॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|2|107
SK 3095
3|2|107
क्वसुश्च   🔊
SK 3095
सूत्रच्छेद:
क्वसुः - प्रथमैकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , भूते  [3|2|84]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
छन्दसि लिटः क्वसुरादेशः भवति। जक्षिवान्। पपिवान्। न च भवति। अहं सूर्यमुभयतो ददर्श। योगविभाग उत्तरार्थः।
क्वसोरुगित्करणं नुमर्थम्। कित्करणं कानच इव द्रष्टव्यम्। असति हि तस्मिन् `ऋच्छत्यृनाम्` 7|4|11 इति यथेह गुणो न भवति-- तेरतुः, तेरुरिति; तथेहापि ततीर्वानिति। `तृ प्लवनतरणयोः` (धातुपाठः-969), `ऋत इद्धातोः` 7|1|10 इतीत्त्वम्, `हलि च` 8|2|77 इति दीर्घः, द्विरवचनमभ्यासकार्यम्। `जक्षिवान्` इति। `लिटन्यतरस्याम्` 2|4|40 इत्यदेर्घस्लादेशः। `वस्वेकाजाद्धसाम्` 7|2|67 इतीट्, `घसिभसोर्हलि च` 6|4|100 इत्युपधालोपः, `खरि च` 8|4|54 इति घकारस्य ककारः, `शासिवसिघसीनाञ्च` 8|3|60 इति षत्वम्, `कुहोश्चुः` 7|4|62 इत्यभ्यासस्य चुत्वम्---झकारः, `अभ्यासे चर्च` 8|4|53 इति झकारस्य जकारः। `पपिवान्` इति। `पा पाने` (धातुपाठः-925)। पूर्ववदिट्। `आतो लोप इटि च` 6|4|64 इत्यकारलोपः। `योगविभाग उत्तरार्थः` इति। उत्तरसूत्रे क्वसोरेवानुवृत्तिर्यथा स्यात्, कानचो मा भूत्॥
क्वसुश्च॥ क्वसोरुकार उगित्कार्यार्थः, जक्षिवानित्यादौ ठुगिदचाम्ऽ इति नुम्, उपसेदुषीत्यादौ ठुगितश्चऽ इति ङीप्, ठ्वसोः संप्रसारणम्ऽइत्यत्र सामान्यग्रहणमप्युकारस्य प्रयोजनम्। कित्करणं किमर्थ न ठसंयोगाल्लिट् कित्ऽ इत्येव सिद्धम्? संयोगान्तार्थम्।अञ्जेः आजिवान्---उपधालोपो भवति, छान्दसः क्वसुः लिट्। च्छन्दसि सार्वधातुकमपि तत्र ठ्सार्वधातुकमपित्ऽ इति। तत्वङ्तीत्युपिधालोपो भविष्यति। ऋकारान्तगुणप्रतिषेधार्थन्तुऽ, ठृच्छत्यृताम्ऽ इत्ययं गुणः प्रतिषेध आरभ्यते स यथेह भवति---तेरतुस्तेरुरिति, तथा तितीर्वानित्यत्रांपि स्यात्। कित्करणसामर्थ्याद्भाषायामपि क्वसुर्भवतीत्येतु भाष्यविरोधादुपेक्ष्यम्। उतरसूत्रानर्थक्यं च, यदि भाषायामपि क्वसुर्भवति॥
सिद्धान्तकौमुदी
इह भूतसामान्ये छन्दसि लिट् तस्य विधीयमानौ क्वसुकानचावपि छान्दसाविति त्रिमुनिमतम् । कवयस्तु बहुलं प्रयुञ्जते । तं तस्थिवांसं नगरोपकण्ठे इति । श्रेयांसि सर्वाण्यधिजग्मुषस्ते इत्यादि ॥
क्वसुश्च - क्वसुश्च । त्रीणीमानि सूत्राणि । अत्र प्रथम सूत्रे भूत इत्यनुवृत्तिमभिप्रेत्य व्याचष्टे — भूतसामान्ये छन्दसि लिडिति । अनद्यतनपरोक्षत्वं छन्दसि न विवक्षितमिति भावः ।