेषविहितौ लङ्लुटावपवादौ प्राप्नुतः।। (2099 आक्षेपोद्धारवार्तिकम्।। 2 ।।) - न वापवादस्य निमित्ताभावादनद्यतने हि तयोर्विधानम्- (भाष्यम्) न वा एष दोषः। किं कारणम्?। अपवादस्य निमित्ताभावात्। नात्रापवादस्य निमित्तमस्ति। किं कारणम्?। अनद्यतने हि तयोर्विधानम्। अनद्यतने हि तौ लङ्लुटौ विधीयेते। न चात्रानद्यतनः कालो विवक्षितः। किं तर्हि?। भूतकालसामान्यं भविष्यत्कालसामान्यं च। (आक्षेपभाष्यम्) यद्यपि तावदेतच्छक्यते वक्तुम ‐ -गमिष्यामो घोषान्पास्यामः पयः। शयिष्यामहे पूतीकतृणेषु। यत्रैतन्न ज्ञायते ‐ -किं कदेति। इह तु कथम् ‐ ‐ अगमाम घोषान्, अपाम पयः, अशयिष्महि पूतीकतृणेष्विति। यत्रैतन्निर्ज्ञातं भवति अमुष्मिन्नहनि गतमिति।। (समाधानभाष्यम्) अत्रापि नवापवादस्यनिमित्ताभावादनद्यतने हि तयोर्विधानमित्येव। कथं पुनः सतो नामाविवक्षा स्यात्। सतोऽप्यविवक्षा भवति। तद्यथाऽलोमिका एडका अनुदरा कन्येति। असतश्च विवक्षा भवति। तद्यथा समुद्रः कुण्डिका विन्ध्योवर्धितकमिति। (3000 वार्तिकम्।। 3 ।।) (भाष्यम्) वसेर्लुङ्रात्रिशेषे वक्तव्यः। न्याय्ये प्रत्युत्थाने प्रत्युत्थितं कश्चित् कंचित्पृच्छति क्व भवानुषित इति, स आह अमुत्रावात्सम् इति। अमुत्रावसमिति प्राप्नोति।। (3001 वार्तिकम्।। 4 ।।) - जागरणसन्ततौ- (भाष्यम्) जागरणसंतताविति वक्तव्यम्। यो हि मुहूर्तमात्रमपि स्वपिति तत्र अमुत्रावसम् इत्येव भवितव्यम्।। लुङ् ।। 110 ।।