Page loading... Please wait.
3|1|96 - तव्यत्तव्यानीयरः
॥ तस्मै पाणिनये नमः ॥
3|1|96
SK 2834
तव्यत्तव्यानीयरः   🔊
सूत्रच्छेदः
तव्यत्-तव्य-अनीयरः (प्रथमाबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
धातोः 3|1|91 इति वर्तते। धातोः तव्यत्, तव्य, अनीयरित्येते प्रयया भवन्ति। तकाररेफौ स्वरार्थौ। कर्तव्यम्। कर्तव्यम्। कर्णीयम्। वसेस्तव्यत् कर्तरि णिच्च। वास्तव्यः। केलिमर उपसङ्ख्यानम्। पचेलिमाः माषाः। भिदेलिमानि काष्ठानि। कर्मकर्तरि च अयम् इष्यते।
`तकाररेफौ स्वरार्थौ` इति। तकारः `तित्स्वरितम्` 6|1|179 इति स्वरितार्थः। रेफः `उपोत्तमं रिति` 6|1|211 इतिमध्योदात्तार्थः।`वसेस्तव्यत् कत्र्तरि णिच्च` इति।`वस निवासे` (धातुपाठः-1005) इत्यस्मात् कत्र्तरि तव्यप्रत्ययो भवति, स च णिद्भवतीति। न चैतद्वक्तव्यम्; `कृत्यल्युटो बहुलम्` 3|3|113 इति सिद्धत्वात्। वसतीति वास्तव्यः। णित्त्वाद्द्वृद्धिः।`केलिमर उपसंख्यानम`इति। उपसंख्यानशब्दसय् प्रतिपादनमर्थः। प्रतिपादनं तु प्रागेव कृतम्। पुनरपि क्रियते-- `कृत्यल्युटो बहुलम्` 3|3|113 इतिबहुलवचनात् केलिमप्र्रत्ययोऽपि कृत्यो भविष्यति। ककारः कित्कार्यार्थः, रेफः स्वरार्थः। स्वयमेव पच्यन्ते `पचेलिमा माषाः`। शब्दशक्तिस्वाभाव्यादत ए बहुवचनाच्च कर्मकत्र्तर्येव भवति नान्यत्र॥
तव्यतव्यानीयरः॥ वसेरिति। ठ्वस निवासेऽ इत्यस्य ग्रहणम्, न तु ठ्वस आच्छादनेऽ इत्यस्य लुग्विकरणस्य। ठ्तयोरेव कृत्यक्तखलर्थाःऽ इति वचनात्कर्तरि न प्राप्नोतीति वचनम्, णिद्वद्भावार्थं च। वास्तव्य इति। तद्वितान्तो वा पुनरेषभविष्यति, वास्तुनि भावो वास्तव्यः, दिगादित्वाद्यत्। अवास्तव्य इत्यत्र स्वरभेदो नास्ति, ठ्कृत्योकेष्णुच्ऽ इति यदन्तोदातत्वं तदेव ठ्ययतोश्चातदर्थेऽ इत्यनेन भविष्यति। केलिमर इति। ककारो गुणवृद्धिप्रतिषेधार्थः, रेफस्स्वरार्थः। कर्मकर्तरि चायमिष्यत इति। भाष्ये तु ठ्पचेलिमा माषाः, पक्तव्याः; भिदेलिमास्सरलाः, भेतव्याःऽ इति शुद्धे कर्मणि प्रदर्शितम्॥
सिद्धान्तकौमुदी
धातोरेते प्रत्ययाः स्युः । तकाररेफौ स्वरार्थौ । एधितव्यम् । एधनीयं त्वया । भावे औत्सर्गिकमेकवचनं क्लीबत्वं च । चेतव्यश्चयनीयो वा धर्मस्त्वया ॥ ।वसेस्तव्यत्कर्तरिणिच्च (वार्तिकम्) ॥ वसतीति वास्तव्यः ॥ ।केलिमर उपसंख्यानम् (वार्तिकम्) ॥ पचेलिमा माषाः । पक्तव्याः । भिदेलिमाः सरलाः भेत्तव्याः । कर्मणि प्रत्ययः ॥ वृत्तिकारस्तु कर्मकर्तरि चायमिष्यत इत्याह तद्भाष्यविरुद्धम् ॥
