॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|87
SK 2766
3|1|87
कर्मवत्‌ कर्मणा तुल्यक्रियः   🔊
SK 2766
सूत्रच्छेद:
कर्मवत् - प्रथमैकवचनम् , कर्मणा - तृतीयैकवचनम् , तुल्यक्रियः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|22]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
कर्मणि क्रिया कर्म, कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवद् भवति। यस्मिन् कर्मणि कर्तृभूते ऽपि तद्वत् क्रिया लक्ष्यते यथा कर्मणि, स कर्ता कर्मवद् भवति। कर्माश्रयाणि कार्याणि प्रतिपद्यते। कर्तरि शप् 3|1|68 इति कर्तृग्रहणम् इह अनुवृत्तं प्रथमया विपरिणम्यते। यगात्मनेपदचिण्चिण्वद्भावाः प्रयोजनम्। भिद्यते काष्ठं स्वयम् एव। अभेदि काष्ठं स्वयम् एव। कारिष्यते कटः स्वयम् एव। वत्करणं स्वाश्रयम् अपि यथा स्यात्, भिद्यते कुसूलेन इति। अकर्मकाणां भावे लः सिद्धो भवति। लिङ्याशिष्यङ् 3|1|86 इति द्विलकारको निर्देशः। तत्र लानुवृत्तेर् लान्तस्य कर्ता कर्मवद् भवति इति कुसूलाद् द्वितीया न भवति। कर्मणा इति किम्? करणाधिकरणाभ्यां तुल्यक्रियस्य मा भूत्। साध्वसिश्छिनत्ति। साधु स्थाली पचति। धात्वधिकारात् समाने धातौ कर्मवद्भावः। इह न भवति, पचत्योदनं देवदत्तः, राध्यन्त्योदनं स्वयम् एव इति। कर्मस्थभावकानां कर्मस्थक्रियाणां च कर्ता कर्मवद्भवति, न कर्तृस्थाभावकानां न वा कर्तृस्थक्रियाणाम्। कर्मस्थः पचतेर् भावः कर्मस्था च भिदेः क्रिया। मासासिभावः कर्तृस्थः कर्तृस्था च गमेः क्रिया।
`कर्मवत्` इति। `तेन तुल्यं क्रिया चेद्वतिः` 5|1|114 इति; न तु `तत्र तस्येव` 5|1|115 इति; तुल्यक्रिय इति प्रथमानिर्देशात्। अन्यथा तुल्यक्रिये, तुल्यक्रियस्यति सप्तम्या षष्ठआ वा निर्देशं कुर्यात्। तुल्याक्रियाऽस्येति तुल्यक्रियः। केन तुल्यक्रियः? कर्मणा। सापेक्षत्वेऽपि गमकत्वात् समासः। तुल्यशब्दोऽयं सदृशवचनः। न च साधनस्य कर्मणः क्रियया सादृश्यमुपपद्यते; अत्यन्तभेदात्। तथा हि-- कर्म द्रव्यं परिनिष्पन्नम्। त्दविपरीतस्वभावा क्रिया। तस्मात् कर्मणेति कर्मशब्दोऽयं गौणस्तात्स्थ्यादुपचारेण कर्मस्थायां क्रियायां वत्र्तते, यथा-- मञ्चाः क्रोशन्तीति, अत्र मञ्चशब्दः पुरुषेषु। उपचारस्तु कर्मस्थबावकानां कर्मस्थक्रियाञ्च कर्मवद्भावो यथा स्यात्, कर्तृस्थभावकानां कर्तृस्थक्रियाणां च मा भूदित्येवमर्थः। एतत्सर्वं चेतसि कृत्वाह-- `कर्मणि क्रिया कर्म` इति। एतेन कर्मशब्दोऽयं कर्स्थक्रियावाचीत्याचष्टे। कर्मस्थक्रियावाचिनि च कर्मशब्दे यः सूत्रार्थः सम्पद्यते तं दर्शयितुमाह-- `कर्मस्थया` इत्यादि। एवं स्थिते सूत्रार्थे तुल्यशब्दोऽयं साधारणवचन इति मन्यमानो यो देशयेत्-- `यदि कर्मस्थया क्रियया तुल्यक्र#इयः साधारणक्रियः कत्र्ता कर्मवद्भवति तदा पचत्योदनं देवदत्त इत्यत्रापि स्यात्; यस्मादिहापि यासौ प्रधानक्रिया तामुद्दिश्य सर्वाणि