लिटः कानज्वे॑ति द्वितीयं सूत्रम् । तत्र छन्दसीत्यनुवर्तते, भूते इति च । छन्दसि भूते लिटः कानजादेशः स्यादित्यर्थः । लिड्ग्रहणं लिण्मात्रस्य ग्रहणार्थम् । तेन "परोक्षे लि" डिति यो लिड्विहितस्तस्यापि ग्रहणार्थः । अन्यथाअनन्तरस्ये॑ति न्यायेन प्रकृतस्यैव लिटो ग्रहणं स्यादिति वृत्तौ स्पष्टम् । वाग्रहणं तु पक्षे लिटः श्रवणाअर्थं, वासऽरूपविधिर्लादेशेषु नेति ज्ञापनार्थं वा । तत्प्रयोजनं तुभाषायां सदवसे॑त्यत्र क्वसोरेवानुवृत्त्यर्थः । इमौ कानच्क्वसू आदेशौ छन्दसि भूते लिटः क्वसुश्चादेशः स्यादित्यर्थः । योगविभागस्तु उत्तरसूत्रे क्वसोरेवानुवृत्त्यर्थः । इमौ कानच्क्वसू आदेशौ छान्दसाविति — अत्रैव भाष्यकैटयोः स्पष्टम् । तदाह — तस्येत्यादि, त्रिमुनिमतमित्यन्तम् ।विभाषा पूर्वाह्णाऽपराह्णे॑ति सूत्रभाष्ये तु पपुष आगतं पपिवद्रूप्यमिति प्रयुक्तम् । तेन लोकेऽपि क्वचिक्त्वसोः साधुत्वं सूचितम् । तदाह — - कवयस्त्विति । तस्थिवांसमिति । स्थाधातोर्लिटः क्वसुः । द्वितीयैकवचनेअत्वसन्तस्ये॑ति दीर्घः । उगित्त्वान्नुम् । अधिजग्मुष इति । अधिपूर्वाद्गमेर्लिटः क्वसुः, आङोयमहने॑त्युपधालोपः, शसि वसोः संप्रसारणं, पूर्रूपम् , षत्वम् ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
क्वसुश्च (874) (509 लिटः क्वसुविधिसूत्रम्।। 3 । 2 । 2 आ.7) (वाग्रहणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) किमर्थं कानच्क्वस्वोर्वावचनं क्रियते। - कानच्क्वस्वोर्वावचनं छन्दसि तिङो दर्शनात्- (भाष्यम्) कानच्क्वस्वोर्वावचनं क्रियते। छन्दसि तिङो दर्शनात्। छन्दसि तिङपि दृश्यते ‐ -अहं सूर्यमुभयतो ददर्श। अहं द्यावापृथिवी आततानेति।। (2080 समाधानासंगतिवार्तिकम्।। 2 ।।) - न वानेन विहितस्यादेशवचनात्- (भाष्यम्) न वा एतत्प्रयोजनमस्ति। किं कारणम्?। अनेन विहितस्यादेशवचनात्।। (आक्षेपभाष्यम्) अस्त्वनेन विहितस्यादेशः। केनेदानीं छन्दसिविहितस्य लिटः तिङः श्रवणं भविष्यति।। (समाधानभाष्यम्) छन्दसि लुङ्लङ्लिटः इत्यनेन। तदेतद्वावचनं तिष्ठतु तावत् सांन्यासिकम्।। (कित्करणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) अथ कित्करणं किमर्थम्। न असंयोगाल्लिट्कित् इत्येव सिद्धम्। (2081 प्रयोजनवार्तिकम्।। 3 ।।) - कित्करणं संयोगान्तार्थम्- (भाष्यम्) कित्करणं क्रियते। संयोगान्तार्थम्। संयोगान्ताः प्रयोजयन्ति। बन्धे वृत्रस्य यद्बद्धधानस्य रोदसी। त्वमर्णवान् बद्बधानाँ अरम्णाः। अञ्ञ्चेः आजिवानिति।। (प्रयोजननिराकरणभाष्यम्) छान्दसौ कानच्क्वसू। लिट् च छन्दसि सार्वधातुकमपि भवति। तत्र सार्वधातुकमपिद् ङिद्वद्भवति। ङित्त्वादुपधालोपे भविष्यति।। (2082 प्रयोजनान्तरवार्तिकम्।। 4 ।।) - ऋकारान्तगुणप्रतिषेधार्थं वा- (भाष्यम्) ऋकारान्तानां गुणप्रतिषेधार्थं तर्हि कित्त्वं वक्तव्यम्। अयं हि लिटि ऋकारान्तानां प्रतिषेधविषये गुण आरभ्यते। स यथैवेह प्रतिषेधं बाधित्वा गुणो भवति ‐ ‐ तेरतुः तेरुरिति। एवमिहापि स्यात् ‐ -तितीर्वान्, तितिराण इति। पुनः कित्करणात् प्रतिषिध्यते। तस्मात्कित्त्वं कर्तव्यम्।। लिटः कानञ्ञ्वा।। 107 ।।