॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|95
SK 2831
3|1|95
कृत्याः प्राङ् ण्वुलः   🔊
SK 2831
सूत्रच्छेद:
कृत्याः - प्रथमाबहुवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
ण्वुल्तृचौ 3|1|133 इति वक्ष्यति। प्रागेतस्माण् ण्वुल्संशब्दनाद् यानित ऊर्ध्वम् अनुक्रमिष्यामः, कृत्यसञ्जकस्ते वेदितव्याः। तत्र एव उदाहरिस्यामः। कृत्यप्रदेशः कृत्यैरधिकाऽर्थवचने 2|1|33, कृत्यानां कर्तरि वा 2|3|71 इत्येवम् आदयः।
`कृत्याः` इति बहुवचनेन निर्देशो बहुत्वात् संज्ञिनाम्। अथ वा-- अनुक्तकृत्प्रत्ययसंग्रहार्थं बहुवचनम्। तेन `केलिमर उपसंख्यानम्` (वा।121) इत्येतत् कत्र्तव्यं न भवति। `ण्वुल्तृचाविति वक्ष्यति` इति। अथ रोगाख्यायां ण्वुल् बहुलम्` 3|3|108 इत्यस्य ण्वुलोऽवधित्वं कस्मान्न विज्ञायते? ज्ञापकात्। यदयम् `अर्हे कृत्यतृचश्च` 3|3|169 इति कृत्यग्रहणं कृत्वा तृज्ग्रहणं करोति, ततो ज्ञायते-- नास्यावधित्वमिति; अन्यथा तृचोऽपि कृत्यत्वाद्भदेनोपादानमनर्थकं स्यात्। यद्येवम्; प्राग्वचनमनर्थकं स्यात्, अत एव ज्ञापकात् तृच इयं संज्ञा न भविष्यति? नैतदस्ति; असति ह्रेतस्मिन्, ज्ञापकात् तृच एव न स्यात्। ण्वुलस्तु स्यादेव। स्यादेतत्-- योगापेक्षं ज्ञापकम्, एतस्मिन् योगे कृत्यसंज्ञा भवति-- एषोऽर्थस्तृज्ग्रहणेन ज्ञाप्यते, तेन ण्वुलोऽपि न भविष्यतीति? एवमन्येषामजादीनां स्यात्, प्रतिपत्तिगौरवञ्च स्यात्, योगापेक्षस्य ज्ञापकस्य दुर्विज्ञानत्वात्॥
कृत्याः प्राङ् ण्वुलः॥ ण्वुलतृचाविति वक्ष्यतीति। ठ्रोगाख्यायां ण्वुल् बहुलम्ऽ मित्ययं त्ववधिर्न भवति; ठर्हे कृत्यतृचश्चऽ इति पृथक् तृचो ग्रहणात्। यद्येवम्, ठ्प्राङ् ण्वुलःऽ इति न वक्तव्यम्, ठ्कृत्याःऽ इत्येवास्तु, तृज्ग्रहणादेव ज्ञापकात्परतोऽनुवृत्तिर्न भविष्यति, योगापेक्षं च ज्ञापकम् ठ्ण्वुल्तृचौऽ इत्यस्माद्योगात्प्राक् कृत्यसञ्ज्ञाधिकार इति? सत्यम्; ठ्कृत्याःऽ इत्येतावदेव पठितं सूत्रकारेण। वृत्तिकारस्तु, भाष्ये पूर्वपक्षरूपेण पठितं सूत्रे प्रचिक्षेप। विचित्रा हि वृतेः कृतिर्वृत्तिकारेण! ठ्कृत्याःऽ इति बहुवचनमनुक्तसमुच्चयार्थम्, तेन ठ्केलिमर उपसङ्ख्यानम्ऽ इत्यादि नोपसंख्येयं भवति॥
सिद्धान्तकौमुदी
अधिकारोऽयं ण्वुलः प्राक् ॥
कृत्याः (प्राङ् ण्वुलः) - कृत्याः । कृत्यसंज्ञका इत्यर्थः । ततश्चप्रैषातिसर्गप्राप्तकालेषु कृत्याश्च॑,॒अर्हे कृत्यतृचश्च॑,शकि लिङ् चे॑त्यादिषु प्रवर्तते । ण्वुलः प्रागिति । "ण्वुल्तृचौ" इत्यतः प्रागित्यर्थः । एतच्च भाष्ये स्पष्टम् ।
कृत्याः (प्राङ् ण्वुलः) - कृत्याः । अत्रप्रत्ययः॑ इत्यादिवत्कृत्य इत्यधिकारेणापीष्टसिद्देर्बहुवचनमनुक्तप्रत्ययसमुच्चायार्थं, तेन केलिमरादयो ज्ञापकसिद्धा इति नोपसह्ख्येया इत्याहुः । ण्वुलः प्रागिति ।ण्वुलतृचौ॑ इत्यतः प्रागित्यर्थः ।रोगाख्यायां ण्वुल् बहुल॑मिति नावधिः, प्रत्यासत्तिन्यायात् । अवदिविशेषे ज्ञापकं तुअर्हे कृत्यतृचश्चे॑त्यत्र कृत्यात्पृथक्तृचो ग्रहणमेव । न चैवं तृचोऽकृत्यत्वेऽपि ण्वुलः कृत्यत्वं दुर्वारं स्यात्, इष्टापत्तौ तुतयोरेवे॑ति भावकर्मणोरेव ण्वुल् प्रग्ण्वुल इतिप्रचिक्षेप ।
लघुसिद्धान्तकौमुदी
ण्वुल्तृचावित्यतः प्राक् कृत्यसंज्ञाः स्युः॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!