कारकद्रव्याणि प्रवत्र्तन्ते, तयाकर्मस्थया प्रवत्र्तन्ते, तयाकर्मस्थया साधारणक्रियः कत्र्ता भवति, यथैव ह्रसावन्येषां कारकाणां सम्बन्धिनी तथा कर्त्तुरपि` इति, तं प्रत्याह-- `यस्मिन् कर्मणि` इत्यादि। तद्वद्यथाशब्दौ सादृश्यार्थौ प्रयुञ्जानः `सदृशवचनोऽयं तुल्यशब्द-,न साधारणवचनः` इत्याचष्टे। यस्मिन् कर्मणि कर्त्तृभूतेऽपि कत्र्रवस्थां प्रतपन्नेऽपि तादृशी क्रिया लक्ष्यते यादृशी कर्मावस्थायां स कर्ता कर्मवद्भवति। सादृश्यञ्च कञ्चिद्भेदाधिष्टानमित्यसाधारण एवाधिश्रयणादिलक्षणः कर्त्तृव्यापारो गृह्रते, न तु साधारणो विक्लेदादिलक्षणः। स चासाधारणः पचच्योदनं देवदत्त इत्यत्र कारकान्तरव्यापारविसदृशो देवदत्तस्य कर्त्तुव्र्यापार इति न भवति कर्मवद्भावः। अथ वा-- कर्मस्थया क्रियया तुल्यक्रियः कत्र्ता कर्मवद्भवतीत्युक्ते सदृशवचनस्तुल्यशब्द इति मन्यमानो यो देशयेत्-- `यद्येवम्, भिद्यमानः कुसूलः पात्राणि भिनत्तीत्यत्रापि प्राप्नोति, तथा हि यादृशी पात्रेष्ववयवविभागात्मिका क्रिया तादृश्येव कुसूले कत्र्तरि लक्ष्यते` इत्यस्मिन् पूर्वपक्ष इदमाह-- `यस्मिन् कर्मणि` इत्यादि। स इत्यनेन यस्मिन्नित्यनेन योऽर्थो निर्दिष्टः स एव प्रत्यवमृश्यते। एतेनैकद्रव्याधारयैव कर्मस्थयाक्रियया तुल्यक्रियः कत्र्ता कर्मवद्भवतीति दर्शयन् पूर्वपक्षं प्रतिक्षिपति। एवच्च प्रत्यासत्तेन्र्यायाल्लभ्यते। एकद्रव्यसमवायिनो हि क्रिया प्रत्यासन्ना, द्रव्यान्तरसमवेता तु विप्रकृष्टा।ननु च शक्तिः कारकमिति दर्शनम्, न च कर्मशक्तिः कदापि कर्त्तृभावमापद्यते, तदयुक्तमुक्तम्-- यस्मिन् कर्मणि कर्त्तृभूतेऽपीति? शक्तिशक्तिमतोर्भेदस्याविवक्षायां शक्त्याधारं द्रव्यमेवैतदुक्तमित्यदोषः। इदं तह्र्रयुक्तमुक्तम्-- `तद्वत् क्रिया लक्ष्यते यथा कर्मणि` इति। यस्माद्य एव कर्मावस्थायां व्यापारः स एव कत्र्रवस्थायामपीति सादृश्यं नोपपद्यते, तस्य भेदाधिष्ठाने सति सत्त्वात्? नैष दोषः; अवस्थाभेदेन क्रियाबेदाद्यद्यप्यवस्थावद्द्रव्यमभिन्नम्, तथाप्यवस्थाभेदोऽस्ति-- अन्यैव हि कत्र्रवस्था,अन्या च कर्मावस्था। अवस्थाभेदेन क्रियाभेद इति तदधिष्ठानं सादृश्यं भवति।इहातिदेशो निमित्त-- व्यपदेश--शास्त्र-- कार्यभेदादनेकविधः। तत्रेह निमित्तातिदेशो न भवति, न हि कर्मणो यन्निमित्तं कर्त्तुरोप्सिततमत्वं तत् कत्र्तर्यतिदेष्टुं शक्यते; वस्त्वन्तरधर्माणां वस्त्वन्तरेण विरुद्धधर्मिणा सम्बन्धाभावात्। व्यपदेशातिदेशस्तु संज्ञापक्षान्न भिद्यते। संज्ञापक्षे तु वक्ष्यमाणो दोषः, वतिग्रहणञ्चानर्थकं स्यात्। शास्त्रातिदेशपक्षे तु शास्त्रमतिदिश्यते, तस्मिन्नतिदिष्टे तैरेव शास्त्रैर्यगादयः प्राप्यन्ते; ततश्च यद्ययं शास्त्रातिदेशः स्यात् कर्मकर्तरि परत्वाच्छबादयो बाधकाः स्युः, तत्र प्रतिविधेयं स्यात्। कार्यातिदेशे त्वनेनैव यगादयो विधीयन्ते। तेन येन कत्र्राश्रयाः कर्मकत्र्तरि