॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|94
SK 2830
3|1|94
वाऽसरूपोऽस्त्रियाम्   🔊
SK 2830
सूत्रच्छेद:
वा - अव्ययम् , असरूपः - प्रथमैकवचनम् , अस्त्रियाम् - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अस्मिन् धात्वधिकारे ऽस्मानरूपः प्रत्ययो ऽपवादो वा बाधको भवति स्त्र्यधिकारविहितप्रत्ययं वर्जयित्वा। ण्वुल्तृचौ 3|1|133 उत्सर्गौ, इगुपधज्ञाप्रीकिरः कः 3|1|135 इत्यपवादः, तद्विषये ण्वुल्तृचौ 3|1|133 अपि भवतः। विक्षेपकः, विक्षेप्ता, विक्षिपः। असरूप इति किम्? कर्मण्यण् 3|2|1 इत्युत्सर्गः, आतो ऽनुपसर्गे कः 3|2|3 इत्यपवादः, सनित्यं बाधको भवति। गोदः। कम्बलदः। न अमुबन्धकृतम् असारूप्यम्। अस्त्रियाम् इति किम्? स्त्रियां कितन् 3|3|94 इत्युत्सर्गः, अ प्रत्ययात् 3|3|102 इत्यपवदः, स बाधक एव भवति। चिकीर्षा जिहीर्षा।
अपवादविषयमुत्सर्गो नाबिनिविशत इत्येष उत्सर्गधर्मः, कृताञ्च केषाञ्चिदुत्सर्गाणामपवादविषये प्रवृत्तिरिष्यते, सा च वचनमन्तरेण न सिद्ध्यतीति तदर्थमिदम्। ननु चारभ्यमाणेऽप्येतस्मिन् नैवायमर्थः सम्पद्यते, तथा हि-- अस्योत्सर्गेण वा सम्बन्धः स्यात्, अपवादेन वा, उभाभ्यां वा? तत्र यदि पूर्वकल्प आश्रीयेत तदा वाशब्देन विकल्पार्थेनोपस्थापितयोर्भावाभावयोरस्यायमर्थः स्यात्-- उत्सर्गोऽसरूपोऽस्त्रियां पक्षे भवतीति, पक्षे न भवतीति। तथा चापवादस्य स्वस्मिन् विषये नित्याप्राप्तिः स्यात्। न ह्रनेनापवादस्य किञ्चित्कृतम्; तेन सहास्यासम्बन्धात्। न च बाधकेऽपवादेऽविकल्पां प्रवृत्तिमनुभवति सति तत्रोत्सर्गः प्रवर्तितुमुत्सहत इति स्वविषय एव विकल्पः प्रवर्तेत। अथ द्वितीयः, तदायमर्थः स्यात्-- असरूपोऽपवादोऽस्त्रियां विकल्पेन भवतीति। एवमपि नैवोत्सर्गस्यापवादविषये प्रवृत्तिर्लभ्यते। उत्सर्गोऽपवादोऽस्त्रियां विकल्पेन भवतीति। एवमपि नैवोत्सर्गस्यापवादविषये प्रवृत्तिर्लभ्यते। उत्सर्गोऽपवादविषयं परिहति, तदापवादस्य बाधकत्वात्। तच्च बाधकत्वमस्मिन्नपि पक्षे तदवस्थमेव, न ह्रनेन तदपनीतम्, किं तर्हि? स्वस्मिन् विषये तस्य भावाभावौ प्रतिपादितौ-- पक्षे भवति,पक्षे न भवति। न चान्यद्वचनमस्ति; यतोऽपवादविषयमुत्सर्गोऽव्यास्ते। अपवादस्याभावपक्षे प्रापकवचनमन्तरेणापि उत्सर्गो भविष्यति। प्रतिबन्धाभावादिति चेत्? सत्यमेतत् कार्यबाधायाम्; शास्त्रबाधायान्तु यत् कार्यस्य विधायकं तदपवादेन बाध्यमानं तद्विषपरीहारेणैव प्रवर्तेत, तस्मिन् प्रवृत्ते पश्चापदवादे विकल्पेन प्रवृत्तिमनुबव्तयपि तद्विषय उत्सर्गप्रवृत्तिर्न सम्भवति, सामान्यशास्त्र्सयातद्विषयत्वात्।अस्तु कार्यवधापक्ष इति चेत्? न; अयुक्तत्वात्। न ह्रबाधिते विधायके शास्त्रे तत्कार्यबाधा युज्यते। निदानोच्छेदेन हि निदानिन उच्छेदः शक्यते कर्त्तुम्, नान्यथा। न हि प्रदीपेऽनुच्छिन्ने तत्प्रभोच्छिद्यते। तस्मादपवादः शास्त्रमेव बाधते,तस्मिश्च बाधिते सत्यपवादाभावपक्षेऽपि नैवोत्सर्गस्यापवादविषये प्रवृत्तिः स्यात्। अथ तृतीयः पक्षः, तदायमर्थः स्यात्-- उत्सर्गोऽसरूपोऽस्त्रियां वा भवति, अपवादोऽपीति। एवमपि तयोः स्वस्मिन् विषये विकल्पेन प्रवृत्तिः स्यात्, न तूत्सर्गस्यापवादविषये; पूर्वोक्तादेव हेतोः। तस्मात् क्रियमाणेऽप्येतस्मिन् नैवाभिमतोऽर्थः सम्पद्यत इति देशयेत्, तं प्रत्याह-- `असरूपोऽपवादप्रत्ययो वा बाधको भवति` इति। एतेनापवादस्यानेन सम्बन्धः, न तु भावाभावौ विकल्प्येते, किं तर्हि? पक्षे बाधकत्वमिति दर्शयति। एवञ्च यस्मिन् पक्षेऽपवादो बाधको न भवति, तस्मिन् विषये प्रतिबन्धाभावादुत्सर्गः प्रवत्र्तत इति सिध्यति समावेशः। `स्त्र्यधिकारविहितं प्रत्ययं वर्जत्वा` इति।