॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|2|105
SK 3093
3|2|105
छन्दसि लिट्   🔊
SK 3093
सूत्रच्छेद:
छन्दसि - सप्तम्येकवचनम् , लिट् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , भूते  [3|2|84]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
भूते इत्येव। छन्दसि विषये धातोः लिट् प्रत्ययो भवति। अहं सूर्यमुभयतो ददर्श। अहं ध्यावापृथिवी आततान। ननु च छ्न्दसि लुड्लङ्लिटः 3|4|6 इति सामान्येन लिट् विहित एव? धातुसम्बन्धे स विधिः, अयं त्वविषेषेण।
`ददर्श` इति। दर्शर्लिट, णल्, द्विर्वचनम्, `उरत्` 7|4|66 इत्यत्त्म्, रपरत्वम्, हलादिशेषः 7|4|60 , लघूपधगुणः 7|3|86 । `आततान` इति। `तनु विस्तारे` (धातुपाठः-1463) आङपूर्वः, `अत उपधायाः` 7|2|116 इति वृद्धिः। `धातुसम्बन्धे स विधिः` इति। `धातुसम्बन्धे प्रत्ययाः` 3|4|1 इत्यतो धातुसम्बन्धग्रहणानुवृत्तेः। `अयं त्वविशेषणेण` इति। भूतमात्रे। लिट इकारटकारावुत्तरसूत्रे विशेषणार्थौ। `लः कानज्वा` इत्युच्यमाने लकाराणां ग्रहणं स्यात्। टकारष्टेरेत्वार्थः॥
च्छन्दसि लिट्॥ आततानेति। ठ्णलुतमो वाऽ इति णित्वपक्षे वृद्धिः। धातुसम्बन्धे स विधिरिति। ठ्धातुसम्बन्धे प्रत्ययाःऽ इत्यधिकारात्। लिट इकारटकारौ विशेषणार्थौ, ठ्लिटः कानज्वाऽ ठ्लिट।ल्भ्यासम्योभयेषाम्ऽ इत्यादौ ठ्लऽ इत्युच्यमानेऽन्येषामपि लङदीनां ग्रहणं स्यात्, निरनुबन्धकत्वादस्यैव ग्रहणं भविष्यति। परोक्षे लिटोऽपि तर्हि न प्राप्नोति? टकारष्टेरेत्वार्थश्च॥
सिद्धान्तकौमुदी
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
छन्दसि लिट् - छन्दसि लिट् ।
छन्दसि लिट् - छन्दसि लिडिति सूत्रस्यार्थमाह — भूतसामान्ये इति । न चछन्दसि लुङ्लङ्लिटः॑ इत्यनेन गतार्थता शङक्या, धातुसंबन्धाधिकारे हि स विधिः, इदं तु धातुसंबन्धं विनापि भवतीति विशेषात् । अत्र व्याचख्युः — कानचः कित्करणं तिस्तिराण इत्यत्रऋच्छत्यृता॑मिति गुणस्य निषेधार्थं सति प्रतिषेधविषये आरभ्यते ।चक्राण॑ इत्यत्र तुअसंयोगाल्लिट्व॑दित्येव सिद्धं कित्त्वमिति । त्रिमुनिमतमिति । सूत्रकृता छन्दसीति प्रक्रान्तत्वादुत्तरसूत्रे भाषाग्रहणाच्च, भाष्यवार्तिकयोरपि क्वसुकानचोःछन्दस्युभयथे॑ति वचनात्सार्वधातुकत्वेनसार्वधातुकमपि॑ दिति ङित्त्वादेव आजिवानित्यादौ नलोपादीनां कित्कार्याणामन्यथासिद्धिमाशङ्क्य तितीर्वान् तिस्तिराण इत्यादौऋच्छत्यृता॑मिति प्राप्तस्य गुणस्य बाधानार्थं कित्करणमिति सिद्धान्तितत्वात् । अत एव कित्करणसामथ्र्याद्भाषायामपि क्वसुकानचौ स्त इति केषांचिदुत्प्रेक्षा नादर्तव्येति हरदत्तमाधवादिग्रन्थे स्पष्टमिति भावः । कवयरित्वति । गतानुगतिकतयेति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!