शबादयः प्राप्नुवन्ति ते परत्वाद्यगादिभिर्बाध्यन्त इति न किञ्चित्प्रतिविधातव्यम्। प्रधानं तु कार्यातिदेशः; तदर्थत्वनादतिदेशशास्त्राणाम्। अतः कार्यातिदेशतामस्य दर्शयन्नाह-- `कर्माश्रयाणि` इत्यादि। ननु च `तुल्यक्रियः` इति प्रथमानिर्देशात् तदन्तस्य कर्तुरतिदेशो विज्ञायते, न च सूत्रे कर्त्तृग्रहणमस्ति। यद्यपि च प्रकृतं तदपि सप्तम्यन्तम्, प्रथमानिर्दिष्टेन चेहार्थः तत्कथं प्रथमान्तकर्त्तृग्रहणमन्तरेण शक्यतेऽतिदेशः कर्त्तुमित्याह-- `कत्र्तरि` इत्यादि।किं पुनरस्यातिदेशस्य प्रयोजनमित्याह-- `यगात्मनेपद` इत्यादि। `भिद्यते` इति यक उदाहरणम्। `अभेरि` इति चिणः। `कारिष्यते` इति चिष्वद्भावस्य। कर्मणि हि `स्यसिच्सीयुट्` 6|4|62 इत्यादिना चिण्वद्भावो विहितः। आत्मनेपदस्य तु सर्वाण्येवैतान्यदाहरणानि।`स्वाश्रयमपि` इत्यादि। यद्विनाप्यतिदेशो न भवति तत् स्वाश्रयम्, तद्यथा स्यादित्येवमर्थं वत्करणम्। असति हि तस्मिन् संज्ञासूत्रमिदं स्यात्, ततश्च कर्मणा तुल्यक्रियः कत्र्ता कर्मसंज्ञकः स्यात्। एवञ्च सति सकर्मकत्वात् `लः कर्मणि च भावे चाकर्मकेभ्यः` 3|4|69 इति भावे लकारो न स्यात्। वत्करणे तु सत्यतिदेशो भवति। तेन चाप्राप्तमेव कर्त्तुः कर्म कार्यं भवति, न स्वाश्रयं कर्त्तृत्वम्। अकर्मकस्वभावत्वमपनीयते, तत्र तस्या व्यापारात्। एतेनाकर्मकाणां भावे लः सिद्धो भवति-- भिद्यते कुसूनेति। अथ भिद्यते कुसूलः स्वयमेवेत्यत्र कुसूलशब्दाद्द्वितीया कस्मान्न भवति, एतदपि कर्म कार्यं भवत्यत आह-- `लिङ्याशिष्यङिति` इत्यादि। द्वौ लकारौ यस्मिन् स द्विलकारो निर्देशः। यदि द्विलकारको निर्देशस्तदा किमित्याह-- `तत्र` इत्यादि। कार्यं प्रतीत्यध्याहार्यम्। द्विलकारनिर्देशे सति `लिङ्याशिष्यङ` 3|1|86 इत्यतो लानुवृत्तेलन्तिस्यैव कार्यं प्रति कत्र्ता कर्मवद्भवति, न तु प्रातिपदिकस्य। इतिकरणो हेतौ। यत एवं तस्मात् कुसूलाद्द्वितीया न भवति।`करणाधिकरणाभ्याम्` इति। कर्मणेत्यसत्यस्मिन् करणाधिकरणस्थयापि क्रियया तुल्यक्रियः कत्र्ता कर्मवत् स्यात्, अस्मस्तु सति न भवति। `साध्वसिश्छिनत्ति` इति। कणस्य कर्त्तृत्वविवक्षायां करणस्थयापि क्रियया छेद्यद्रव्यान्तःप्रवेशलक्षणया तुल्यक्रियोऽत्रासिः कत्र्ता। `साधु स्थाली पचति` इति। अत्राधिकरणस्य कर्त्तृत्वविवक्षायामधिकरणस्थया क्रियया सम्भवति धारणात्मिकया तुल्यक्रियः कत्र्ता। अथेह कस्मान्न भवति-- पचत्योदनं देवदत्तः, राध्यत्योदनः स्वयमेवेति; भवति ह्रत्रापि कर्मस्थया क्रियया तुल्यक्रियः कत्र्ता, तथा हि यादृश्योदेने कर्मभूते क्रिया विक्लेदनलक्षणा लक्ष्यते तादृश्येव कर्त्तृभूतेऽपि, पचतिराध्यत्योरेकार्थत्वादित्याह--- `धात्वधिकारात्` इत्यादि। समानशब्दोऽयमेकपर्यायः, यथा-- देवदत्तयज्ञदत्तयोः समाना मातेति। एका मातेति गम्यते। `धातोरेकाचः` 3|1|22 इत्यतो धातुग्रहणमनुवत्र्तते। कर्मादिशब्दाश्च