कथं पुनः `अस्त्रियाम्` इति वचनादेषोऽर्थो लभ्यते? एवं मन्यते-- `स्त्रीग्रहणमिह स्वर्यते, स्वरितेन चाधिकारावगतिर्भवति; तेन स्त्रयधिकारविहितमाश्रित्य यावुत्सर्गापवादौ विहितौ तद्वि,ये प्रतिषेधो विज्ञायते` इति। अथैवं कस्मान्न विज्ञायते-- स्त्रियामभिधेयायामसरूपोऽपवादो बाधको वा न भवतीति? एवमशक्यं विज्ञातुम्; एवं हि विज्ञायमाने लव्या लवितव्येति यद्विषये तव्यो न स्यात्। एवं तर्हि कस्मान्न विज्ञायते-- स्तिरयामित्येवं स्त्रीशब्दसंशब्दनेन यः प्रत्ययो विहितः स इह स्त्रीशब्देनोक्तः, तत्र स्त्रियामित्येवं विहितेऽसरूपोऽपवादो बाधको वा न भवतीति? एवमशक्शं विज्ञातुम्; एवं हि विज्ञायमाने व्यावक्रोशी, व्यावक्रुष्टिरिति णचो विषये क्तिनः प्रवृत्तिर्न स्यात्,; यस्मात् `कर्मव्यतीहारे णच् स्त्रियाम्` 3|3|43 इति णज्विहितः, स्त्रियां क्तिन्नपि; तस्मात् पूर्वोक्त एवार्थः। यद्येवम्, `क्तल्युट्तुमुन्खलर्थेषु` (पु।प।वृ।76) इति परिभाषा न प्राप्नोतिच तेषामस्त्र्यधिकारविहितत्वात्? `नपुंसके भावे क्तः` 3|3|114 , `ल्युट् च` 3|3|115 -- हसितम्, हसनम्, तयोर्विषये `भावे` 3|3|18 इति घञपि प्राप्नोति। `समानकर्त्तृकेषु तुमुन्` 3|3|158 -- इच्छति भोक्तुम्,तस्य विषये `इच्छार्थेषु लिङलोटौ` 3|3|157 अपि प्राप्नुतः? `आतो युच्` 3|3|128 --ईषत्पानम्, तस्य विषये `ईषव्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्` 3|3|126 इति खलपि प्राप्नोति? वावचनस्य व्यवस्थितविभाषात्वान्न भवतीत्यदोषः। `ण्वुल्तृचावित्युत्सर्गा` इति। सामान्यविहितत्वात्। `इगुपधापीकिरः कः इत्यपवादः` इति। विशेषविहित्वात्। `कर्मण्यण्` 3|2|1 इत्युत्सर्गः, `आतश्चोपसर्गे` 3|1|136 इति कप्रत्ययोऽपवादः। ननु चानुबन्धकृतेनासारूप्येण सोऽप्यसरूप इत्याह-- `नानुबन्धकृतम्` इत्यादि। अत्र `ददातिदधात्योर्विभाषा` 3|1|139 इति विभाषाग्रहणं ज्ञापकम्। यदि ह्रनुबन्धकृतमसारूप्यं स्याद्विभाषाग्रहणमनर्थकं स्यात्। अनुबन्धकृतादसारूप्यादेव हि `श्याऽ‌ऽद्व्यध` 3|1|141 इत्यादिसूत्रेण पक्षे णो भविष्यति॥
वाऽसरूपोऽस्त्रियाम्॥ ठसरूपःऽ इति पदच्छेदः, अन्यथा लाधवे विशेषाभावलादसन्देहर्थ ठ्सरूपोऽस्त्रियां वाऽ इति ब्रूयात्। अपवादविषयेऽपि केषाञ्चित्कृतां प्रवृत्तिर्यथा स्यादित्येवमर्थमिदं वचनम्। यथोक्तम्-----असरूपस्य वावचनमुत्सर्गस्य बाधकविषये निवृत्यर्थमिति। परिभाषा चेयम्, अस्मिन्धात्वधिकारे स्त्र्यधिकारव्यतिरेकेण यान्यसरूपस्यापवादस्य विधायकानि शास्त्राणि तच्छेषभूता, तत्र तत्र वचने क्रियमाणे गौरवं स्यादिति साधारणरूपेण परिभाष्यते। तत्र च ठसरूपःऽ इति व्यर्थ कृण्मात्रस्य विकल्पने सर्वस्यैवासरूपत्वाद्यत्किञ्चित्कृदपेक्षया; असरूपपदं चैतत्सापेक्षं प्रतियोगिनि यतोऽत्र भिन्नरूपत्वमसरूपत्वमित्यते। केनचिद्धि किञ्चित्सरूपमसरूपं वा भवति, तत्र केनासरूप इत्यपेक्षायां स्वविधानवेलायां यः स्वस्मिन्विषये