Page loading... Please wait.
3|1|98 - पोरदुपधात्‌
॥ तस्मै पाणिनये नमः ॥
3|1|98
SK 2844
पोरदुपधात्‌   🔊
सूत्रच्छेदः
पोः (पञ्चम्येकवचनम्) , अदुपधात् (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 कृत्याः  3|1|97 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
पवर्गान्ताद् धातोः अकारोपधात् यत् प्रययो भवति। ण्यतो ऽपवादः। शप् शप्यम्। लभ लभ्यम्। पोः इति किम्? पाक्यम्। वाक्यम्। अदुपधातिति किम्? कोप्यम्। गोप्यम्। तपरकरणं तत्कालार्थम्। आप्यम्।
`प्राक्यम्। वाक्यम्` इति। `चजोः` 7|3|52 इति कुत्वम्। `कोप्यम्। गोप्यम्` इति। `कुप क्रोधे` (धातुपाठः-1233), `गुप {गोपने इत्येव-धातुपाठः-} गोपनकुत्सनयोः` (धातुपाठः-970), `गुप व्याकुलीकरणे` (धातुपाठः-1234)। आप्यमिति। `आप्लृ व्याप्तौ` (धातुपाठः-1260)॥
पोरदुपधात्॥ पाक्यं वाक्यमिति। ठ्चजोः कु घिण्ण्यतोःऽ इति कुत्वम्। कोप्यं गोप्यमिति। ठ्कुप कोपनेऽ, ठ्गुप व्याकुलत्वेऽ। आप्यमिति। ठाप्लृ व्याप्तोऽ एषु त्रिषु ठ्यतोऽनावःऽ इत्याद्यौदातत्वं न भवति, तित्स्वरित एव तु भवति॥
सिद्धान्तकौमुदी
पवर्गान्ताददुपधाद्यत्स्यात् । ण्यतोऽपवादः । शप्यम् । लभ्यम् । नानुबन्धकृतमसारूप्यम् । अतो न ण्यत् । तव्यदादयस्तु स्युरेव ॥
पोरदुपधात् - पोरदुपधात् । ननु शप्यं लभ्यमित्यत्रऋहलोण्र्य॑दिति कदाचिण्ण्यदपि स्यात्, यण्ण्यतोरसारूप्येण वाऽसरूप इत्यस्य प्रवृत्तेरित्यत आह — - नानुबन्धकृतमसारूप्यमिति । वाऽसरूपसूत्रे भाष्ये स्थिमिदम् । अनुबन्धविनिर्मुक्तस्यैव असारूप्यं विविक्षितमित्यर्थः । प्रकृते च यण्ण्यतोरनुबन्दरहितयोः सारूप्याद्वासरूपविधेरप्रवृत्तेः शप्यमित्यादौ ण्यदपवादो यदेवेति भावः ।
पोरदुपधात् - पोः किम् । पाक्यम् । अदुपधात्किम् । कोप्यम् । तपरकरमं किम् । आप्लृ व्याप्तौ । आप्यम् । नानुबन्धेति । अनुबन्धानामनवयवत्वत्तत्कृतमसारूप्यं नाश्रीयते । एकान्तत्वपक्षेऽपिददातिदधात्योर्विभाषा॑ इति विभाषाग्रहणाल्लिङ्गन्नाश्रीयते । अन्यथा अनुबन्धकृतादसारूप्यादेव शविषये णो भविष्यतीति किं तेन विभाषाग्रहणेन । ततश्च पक्षद्वयेऽपि शप्यमित्यादौ ण्यन्न भवतीति भावः । एतच्च ददातीत्यादिसूत्रे विभाषाग्रहणमनुबन्धानामेकान्तत्वपक्षे शविषये णस्याऽप्राप्तौ विभाषा, एकान्तत्वपक्षे तु प्राप्तविभाषेति पक्षद्वयसाधारणं विभाषाग्रहणं लिङ्गं मनोरमायामेकान्तत्वपक्ष एवोपन्यस्तमिति तदनुसारेणेहाप्युक्तम् । अनेकान्तत्वपक्षे त्वसाधारणं लिङ्गम्उदीचां माङः॑ इति सूत्रे माङो ग्रहणम् । मेङ इत्यत्र हि सत्यपि ङकारानुबन्धे तस्यानवयवत्वदेजन्तत्वमविहतमितिआदेच उपदेशे॑ इत्यात्वस्वीकारादिति दिक् । ण्यदेवेति । तेनतित्स्वरित॑मिति स्वरिते सति आलम्भ्य इत्यत्र समासान्तोदात्तत्वं बाधित्वा कृदुत्तरपदप्रकृतिस्वरेण स्वरितान्तत्वमिष्टं सिध्यति, यति तुयतोऽनावः॑ इत्याद्युदात्तत्वेनोत्तरपदाद्युदात्तत्वं प्रसज्येत, तच्चाऽनिष्टमिति भावः ।
लघुसिद्धान्तकौमुदी
पवर्गान्ताददुपधाद्यत्स्यात्। ण्यतोऽपवादः। शप्यम्। लभ्यम्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.