सम्बन्धिशब्दाः,ये च सम्बन्धिशब्दास्ते प्रकृत्यैव नियतरूपं सम्बन्धिनमुपस्थापयन्ति। तथा हि-- मातरि भक्त्या प्रवर्तितव्यामित्युक्तेऽन्तरेणापि स्वस्यामिति वचनं स्वस्यां मातरीति गम्यते। तेन यं धातुमपेक्ष्य तस्य कर्मणः कर्त्तृत्वं तमेव धातुं सन्निधापयति, नान्यम्। ततश्च धातुग्रहणेऽनुवत्र्तमाने सत्ययमर्थो लभ्यते। यस्मिन् धातौ कर्मणोपस्थापिते यत् करम तस्मिन्नेव धातौ स यदि कत्र्ता भवत्येवं सत्ययमतिदेशः, नान्यथा। तेन पचत्योदनं देवदत्तः,राध्यत्योदनः स्वयमेवेत्यत्र न भवति, भिन्नयोर्धात्वोरोदनस्य कर्मकर्त्तृत्वासम्भवात्। अथ वा-- धातोरिति येयमेका संख्या सा विवक्षिता, तेनैकस्मिन्नेव धातौ कर्मवद्भावो भवति।`कर्मस्थभावकानाम्` इत्यादिना न्यायप्राप्तमेवार्थं दर्शयति।तथा हि-- कर्मस्थया क्रियया तुल्यक्रियस्य कर्त्तुः कर्मवद्भावो भवति। न च कर्त्तृस्थभावकानां कर्त्तृस्थक्रियाणां कत्र्ता तथाविधोऽस्ति। यद्यपि क्रियाप्युपादीयते, `लक्षणहेत्वोः क्रियायाः` 3|2|126 इत्यत्र च भावोऽपि परिगृह्रते; तथापीह द्वयोरुपादानसामथ्र्यादर्थभेदो द्रष्टव्यः।सा परिस्पन्दनसाधनसाध्या क्रिया क्रियाशब्देनोच्यते, अपरिस्पन्दनसाध्या तु भावशब्देन। येषां कर्मस्थोभावः कर्मस्था च क्रिया; येषां कर्त्तृस्थो भावः कत्र्तस्था च क्रिया, तेषामुदाहरणं दर्शयितुमाह-- `कर्मस्थः पचतेर्भावः` इति। पच्यते घटः स्वयमेवेत्यत्र यदा तद्देशस्थघटकर्मकपाको निष्पद्यते तदाऽपरिस्पन्दनसाधनसाध्यस्वभावः पाकः कत्र्तस्थो भवति, यदा तु देशान्तरं गच्छतः पाकद्रव्यस्य पाकाभिनिर्वृत्तिर्भवति तदा कर्मस्थैव पचेः क्रिया, यथा -- पच्यत ओदन इत्यत्रोदाहरणे। `कर्मस्था टच भिदेः क्रिया` इति। भिद्यते कुसूलः-- स्वयमेवेति। अवयवविभागलक्षणा हि भिदेः क्रिया,सा च दशान्तरप्राप्तौ सत्यां भवतीति भिद्यते परिस्पन्दः,तेन कर्मस्था क्रिया भवति। `मासासिभावः कत्र्तस्थः` इति। आसेर्धातोर्भाव असिभावः। आसनं हि भावः; तस्याः परिस्पन्दनसाधनसाध्यत्वात्। तथा हि-- व्यापारोपरतावास्त इति प्रयुज्यते। माससहचरित आसिभावः। शाकपार्थिवादित्वात् समासः-- मासासिभावः। कदा स माससहचरित आसिभावो भवति? यदा मासमास्त इति प्रयुज्यते। मासमिति कर्मणि द्वितीया। कर्मसंज्ञा तु `कालभावाध्वगन्तव्याः क्रमसंज्ञा ह्रकर्मणाम्` (वा।1.4.51) इति वचनात्। मासासिभावः कत्र्तस्थो भवति, आसितरि समवायात्। तेनास्यते मासः स्वयमेवेति न भवति। `कर्त्तृस्था च गमेः क्रिया` #इति। गमनं पाद विहरणात्मकम्। तच्च परिस्पन्दनसा नसाध्यत्वाच्च क्रिया, सा च गन्तरि देवदत्तादौ समवेता, न कर्मणि ग्रामादौ। तेन कर्मस्थक्रियाभावाद्गम्यते ग्रामः स्वयमेवेति न भवति॥