तव्यत्तव्यानीयरः - तव्यत्तव्यानीयरः । तव्यत् तव्य अनीयर् एषां द्वन्द्वः । प्रत्ययाः स्युरिति । ते कृत्संज्ञकाः, कृत्यसंज्ञकाश्च इत्यपि ज्ञेयम् । स्वरार्थाविति ।तित्स्वरित॑मिति, "उपोत्तमं रिति" इति च स्वरविशेषार्थावित्यर्थः । निरनुबन्धकस्य तु तव्यस्य प्रत्ययस्वरेण आद्युदात्तत्वमेवेति बोध्यम् । भावे उदाहरति — एधितव्यमिति । त्वत्कर्तृका एधनक्रियेत्यर्थः । ननुलः कर्मणि चे॑त्यत्र असत्त्वभूतस्यैव भावस्य ग्रहणम्, तिङ्वाच्यभावनाया असत्त्वरूपताया उक्तत्वात् । ततश्च तस्य भावस्य असत्त्वरूपस्याऽत्रतयोरेव कृत्ये॑ति तच्छब्देन परामर्शात्तव्यदादीनामसत्त्ववाचितया लिङ्गसङ्ख्यान्वयोऽनुपपन्न इत्यत आह — भावे औत्सर्गिकमेकवचनमिति ।एकवचनम्,द्विबहुषु द्विबहुवचने॑ इति सूत्रपाठमभ्युपगम्य द्वित्वबहुत्वाऽभावे एकवचनमिति भाष्यसिद्धान्तादिति भावः । क्लीबत्वं चेति ।एकश्रुतिः स्वरसर्वनाम, लिङ्गसर्वनाम नपुंसक॑मिति "दाण्डिनायने" ति सूत्रस्थभाष्यादिति भावः । कर्मण्युदाहरति — चेतव्य इति ।वसेस्तव्यत्कर्तरि णिच्चेति वार्तिकम् । वास्तव्य इति । वस्तेत्यर्थः । णित्त्वादुपधावृद्धिः । केलिमर इति । धातोरित्येव । भावकर्णोरेवेदम् । केलिमरि ककाररेफावितौ । भिदेलिमा इति । कित्त्वान्नोपधागुणः । सरलाः = वृक्षविशेषाः । तद्भाष्येति । भाष्ये भिदेलिमा इत्युदाह्मत्य "भेत्तव्या" इत्येव विवरणादिति भावः ।
तव्यत्तव्यानीयरः - स्वरार्थाविति । तकारःतित्स्वरित॑मिति स्वरितत्वार्थः । रेफस्तुउपोत्तमं रिती॑ति मध्योदात्तार्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
तव्यत्तव्यानीयरः (713) (439 प्रत्ययविधिसूत्रम्।। 3 । 1 । 6 आ.3) (1939 प्रत्ययविधिवार्तिकम्।। 1 ।।) - केलिमर उपसंख्यानम्- (भाष्यम्) केलिमर उपसंख्यानं कर्तव्यम्। पचेलिमा माषाः पक्तव्याः। भिदेलिमाः सरलाः भेत्तव्याः। (1939 प्रत्ययविधिवार्तिकम्।। 2 ।।) - वसेस्तव्यत् कर्तरि णिच्च- (भाष्यम्) तद्धितो वा पुनरेष भविष्यति। वास्तुनि भवो वास्तव्यः।। तव्यत्तव्या।। 96 ।। (अथ यत्प्रत्ययप्रकरणम्)