प्राप्तः स एव बुद्धिस्थः प्रतियोगी गम्यते, अपवादविधानसमये चोत्सर्गः, तमपि विषयमवागाऋढुअमुढौकमान उपारूढो बुद्धौ भवतीति तदपेक्षया भिन्नरूपोऽपवाद एवात्रासरूपो विवक्षित इत्याह---असरूपोऽपवादप्रत्यय इति। एवं स्थिते यद्ययमुत्पत्तिविकल्पस्स्याद्, अपवादप्रत्ययो वा भवतीति, ततः स्वविषये कामं विकल्पस्तस्य लभ्यते, न तूत्सर्गः प्रवर्तेत। तत्रातद्विषयो ह्यसौ, उत्सर्गापवादशास्त्रयोर्हि प्रमितिव्यापारे पर्यवसिते पश्चादियमत्रैव प्रदेशेस्थिताऽपवादस्य पक्षे प्रवॄति प्रतिबध्नाति। अपवादशास्त्रेण यः स्वीकृतो विषयस्तद्व्यतिरिक्तविषया सामान्यशास्त्रस्य प्रमितिरित्यपवादस्याप्रवृतावपि नैवोत्सर्गस्य तस्मिन्विषये प्रमितिः प्रवृत्तिर्वोपपद्यते, तद्धितवत्; तद्यथा----दक्षस्यापत्यम् अत इञि विकल्पिते पक्षेऽण् न भवति, अपि तु वाक्यमेव भवति, तत्कस्य हेतोः? ठ्समर्थानां प्रथमाद्वाऽ इति तटस्थेन पक्षे प्रवृत्तिर्निरुद्ध्यते, न पुनरेकवाक्यतया प्राप्तिरेव विकल्परूषितेति, तथेहापीति। अपवादाभावपक्षे प्रकृतिरेव कर्त्राद्यभिधानायानुज्ञाता स्याद्, यथाग्निचिदित्यादौ क्विबादिलोपे, तदाह---तत्रोत्पतिर्वा प्रसङ्गो यथा तद्धित इति। तमिममुत्पत्तिविकल्पपक्षे दोषं द्दष्ट्वा बाधकत्वं विकल्प्यत इत्याह---वाबाधको भवतीति। उक्तं च ठ्सिद्धं त्वसरूपबाधकस्य वावचनात्ऽ इति, असरूपो वा बाधको भवतीति वक्तव्यमित्यर्थः। ननु तत्रतत्रोच्यते---यत्रान्यत्क्रियापदं न श्रूयते तत्रास्तिर्भवतिपर इति, ततश्चासरूपो वेत्युक्ते भवतीत्येवाध्याहारो युक्तः, न पुनर्वा बाधक इति? उच्यते---उत्पत्तिविकल्पस्य प्रयोजनं केवलायाः प्रकृतेः प्रयोगः, केवला च प्रकृतिः स्वार्थमात्रमभिधातुमसमर्था, किं पुनः कर्त्रादिकमभिधास्यति! प्रकृतिप्रत्ययसमुदाये हि प्रयुज्यमानेऽन्वयव्यतिरेकाभ्यामयं प्रकृत्यर्थः, अयं प्रत्ययार्थ इति व्यवस्थाप्यते; अनुत्पन्नप्रत्यया तु प्रकृतिर्न कञ्चिदप्यर्थ गमयति। प्रयोगोऽपि हि तस्या दुर्लभः; परश्चेति नियमात्। तद्धिते त्वनुत्पत्तिपक्षेऽप्युत्सर्गप्रवृत्तिव्यतिरेकेण प्रत्ययान्तरमस्ति षष्ठी, इह तु न तथेति सामर्थ्याद्वहिरङ्गमपि बाधकत्वमपि कल्प्यते। ननु चच शास्त्रं शास्त्रेण बाद्ध्यते, न पुनः कार्य कार्येण, निदानोच्छेदेनैव हि निदानिन उच्छेदः शक्यते कर्तुम्, न हि प्रदीपेऽनुच्छिन्ने तत्प्रकाश उच्छिद्यते, तत्किमुच्यते---अपवादप्रत्यय इति, एवं तु वक्तव्यम्----अपवादशास्त्रमिति? उच्यते----सर्वस्यैवापवादशास्त्रस्य स्वगतमसारूप्यमव्यभिचारीति प्रत्ययद्वारकं तदाश्रयणीयमित्यपवादप्रत्यय इत्युक्तम्। एवम्भूतस्य प्रत्ययस्य विधायकं शास्त्रमित्यर्थः। यद्वा----प्रत्ययस्य बाधकत्वविकल्पसामार्थ्याच्छास्त्रमपि पक्षे बाधकं भविष्यति। अथ वा वृतौ वस्तुमात्रं दर्शितम्; यथा त्वयमर्थ उपपद्यते तथा सूत्रं व्याख्येयम्। तत्रेदं व्याख्यानम्---परिभाषेयमित्युक्तम्, तत्रेक्परिभाषावदियमपि पदमुपस्थापयति----अस्मिन्धात्वधिकारे यत्रासरूपोऽपवादप्रत्ययो विधीयते तत्र वेत्युपतिष्ठते, स्त्र्यधिकारे तु नेति। किं कृतं भवति? ठ्ददातिदधात्योर्विभाषाऽ इत्यादिवत् प्रमितिरेव विकल्परूषिता भवति, ततस्तद्वदेवोत्सर्गस्य प्रवृत्तिसिद्विरिति। अथ ठसरूप उत्सर्गप्रत्ययोऽपवादविषये वा भवतिऽ इति विज्ञायमाने को