कर्मवत् कर्मणा तुल्यक्रियः॥ कर्मणा, तुल्यं वर्तत इति कर्मवत् ठ्तेन तुल्यम्ऽ इत्यादिना वतिः,न तु ठ्तत्र तस्येवऽ इति; तुल्यक्रिय इति प्रतियोगिनि प्रथमानिर्देशात्। अन्यथा तुल्यक्रिये तुल्यक्रियस्येति वा निर्द्देश्यं स्यात्। तथा हि वाक्ये तावद्यतो वतिर्भवति, यश्य प्रतियोगी---उभाभ्यामपि ताभ्यां षष्ठीसप्तम्यौ भवतः,विप्रस्येवास्य शीलम्, मथुरायामिव पाटलिपुत्रे प्राकार इति; उभयोरपि सम्बन्धित्वाद्, आधारत्वाच्च। ततश्चोत्पन्नेऽपि वतौ प्रतियोगिनस्ते एव षष्ठीसप्तम्यावुपतिष्ठेते। तुल्यार्थयोगे तु या तृतीया सोपमानादेव भवति, नोपमेयात्; तुल्यशब्दस्योपमेयनिष्ठत्वात्, तद्यथा---चन्द्रेण तुल्यं मुखमिति ततश्योत्पन्नेऽपि वतावुपमेयात्प्रथमैवावतिष्ठते। कर्मणेति परिभाषिकं कर्म गृह्यते, न लौकिकं क्रिया कर्म; तस्य हि ग्रहणे क्रियया तुल्या क्रिया यस्येति किमुक्तं स्यात् क्रियायाः, यया कयाचन क्रियया तुल्यत्वाद्! अतस्साधनकर्मणो ग्रहणम्। तत्र साध्यसाधनयोरत्यन्तभेदान्मुख्येन कर्माअ क्रियायाः साद्दश्यासम्भवात्कर्मशब्देन तत्स्था क्रिया लक्ष्यते। भवति हि तात्स्थ्याताच्छब्द्यम्, यथा---मञ्चाः क्रोशन्तीति। तदेतदाह---कर्मणि क्रिया कर्मेति। विशेषणस्य वैयर्थ्यं न चेदानीं प्रसज्यते। कर्मणः क्रियया तुल्या न सर्वस्य क्रिया यतः॥ इति ॥ कर्मणः क्रियया तुल्यक्रियः, न साधानान्तरस्येत्येवं प्रतिपत्यर्थत्वादित्याह---कर्मस्थया क्रियया तुल्यक्रिय इति। तुल्यशब्दस्य नित्यसापेक्षत्वात्कर्मस्थया क्रिययेत्येतदपेक्षस्यापि सूत्रवद्वहुव्रीहिर्नानुपपन्नः। तुल्यशब्दोऽयमस्ति साधारणवचनः----एतौ तुल्यधनाविति, साद्दश्यवचनस्तु प्रसिद्ध एव; तत्राद्यस्य ग्रहणे कर्मणेति यदि मुख्यवृत्तिस्तदा कर्तुः कर्मणश्च या साधारणी क्रिया, तत्र यः कर्ता कर्मणा सह साधारणक्रियः सकर्मकेषु यः कर्तेत्युक्तं भवति। तत्र तुल्यक्रिय इत्यनर्थकम्, कर्मणेत्येव वाच्यं स्यात्। कर्मणा सह यः कर्ता प्रतिपाद्यत इत्यर्थः। अथ गौणवृत्तिस्तदायमर्थ----क्रियया हेतुना साधारणक्रियः। कया क्रियया? कर्मस्थया क्रिययेति। एवमपि पचत्योदनं देवदत इत्यत्रापि प्राप्नोति, यासौ कर्मस्था विक्लितिरूपा क्रिया तया साधारणक्रियत्वात्। अतोऽस्मिन्पक्षेऽनिष्ट्रप्रसङ्गः, प्रसिद्धतरश्च सद्दशपर्यायस्तुल्यशब्द इति प्रयुञ्जानः ठ्साद्दश्यवचनस्तुल्यशब्दः, न साधारणवचनःऽ इत्याचष्टे। कर्तृभूत इति। कर्तरि सम्पन्न इत्यर्थः। च्वेर्विकल्पितत्वादत्राभावः। अथ वा--कर्तृशब्दः कर्तृत्वे वर्तते, भूत इति ठ्भू प्राप्तौऽ इत्यस्य ठा धृषाद्वाऽ इति णिजभावे रूपम्, कर्तृत्वं प्राप्त इत्यर्थः। तत्र पचत्योदनमित्यत्र कर्तृकर्मव्यापारह योरतन्यन्तभेदेन साद्दश्याभावात्कर्मवद्भावाभावः। एवमपि भिद्यमानः कुसुलः पात्राणि भिन्नतीत्यत्रापि प्राप्नोति, याद्दशी हि पात्रेषु क्रियाऽवयवविशरणात्मिका ताद्दश्येव कुसूलेऽपि कर्तरि लक्ष्यत इति? नैष दोषः; कर्मस्थया क्रियया तुल्या क्रिया यस्य कर्तुरित्युक्ते कर्तुत्वोपयोगिनी या क्रिया यदावेशादसौ कर्ता भवति सैव क्रिया गम्यते; इह तु पात्रेषु द्दश्यमानं द्विधाभवनं कुसूलेऽपि