Page loading... Please wait.
3|2|100 - अनौ कर्मणि
॥ तस्मै पाणिनये नमः ॥
3|2|100
SK 3010
अनौ कर्मणि   🔊
सूत्रच्छेदः
अनौ (सप्तम्येकवचनम्) , कर्मणि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 भूते  3|2|84
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अनुपूर्वात् जनेः कर्मणि उपपदे डः प्रत्ययो भवति। पुमांसमनुजातः पुमनुजः। स्त्र्यनुजः।
`अनुपूर्वाज्जनेः` इत्यादि। अथानुशब्दस्योपपदत्वं कस्मान्न भवति? यतो न भवति स हेतुः `उदि कूलेरुजिवहोः` 3|2|31 इत्यत्र व्याख्यात इति पुनर्नाख्यायते। `पुममुजः` इति। लुप्तेऽपि सुपि प्रत्ययलक्षणेन पदत्वम्, तेन संयोगान्तलोपो 8|2|23 भवति॥
अनौ कर्मणि॥ पुमांसमनुजात इति। पुमांसमनुरुद्ध्य जात इत्यर्थः, तेनास्य सकर्मकत्वम्। पुमनुज इति पुंसः संयोगान्तलोपः॥
सिद्धान्तकौमुदी
अनुपूर्वाज्जनेः कर्मण्युपपदे डः स्यात् । पुमांसमनुरुध्य जाता पुमनुजा ॥
अनौ कर्मणि - अनौ कर्मणि । ननु जनेरकर्मकत्वात्तत्र कर्मण्युपपदे इत्र्थस्य कथमन्वय इत्यत आह — पुमांसमनुरुध्येति । अनुरुध्य जननं धात्वर्थ इति भावः । पुमनुजेति । पुंसिति पूर्वपदे संयोगान्तलोप इति भावः ।
अनौ कर्मणि - पुमनुजेति । इह जनिः सकर्मकः, अनुरोधविशिष्टजननवृत्तित्वात् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.