दोषः? न खलु कश्चिद्दोषः; अपवादविकल्पे प्राप्ते विभाषा, उत्सर्गविकल्पे त्वप्राप्तविभाषेति, किन्तु प्रतियोग्यपेक्षमसरूपपदमप्यपवादमेव गोचरयतीत्युक्तम्। ठस्त्रियाम्ऽ इत्यत्र पक्षत्रयं सम्भवति---अभिधेयसप्तमी वा स्यात्---स्त्रियामभिधेयायां वासरूपो न भवतीति, स्त्रियामित्येव वा विहितस्यासरूपस्य निषेधः स्यात्---स्त्रियामित्युच्चार्य ये विधीयन्ते ते नेति, स्त्रीग्रहणं वा स्वर्यते स्वरितेनाधिकारावगतिर्भवतीति---स्त्रियां क्तनिन्नित्यस्मिन्नधिकारे नेति। तत्राद्ये पक्षे विक्षिपा, विक्षोपिका, विक्षेप्तेति कविषये ण्वुल्तृचौ न स्याताम्। द्वितीये तु ठ्कर्मव्यतिहारे णच् स्त्रियाम्ऽ व्यावक्रोशी, व्यावक्रुष्टिरिति णयो विषये क्तिन् न स्यात्, द्वयोरपि स्त्रियामित्युच्चार्य विधानादिति, ममाद्ययोः पक्षयोर्दोषं द्दष्ट्वा तृतीयं पक्षमाश्रित्याह----स्त्र्यधिकारविहितप्रत्ययं वर्जयित्वेति। केचिदाहुः----अपवादप्रत्ययं वर्जियित्वेति वक्तव्ये प्रत्ययं वर्जयित्वेति वचनं प्रत्ययमात्रपरिग्रहार्थम्, तेनोत्सर्गापवादयोर्द्वयोरपि स्त्र्यधिकारनिवेशिनोरयं प्रतिपेधः। किं सिद्धं भवति? आसना, आस्या-----स्त्र्यधिकारविहितेनापि युचापवादेन ऋहलोर्ण्यतः समा वेशः सिद्धो भवति। घञस्तु क्तिन्नादिभिरनभिधानादसमावेश इति। अन्ये तु----अपवादो वा बाधको भवतीति प्रकृतत्वात्स एवात्र प्रत्यय इति व्याचक्षते, तेन घञः क्तिन्नादिभिरसमावेशः। आस्येत्यत्र कृत्यल्युटो बहुलमिति ण्यदिति। ण्वुल्तृचावुत्सर्गाविति। चावुत्सर्गाविति। धातुमात्रे विधानात्। इगुपघज्ञाप्रीकिरः क इत्यपवाद इति। धातुविशेषे विधानात्। किं पुनः प्रयोगगतमसारूप्यम्? आहोश्विदुपदेशगतम्? किं चातः? प्रयोगे लादेशेषु प्रतिषेधः----ह्यएऽपचदित्यत्र लुङपि प्राप्नोति, प्रयोगे ह्यसरूपत्वात्, लङ्यनच्कस्तकारः प्रत्ययः लुङ् इपाक्षीदितीच्छब्दः; श्वः कर्तेत्यत्र लृडपि प्राप्नोति? ज्ञापकात्सिद्धम्, यदयम् ठ्हशश्वतोर्लङ् चऽ इति लिड्विषये लण्ंó शास्ति, तज् ज्ञापयति----न लादेशेषु वासरूपविधिरिति। एवमपि ग्रामणीः, ग्रामनाय इति क्विबादिविषयेऽणादयो न स्युः, न हि क्विबादयः प्रयोगे रूपवन्तः, लोपविधानातेषाम्। तस्मादुपदेशगतमसारूप्यम्। यद्येवम्, अनुबन्धभिन्नेषु विभाषाप्रसङ्गः, काणोरपि ह्युपदेशे भिन्नं रूपम्, प्रयोगे तु समानम्, तत्राह---नानुबन्धकृतमिति। अनुबन्धानामनेकान्तत्वातत्कृतमसारूप्यं नाश्रीयते, तथा च ठुदीयां माङ्ःऽ इति श्रूयमाणेऽपि ङ्कारे तस्यानेकान्तत्वादव्याहतमेजन्तत्वमित्यात्वं प्रयुक्तम्। ठ्ददातिदधात्योर्विभाषाऽ इति विभाषाग्रहणं च लिङ्गमस्यार्थस्य; अन्यथाऽनुबन्धकृतादसारूप्यादेव शविषये णो भविष्यतीति किं तेन! इह क्तल्युट्तुमुन्खलर्थेषु वासरूपवधिः प्राप्नोति। हसितं छात्रस्य शोभनं हसनं छात्रस्य, अत्र क्तल्युडविषये घञपि प्राप्नोति। तुमुन----इच्छति भोक्तुम्, अत्र ठिच्छार्थेषु लिङ्लोटौऽ इति लोट् प्राप्नोति, तुमुना च बाध इष्यते, लिङ् तु ठ्लिङ् चऽ इति वचनाद्भवात्येव। यद्येवम्, अस्मादेव नियमाल्लोडपि न भविष्यति। कलर्थ----आतो युच्ऽ ईषत्पानः, अत्र खलपि प्राप्नोति। ननु स्त्र्यधिकारे तावदस्त्रियामिति प्रतिषेधादस्याप्रवृत्तिः परस्तादपि विच्छिन्नत्वादेव न भविष्यति? स्यादेतदेवम्, यद्ययमधिकारः स्यात्, परिभाषा