दैवगत्या द्दष्टमित्येतावन्न पुनस्तत्समावेशादसौ भिनति, स्वयमभिद्यमानोऽपि कुसूल उपरि पतन् पात्राणि भिनत्येव। एवमप्यन्योऽन्यमाश्लिषतः, अन्योऽन्यं स्पृशतः, अन्योऽन्यं गृह्णीतः ----अत्र प्राप्नोति, अत्र हि यत्क्रियावेशात्कर्ता भवति सैव कर्मण्यपि दृश्यते? सत्यं द्दश्यते; न सा कर्मत्वोपयोगिनी, न ह्यसौ तदावेशात्कर्म भवति; स्वयमनाश्लिष्यतोऽपि परेणाश्लिष्यमाणस्य कर्मत्वसम्भवात्। तदेतदुक्तं भवति----कर्मणः कर्मत्वोपयोगिनी या क्रिया तया तुल्या यस्य कर्तृत्वोपयोगिनी क्रिया स कर्मण तुल्यक्रियः। एवञ्च यस्यैव कर्मणः कर्मावस्थायां या क्रिया कर्त्रवस्थायामपि यदि सैव क्रिया भवति स कर्ता कर्मवदित्युक्तं भवति। इदमप्यत्रैवोक्तम्----ठ्यस्मिन् कर्मणि कर्तृभूतेऽपिऽ इति। तस्मिन्नेव कर्मणि कर्त्रवस्थां प्राप्त इति ह्यत्रार्थः। एवञ्च कर्तृकर्मावस्थाभेदादेकस्या अपि क्रियाया भेदाश्रयं साद्दश्यमुपपाद्यम्। अतिदेशो रूपनिमिततादात्म्यव्यपदेशशास्त्रकार्यातिदेशभेदेनानेकविधः, तवादिस्त्रयाणामसम्भवः। व्यपदेशातिदेशस्तु संज्ञापक्षान्न भिद्यते। तत्र वक्तरणमनर्थकम्। अतः शास्त्रातिदेशः, कार्यातिदेश इति द्वावेव पक्षौ। तत्र शास्त्रातिदेशे ठ्भावकर्मणोःऽ इत्यादिषु शास्त्रेष्वतिदिष्टेषु तेन तेन शास्त्रेण ततत्कार्यं प्रवर्तते, ततश्च ठ्भावकर्मणोःऽ इत्यस्यावकाशः---शुद्धं कर्म, पच्यते ओदनः, ठ्शेषात्कर्तरि परस्मैपदम्ऽ इत्यस्यावकाशः---शुद्धः कर्ता, पचति पठति; कर्मकर्तर्युभयप्रसङ्गे परत्वात्परस्मैपदं प्राप्नोति? नैष दोषः; ठ्कर्तरि कर्मव्यतीहाहे इत्यतः कर्तृग्रहणमनुवर्तते, तेन कर्तैव यः कर्ता तत्र परस्मैपदम्, कर्मकर्तरि न भविष्यति। इह तर्हि कर्मणि यग् भवतीत्यस्यावकाशः---शुद्धं कर्म, पच्यते, ओदनः, ठ्कर्तरि शप्ऽ इत्यस्यावकाशः---शुद्धः कर्ता, पचति पठति; कर्मकर्तर्युभयप्रसणेó परत्वाच्छप् प्राप्नोति? नैष दोषः; ठ्कर्तरि शप्ऽ इत्यत्र कर्तृग्रहणन्न कर्तव्यम्, सार्वधातुके शबिति सामान्यस्य भावकर्मणोर्यगपवादो भविष्यति, एवं सिद्धे यत्कर्तृग्रहणं क्रियते तस्यैतत्प्रयोजनम्----कर्तैव यः कर्ता तत्र शबादयो यथा स्युः, कर्मापदिष्टे मा भूवन्निति? सत्यं प्रतिविहितमायुष्मता! वृथा पुनरयम्प्रयासः, कार्यातिदेशाश्रयेणैव सिद्धेः। तत्र ह्यनेनैवात्मनेपदम्, अनेनैव यगिति परत्वाद्यगात्मनेपदे सिद्ध्यतः। प्रधानं च कार्यम्, तदर्थत्वादतिदेशान्तराणाम्। अतः कार्यातिदेश कर्तृग्रहणमस्ति, यदपि प्रकृतम्ठ्कर्तरि शप्ऽ इति, तदपि सप्तम्यन्तम् ठ्तुल्यक्रियऽ इति प्रथमान्तेन सम्बद्धुअं नार्हति, तत्राह---कर्तरि शबित्यत इति। यगात्मनेपदेत्यादि। लान्तस्य कर्ता कर्मवदिति वक्ष्यमाणत्वाद्यगादीनामेव सम्भव इति भावः। मिद्यते इत्यादीनि त्रीण्यात्मनेपदस्योदाहणानि यगादीनां क्रमेण। कथं पुनः काष्ठस्य भिदां प्रति कर्तृत्वम्, यावता भिद्यतेऽसौ देवदतेन? यो ह्युद्यमननिपातनादि कुठारस्य करोति स भेदने कर्ता उच्यते। सर्वेषामेव कारकाणां प्रातिस्विकोऽवान्तरव्यापारोऽस्ति, अकिंचित्करस्य कारकत्वानुपपतेः। एतच्च कारकप्रकरणे एवोपपादितम्। तत्र च स्वव्यापारे स्वतन्त्रत्वं सर्वत्रैवास्ति। कारके कर्तृव्यापारेण तिरस्कृतत्वातु न्यग्भूतं स्वातन्त्र्यमिति कर्तृत्वं न भवति, करणादिसंज्ञैव भवतीत्येतावत्। सकर्मकास्तु केचिद्धातवः कर्मव्यापारमप्यभिधाय तावत्येवापर्यवस्यन्तस्तदुपसर्जनं कर्तृव्यापारमाचक्षते, तद्यथा----भिदिर्द्धिधाभवनोपसर्जनं द्विधाभावनमाह। न खल्वयमुद्यमननिपातनमात्रवचनः; रजकेऽपि प्रसङ्गात्, सोपि हि वस्त्रमुद्यच्छति निपातयति च। अथ च न भिनतीत्युच्यते; द्विधाभवनाभावात्। एतेन च्छिनतिलुनती व्याख्यातौ। तथा पचिरपि विक्लित्युपसर्जनं विक्लेदनमाह। तत्र यदा कर्मणः सौकर्यातिशयप्रतिपादनाय कर्तृव्यापारो न विवक्ष्यते, तदा निवृतप्रेषणं कर्म स्वक्रियावयवस्थितं निवर्तमाने कर्मत्वे स्वे कर्तृत्वेऽवतिष्ठते। धातुरपि तद्व्यापारमात्रे वर्तते। कथं पुनरुभयवचनो धातुः कर्मव्यापारमात्रवचनो भवति? को विरोधः? अनेकार्था धातवः, समुदायेषु च वृताः शब्दा अवयेष्वपि वर्तन्ते, तदेवं कर्मव्यापारमात्रवाचिषु कर्तृत्वमेव काष्ठादीनाम्, न तु कर्मत्वगन्धोऽप्यस्ति; धातवश्चैते प्रयोगेऽस्मिन्नकर्मकाः, यथा---विक्लिद्यति द्विधा भवतीति; कथं तर्हि कर्मणा तुल्यक्रियः कर्ता? न ब्रूमः----अस्मिन् प्रयोगे यत्कर्म तेन तुल्यक्रिय इति, किं तर्हि? प्रयोगान्तरे यत्कर्म तेन तुल्यक्रिय इति। नन्वेवं पचत्योदनं देवदतः, राध्यत्योदनः स्वयमेव---अत्रापि प्राप्नोति? अत्र परिहारं वक्ष्यति---धात्वधिकारादिति। कर्तृकर्मणोर्धातोरन्यत्रासम्भवादेव सिद्धेस्तदनुवृत्तिरेकत्वविक्षार्था----यस्मिन्नेव धातौ यत्कर्म तेन तुल्यक्रियस्तस्यैव धातोः कर्तेति। तेन धातुभेदे न भविष्यति? आह--अध्यारोपोऽयमस्तु, कोऽर्थः? कृत्स्न एव धात्वर्थः कर्मण्यध्यारोप्यते किमत्र देवदतेन ओदन एव पाकं करोतीति। एवं हि सौकर्यातिशयः सुतरां प्रतिपादितो भवति, करणाधिकरणवत्, यथा---साध्वसिश्च्छिनति, साधु स्थाली पचतीति। तत्र येषु तावत्कृत्स्न एव धात्वर्थः कर्मण्यपि सम्भवति---आत्मना बुद्ध्यते, आत्मना मुच्यते, आत्मना हन्यते, आत्मना ताड।ल्ते इति, तेषु शुद्धे कर्मणि लकारः केन चिद्रूपेण कर्तृत्वम्, केनचिद्रूपेण कर्मत्वमिति। तथा भिद्यते कुसूल इति यत्रापि चेतनो भेता न द्दश्यते तत्र वातातपकालाभिवर्षणानामन्यतमस्य कर्तृत्वम्, अध्यारोपो वा। पच्यते ओदनः स्वयमेव, लूयते केदारः स्वयमेवेत्यादावध्यारोप एव, आत्मनैवोवनः पच्यते, न तु देवदतेनेति, कएवं नाम पाकेऽनुकूलो भवतीत्यर्थः। तदेवं शुद्धे कर्मणि लकारोत्पतेर्नार्थ एतेन। यद्येवम्, भिद्यते कुसूलेनेति भावे लो न स्यात्, सकर्मकत्वात्? अथाप्यत्र भिद्यते कुसूलेनात्मेति कर्मणि व्याख्यायेत। एवमपि भेतव्यं कुसूलेन, ईषद्भेदं