त्वेषेत्युक्तम्। इष्यते च स्त्र्यधिकारादूर्ध्वमपि वासरूपविधिः-----आसित्वा भुङ्क्ते,आस्यते भोक्तुमित्यपि यथा स्याद्; अन्यथा भोजनार्थत्वादासनस्य पौर्वकाल्यमवगम्यते तुमर्थाधिकाराद्भावे क्त्वाप्रत्ययस्तत्रैव च लकार इति समानविषयत्वाद्वाध्यबाधकभावः स्यात्। तथा कालो भोक्तुम्, कालो भोजनस्य---मुमुना ल्युटो बाधः स्यात्। तस्मात् स्त्र्यधिकारस्य परस्तादपि वासरूपविधिरेषितव्यः, ठर्हे कृत्यतृचश्चऽ इत्यत्र कृत्यतृज्ग्रहणं ज्ञापकम्---स्त्र्यधिकारस्य परस्तादनित्यैषा परिभाषेति। तस्मात् क्तल्युट्तुमुन्खलर्थेषु प्रतिषेधो।वक्तव्य एव॥
सिद्धान्तकौमुदी
परिभाषेयम् । अस्मिन्धात्वधिकारेऽसरूपोऽपवादप्रत्यय उत्सर्गस्यबाधको वा स्यात् स्त्र्यधिकारोक्तं विना ॥
वाऽसरूपोऽस्त्रियाम् - वाऽसरूपोऽरिउआयाम् ।असरूप॑इति छेदः । परिभाषेयमिति । अधिकारत्वे स्वरितत्वकल्पनागौरवादिति भावः । असरूप इति लिङ्गनिर्देशः । यत्र असरूपप्रत्ययो विधास्यते तत्र वेत्युपतिष्ठते ।वे॑त्यतः प्राक् "बाधक" इति शेषः । असरूपो वा बाधको भवतीति यावत् । कस्य बाधको वेतयाकाङ्क्षायामुत्सर्गस्येत्यर्थाल्लभ्यते । फलितमाह — अस्मिन् धात्वधिकारे इत्यादिना । स्त्रीशब्दः स्वर्यते । तदाह — स्त्र्यधिकारोक्तं विनेति ।स्त्रियां क्तिन् इति वक्ष्यमाणस्त्र्यधिकारस्थमपवादं विनेत्यर्थः । स्त्र्यधिकारस्थस्तु असरूपः प्रत्यय उत्सर्गस्य नित्यमेव बाधक इतिभावः । "ण्वुल्तृचौ" इत्युपसर्गः ।इगुपधज्ञाप्रीकिरः कः॑ इत्यपवादः । तद्विषये ण्वुल्तृचवावपि भवतः । विक्षिपः । विक्षेपकः । विक्षेप्ता । असरूप इति किम् । "कर्मण्यण्" इत्युत्सर्गः । "आतोऽनुपसर्गे कः" इत्यपवादः । स तु सरूपत्वान्नित्यं बाधक एव । गोदः । कम्बलदः ।नानुबन्धकृतमसारूप्य॑मिति वचनादनुबन्धो न सारूप्यप्रतिबन्धकः । अस्त्रियां किम् । "स्त्रियां क्तिन्" इत्युत्सर्गः ।अ प्रत्यया॑दिति प्रत्ययान्तद्विहितोऽकारप्रत्ययः, तस्याऽपवादो बाधक एव भवति । चिकीर्षा । व्यावक्रोशी व्याक्रुष्टिरित्यत्र तुकर्म व्यतिहारे णच् स्त्रिया॑मिति णच् क्तिनो बाधको वा भवत्येव ।अस्त्रिया॑मिति निषेधस्तु नास्ति,तस्यणचः स्त्रिया॑मित्यधिकारोक्तत्वाऽभावात् ।
वाऽसरूपोऽस्त्रियाम् - वासरूपो [ऽस्त्रियाम्] । अपवादेन नित्यं बाधे प्राप्ते क्वचिदुपसर्गस्यापि प्रवृत्त्यर्थमिदं सूत्रम् । अतएवअचो यत् ,ऋहलोण्र्यत् इत्याद्यपवादविषयेतव्यदादयोऽपि प्रयुज्यन्ते — भव्यम्, भवितव्यम् । कार्यं, कर्तव्यं,करणीयम् । वाच्यम्, वक्तव्यमित्यादि । परिभाषेति । अधिकारसूत्रमिति । स्वीकृते तु स्त्र्यधिकारेण विच्छेदाद्वासरूपसूत्राऽप्रवृत्त्याआसित्वा भुङ्क्ते॑आस्यते भोक्तु॑मित्यादिरूपाणि न सिध्यन्ति । इह हि भोजनार्थत्वादासनस्य पूर्वकालता गम्यते, क्त्वाप्रत्ययश्च तुमर्थाधिकाराद्भावे भवति, लकारोऽपि तत्रैवेति समानविषयत्वादुभयोर्बाध्यबाधकभावः स्यात् । किंच वर्णात्कार इत्युत्सर्गः, सचरादिफः॑ इत्यनेन बाध्येत । न चेष्टापत्तिः ।रकारादीनि नामानि शृण्वतो मम पार्वति॑ इत्यादिप्रयोगविरोधात् । अमुमेवार्थं मनसि निधाय हरदत्तादिभिः परिभाषेयमित्युक्तम् । एतेनशकि लिह् चे॑ति ज्ञापकाद्वासरूपविधेरनित्यत्वेन स्त्र्यधिकारादुत्तरेषु क्तल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्तीति सिद्धान्तः सङ्गच्छत इति दिक् ।वासरूपे॑ त्यत्राऽसरूप इति च्छेदः । अन्यथा लाघवेविशेषाऽभावेनाऽसंदेहायसरूपो वे॑ति ब्राऊयादित्याशयेनाह — असरूपैति । असरूप इति किम् ।कर्मण्यण् इत्युसर्गः ।आतोऽनुपसर्गे कः॑ इत्यपवादः । स तूत्सर्गस्य नित्यं बाधको यथा स्यात् । गोदः । कम्बलदः । न च कृतेऽप्यसरूपग्रहणे अण्कयोरप्यसरूपत्वान्नेष्टसिद्धिरिति वाच्यं,नाऽनुबन्धकृतमसारूप्य॑मिति सिद्धान्तात् ।अस्त्रिया॑मित्यत्र स्त्रीशब्दः स्वर्यते । स्वरितेन चाधिकारावगतिरित्याशयेनाह — स्त्र्यदिकारोक्तं विनेति । तेनस्त्रियां क्तिन् इत्युत्सर्गम् अप्रत्यया॑ दित्यपवादो नित्यं बाधते । चिकीर्षा । जिहीर्षा । नन्वस्त्रियामित्यत्र स्त्रीशब्दस्य स्वरितत्वं प्रतिज्ञाय स्वरितेनाऽधिकारावगतिरित्यादिव्याख्यां विहाय स्त्रियामभिधेयायां वासरूपविधिर्नेति, स्त्रियामित्येवं शब्दमुच्चार्य विहिते वासरूपविधिर्नेति वा व्याख्यायतामितिचेत् । अत्राहुः — स्त्रियां वाच्याया॑मिति पक्षे लव्या लवितव्येति यतो विषये तव्यो न स्यात्, द्वयोरपि इह स्त्रीवाचकत्वात् ।स्त्रिया॑मिति शब्दोच्चारणपक्षे तु व्यावक्रोशी व्यावक्रुष्टिरिति कर्मव्यतिहारे णचो विषये क्तिन् स्यात् । द्वयोरपि स्त्रियामित्युच्चार्य विधानात् । ततश्चस्त्र्यधिकारोक्तं विने॑ति व्याख्यैव ज्यासीति दिक् ।
लघुसिद्धान्तकौमुदी
अस्मिन्धात्वधिकारेऽसरूपोऽपवादप्रत्यय उत्सर्गस्य बाधको वा स्यात् स्त्र्यधिकारोक्तं विना॥
महाभाष्यम्
वाऽसरूपोऽस्त्रियाम् (711) (437 सूत्रम्।। 3 । 1 । 6 आ. 1 ) (आक्षेपभाष्यम्) कथमिदं विज्ञायते ‐ - स्त्रियामभिधेयायां वाऽसरूपो न भवतीति। आहोस्वित् स्त्रीप्रत्ययेष्वि ति?।। किं चातः?। (अभिधेयपरत्वदूषणभाष्यम्) यदि विज्ञायते ‐ - -स्त्रियामभिधेयायाम् इति ‐ - लव्या लवितव्या अत्र वाऽसरूपो न प्राप्नोति।। (स्त्रीप्रत्ययपरत्वदूषणभाष्यम्) अथ विज्ञायते ‐ - स्त्रीप्रत्ययेषु इति, व्यावक्रोशी व्यावक्रुष्टिरिति न सिध्यति।। (सिद्धान्तभाष्यम्) एवं तर्हि नैवं विज्ञायते ‐ - स्त्रियामभिधेयायाम्, नापि स्त्रीप्रत्ययेष्विति। कथं तर्हि? स्त्रीग्रहणं स्वरयिष्यते।। तत्र स्वरितेनाधिकारगतिर्भवतीति स्त्रियाम् इत्यधिकृत्य ये प्रत्यया विहितास्तेषां प्रतिषेधो विज्ञास्यते।। (सूत्रप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) किमर्थं पुनरिदमुच्यते?।। (1925 समाधानवार्तिकम्।। 1 ।।) - असरूपस्य वावचनमुत्सर्गस्य बाधकविषयेऽनिवृत्त्यर्थम्- (भाष्यम्) असरूपस्य वावचनं क्रियते। उत्सर्गस्य बाधकविषयेऽनिवृत्तिर्यथा स्यात्। तव्यत्तव्यानीयर उत्सर्गाः तेषामजन्ताद्यदपवादः ‐ - -चेयम् चेतव्यमित्यपि यथा स्यात्।। (प्रयोजननिरासभाष्यम्) नैतदस्ति प्रयोजनम्। अजन्ताद्यद्विधीयते। हलन्तात् ण्यद्विधीयते। एतावन्तश्च धातवो यदुताजन्ता हलन्ताश्च। उच्यन्ते च तव्यदादयस्ते वचनाद्भविष्यन्ति।। (प्रयोजनभाष्यम्) एवं तर्हि ण्वुल्तृचावुत्सर्गौ, पचादिभ्योऽजपवादः ‐ - पचतीति पचः। पक्ता पाचक इत्यपि यथा स्यात्।। (प्रयोजननिरासभाष्यम्) एतदपि नास्ति प्रयोजनम्। वक्ष्यत्येतत् ‐ - -अजपि सर्वधातुभ्यो वक्तव्य इति।। (प्रयोजनभाष्यम्) एवं तर्हि ण्वुल्तृजच उत्सर्गाः। तेषामिगुपधात्कोपवादः ‐ - विक्षिपः विलिखः । विक्षेप्ता विक्षेपक इत्यपि यथा स्यात्।। अस्ति प्रयोजनमेतत्। किं तर्हीति। (1926 आक्षेपवार्तिकम्।। 2 ।।) - तत्रोत्पत्तिवाप्रसङ्गो यथा तद्धिते- (भाष्यम्) तत्रोत्पत्तिर्विभाषा प्राप्नोति यथा तद्धिते।। (आक्षेपबाधकभाष्यम्) अस्तु, यदा विक्षिपो विलिख इत्येतन्न, तदा विक्षेप्ता विक्षेपक इत्येतद्भविष्यति।। (आक्षेपसाधकभाष्यम्) यद्येतल्लभ्येत कृतं स्यात्। तत्तु न लभ्यम्। किं कारणम्?। यथा तद्धित इत्युच्यते।। तद्धितेषु च सर्वमेवोत्सर्गापवादं विभाषा, उत्पद्यते वा न वा।। (1927 समाधानवार्तिकम्।। 3 ।।) - सिद्धं त्वसरूपस्य बाधकस्य वावचनात्- (भाष्यम्) सिद्धमेतत्। कथम्?। असरूपस्य बाधकस्य वावचनात् असरूपो वा बाधको भवतीति इति वक्तव्यम्।। (आक्षेपभाष्यम्) सिध्यति। सूत्रं तर्हि भिद्यते।। (समाधानभाष्यम्) यथान्यासमेवास्तु।। (दूषणस्मारणभाष्यम्) ननु चोक्तम् ‐ - - तत्रोत्पत्तिवाप्रसङ्गो यथा तद्धिते इति।। (दूषणपरिहारभाष्यम्) नैष दोषः। अस्ति कारणं येन तद्धितेषु विभाषोत्पत्तिर्भवति। किं कारणम्?। प्रकृतिस्तत्र प्रकृत्यर्थे वर्तते, अन्येन च शब्देन प्रत्ययार्थोभिधीयते। इह पुनर्न केवला प्रकृतिः प्रकृत्यर्थे वर्तते। नचान्यः शब्दोस्ति यस्तमर्थमभिदधीतेति कृत्वा तेनानुत्पत्तिर्न भविष्यति।। अथ वा समयः ‐ - कृतः ‐ - न केवला प्रकृतिः प्रयोक्तव्या न च केवलः प्रत्ययः इति। एतस्मात्समयादनुत्पत्तिर्न भविष्यति।। (आक्षेपभाष्यम्) ननु च य एव तस्य समयस्य कर्ता स एवेदमप्याह। यद्यसौ तत्र प्रमाणम्, इहापि प्रमाणं भवितुमर्हति।। (समाधानभाष्यम्) प्रमाणमसौ तत्र चेह च। सार्मथ्यं त्विह द्रष्टव्यं शब्दानां प्रयोगे। न चानुत्पत्तौ सार्मथ्यमस्ति। ततोनुत्पत्तिर्न भविष्यति।। (आक्षेपभाष्यम्) कथं तर्हि तद्धितेष्वनुत्पत्तौ सार्मथ्यं भवति?।। (समाधानभाष्यम्) अन्येन प्रत्ययेन सार्मथ्यम्। केन?। षष्ठ्या।। अथ वा रूपवत्तामाश्रित्य वाविधिरुच्यते। न चानुत्पत्ती रूपवती। तेनानुत्पत्तिर्न भविष्यति।। (आक्षेपभाष्यम्) एवमपि कुत एतत् ‐ - अपवादो विभाषा भविष्यति, न पुनरुत्सर्ग इति।। (समाधानभाष्यम्) न चैवास्ति विशेषो यदपवादो विभाषा स्याद्, उत्सर्गो वा।। अपि च सापेक्षोयं निर्देशः क्रियते वाऽसरूप इति। न चोत्सर्गवेलायां किंचिदपेक्ष्यमस्ति। अपवादवेलायां पुनरुत्सर्गोपेक्ष्यते। तेन यो रूपवानन्यपूर्वो बाधकः प्राप्नोति, स वा बाधको भविष्यति।। कः पुनरसौ?। अपवादः।। (आक्षेपभाष्यम्) यदि यो रूपवानन्यपूर्वो बाधकः प्रप्नोति स वा बाधको भवतीत्युच्यते। क्विबादिषु समावेशो न प्राप्नोति ‐ - ग्रामणीः ग्रामनाय इति। न ह्येते रूपवन्तः।। (समाधानभाष्यम्) एतेपि रूपवन्तः। कस्यामवस्थायाम्?। उपदेशावस्थायाम्।। (वार्तिकशेषभाष्यम्) यद्येवम्। (1928 आक्षेपवार्तिकम्।। 4 ।।) - अनुबन्धविभिन्नेषु विभाषाप्रसङ्गः- (भाष्यम्) अनुबन्धविभिन्नेषु विभाषा प्राप्नोति ‐ - -कर्मण्यण् आतोनुपसर्गे क इति कविषयेऽणपि प्राप्नोति। (1929 समाधानवार्तिकम्।। 5 ।।) - सिद्धमनुबन्धस्यानेकान्तत्वात्- (भाष्यम्) सिद्धमेतत्। कथम्?। अनुबन्धस्यानेकान्तत्वात्। अनेकान्ता अनुबन्धाः।। (समाधानान्तरभाष्यम्) अथ वा प्रयोगेऽसरूपाणां वाविधिर्न्याय्यः।। (1930 दूषणवार्तिकम्।। 4 ।।) - प्रयोगे लादेशेषु प्रतिषेधः- (भाष्यम्) प्रयोगे चेल्लादेशेषु प्रतिषेधो वक्तव्यः। ह्योऽपचत् इत्यत्र लुङपि प्राप्नोति। श्वः पक्तेत्यत्र लृडपि प्राप्नोति।। (दूषणपरिहारभाष्यम्) नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयति ‐ - न लादेशेषु वासरूपो भवति इति। यदयं हशश्वतोर्लङ् च इत्याह।। (समाधानान्तरभाष्यम्) अथ वा प्रयोगेऽसरूपाणां वाविधौ न सर्वमिष्टं संगृहीतमिति कृत्वा द्वितीयः प्रयोग उपास्यते।। कोसौ?। उपदेशो नाम।। उपदेशे चैतेऽसरूपाः।। (दूषणस्मारणभाष्यम्) ननु चोक्तम् ‐ - - अनुबन्धविभिन्नेषु विभाषाप्रसङ्ग इति।। (दूषणपरिहारस्मारणभाष्यम्) परिहृतमेतत् ‐ - - सिद्धमनुबन्धस्यानेकान्तत्वाद् इति।। (दूषणभाष्यम्) अथैकान्तेषु दोष एव।। (दूषणपरिहारभाष्यम्) एकान्तेषु च न दोषः। आचार्यप्रवृत्तिर्ज्ञापयति ‐ - नानुबन्धकृतमसारूप्यं भवति इति। यदयं ददातिदधात्योर्विभाषां शास्ति।। (परिहारान्तरभाष्यम्) अथवाऽसरूपो वा बाधको भवतीत्युच्यते। अपवादश्च नाम अनुबन्धभिन्नो वा भवति रूपान्यत्वेन वा। तेनानेनावश्यं किंचित्त्याज्यं किंचिच्च संगृहीतव्यम्। तद्यदनुबन्धकृतमसारूप्यम्, तन्नाश्रयिष्यामः, यत्तु रूपान्यत्वेनासारूप्यम्, तदाश्रयिष्यामः।। (परिहारान्तरभाष्यम्) अथवा ‐ - असरूपो वा बाधको भवती त्युच्यते। सर्वश्चासरूपः तत्र प्रकर्षगतिर्विज्ञास्यते ‐ - साधीयो योसरूपः इति।। कश्च साधीयान्?। यः प्रयोगे, प्राक् च प्रयोगात्।। (परिहारान्तरभाष्यम्) अथवा ‐ - असरूपो वा बाधको भवतीत्युच्यते। न चैवं सति कश्चिदपि सरूपः। त एवं विज्ञास्यामः ‐ - क्वचिद्येऽसरूपाः इति। अनुबन्धभिन्नाश्च प्रयोगे सरूपाः।। (आक्षेपभाष्यम्) अथ कथमिदं विज्ञायते अस्त्रियामिति ‐ - किं स्त्रियां न भवति इति, आहोस्वित् प्राक् स्त्रिया भवति इति। कश्चात्र विशेषः?। (1939 दूषणवार्तिकम्।। 5 ।।) - स्त्रियां प्रतिषेधे क्तल्युट्तुमुन्खलर्थेषु विभाषाप्रसङ्गः- (भाष्यम्) स्त्रियां प्रतिषेधे क्तल्युट्तुमुन्खलर्थेषु विभाषा प्राप्नोति।। क्त ‐ - -हसितं छात्रस्य शोभनम्। घञ्ञपि प्राप्नोति।। ल्युट् ‐ - -हसनं छात्रस्य शोभनम्। घञ्ञपि प्राप्नोति।। तुमुन् ‐ - इच्छति भोक्तुम्। लिङ्लोटावपि प्राप्नुतः।। खलर्थः ‐ - -इर्षत्पानः सोमो भवता। खलपि प्राप्नोति।। (स्त्रियाः प्राग् इति पक्षाङ्गीकारभाष्यम्) एवं तर्हि स्त्रियाः प्रागिति वक्ष्यामि। (1932 दूषणवार्तिकम्।।6 ।।) - स्त्रियाः प्रागिति चेत् क्त्वायां वावचनम्- (भाष्यम्) स्त्रियाः प्रागिति चेत्क्त्वायां वावचनं कर्तव्यम्। आसित्वा भुङ्क्ते। आस्यते भोक्तुमित्यपि यथा स्यात्। (1933 दूषणवार्तिकम्।। 7 ।।) - कालादिषु तुमुन्विधाने वावचनम्- (भाष्यम्) कालादिषु तुमुन्विधाने वावचनं कर्तव्यम्। कालो भोजनस्येत्यपि यथा स्यात्।। (1934 वार्तिकम्।. 8 ।।) - अर्हे तृज्विधानम्- (भाष्यम्) अर्हे तृज् विधेयः। इमे अर्हे कृत्या विधीयन्ते ते विशेषविहिताः सामान्यविहितं तृचं बाधेरन्।। (दूषणोद्धारभाष्यम्) नैष दोषः । भावकर्मणोः कृत्या विधीयन्ते कर्तरितृच्। कः प्रसङ्गो यद्भावकर्मणोः कृत्याः कर्तरि तृचं बाधेरन्। (1935 वार्तिकन्यासान्तरम्।। 9 ।।) - अर्हे कृत्यतृज्विधानम्- (भाष्यम्) अर्हे कृत्यतृचो विधेयाः।। अयमर्हे लिङ् विधीयते। स विशेषविहितः सामान्यविहितान् कृत्यतृचो वा बाधेत।। वासरूपोस्त्रियाम्।। 94 ।। (अथ कृत्प्रकरणे कृत्यप्रकरणम्)