कुसूलेनेति भावे कृत्यक्तखलर्था न स्युः? न च तत्रापि कर्मणीति शक्यमाश्रयितुं नपुंसकलिङ्गदर्शनात्। तथा नमते दण्डः स्वयमेव, कारयते कटः स्वयमेव, अचीकरत कटः स्वयमेव---यक्चिणोः प्रतिषिद्धयोरपि शप्चङै न स्याताम्, अकर्तृत्वात्। तस्मात्कर्मव्यापारमात्रवाचिभ्यः कर्तरि भावे च लादय इत्येतदेव साधीयः। तथा च श्रृतं पाक इत्यत्र पचेः कर्मव्यापारे कर्तृव्यापारे च श्रृतमिति भवति; द्वयोरपि पाकशब्दाभिधेयत्वात्। एवं हि या विमृष्टा शास्त्रं न करिष्यामिति मतिः, सापि त्याज्या। असति सूत्रे ठ्न दुहस्नुनमां यक्चिणौऽ इति प्रतिषेधस्य विषयो न प्रदर्शितः स्यात्। किञ्च, यद्यपि पच्यते ओदनः स्वयमेवेत्यादिकः प्रयोगः कर्मणि समर्थ्यते, कर्तरि तु लकारोत्पतौ पचत्योदन इत्यादिकः प्रयोगोऽपि प्रसज्येत। तस्मादारब्धव्यं सूत्रम्। अत्रोदाहरणेषु कर्त्रन्तरव्युदासार्थ स्वयमिति प्रयुज्यते, न त्वेतदुदाहरणाङ्गम्। प्रयुक्त एतस्मिन्नात्मनेत्यस्यार्थे वृतेः प्राकृतमेवैतत्कर्म स्यात्---स्वाश्रयमपि यथा स्यादिति। असति वत्करणे कर्तुः कर्मसंज्ञा ज्ञायेत, ततश्चानेन कर्मणा सकर्मकत्वाद् ठ्भावे चाकर्मकेभ्यःऽ इति भावे लो न स्यात्। सति तु तस्मिन्स्वतः प्राप्तस्याकर्मकव्यपदेशस्यानिवर्तनादकर्मकाणां भावे लः सिद्धो भवति, अकर्म काणां भावे यो लो विधीयते स सिद्धो भवतीत्यर्थः। कथं सिद्धो भवति, यावता नित्योऽयमतिदेशः, नित्ये चास्मिंस्तत्र लविधिरपि कर्मकार्यमेवेति स्यादेवातिदेशः? आतिदेशिकाविरुद्धं स्वाश्रयं वतिना प्राप्तते, न तु विरुद्धमपि। न ह्ययं विकल्पार्थः---कदाचित्कर्मवत्, कदाचिन्नेति। अथ लान्तस्य कर्तेति वक्ष्यमाणत्वादेतत्सूत्रप्रवृतेः प्रागेव ठ्लः कर्मणि चऽ इत्येतत्प्रवृत्तिरङ्गीक्रियते, तच्च प्रवर्तमानमकर्मकत्वाद्भावे कर्तरि च प्रवर्तते, यदा कर्तरि तदाऽयमतिदेश इति भावे लविधिः समर्थ्येत। यद्येवम्, मा भूद्वतिः, लकारवाच्यस्य कर्तुः कर्मसञ्ज्ञैवास्तु, यगात्मनेपदयोस्त्वप्रसिद्धिः परत्वाच्छबादीनां परस्मैपदस्य च प्रसङ्गः; न च कर्मसञ्ज्ञया कर्तृसञ्ज्ञाया बाधः, एकसञ्ज्ञाधिकारादन्यत्र सञ्ज्ञानां समावेशात्? सत्यम्; उक्तोऽत्र परिहारः----तदेतद्वत्करणं सर्वसाद्दश्यार्थम्। तेनोदाहरणेषु काष्ठादिभ्यो द्वितीया न भवति; इत्यरथा कर्मकार्यत्वात्प्राप्नोति, अभिहितत्वान्न भविष्यति। भवेदयं परिहारः शास्त्रातिदेशे, कार्यातिदेशे त्वनेनैव कर्मकार्याणि प्राप्यन्ते, न चात्रानभिहिताधिकारोऽस्तीति स्यादेव द्वितीया। वत्करणातु सर्वसाद्दश्यार्थाद्यथा कर्मण्यभिहितेन भवति, एवं कर्तर्यपीति द्वितीयाभावः। यदा तर्ह्यकर्मकत्वाद्भावे लकारस्तदा प्राप्नोति, तत्राह-----लिङ्याशिष्यङ्त्याइदि। तत्र लग्रहणमनुवृत षष्ठ।ल विपरिणम्यते इत्यभिप्रायेणाह---लान्तस्य कर्तेति। लकारवाच्यः कर्तेत्यर्थः। कुसूलाद् द्वितीया न भवतीति। भिद्यते कुसूलेनेत्यनन्तरोदाहृतेषु उदाहरणेषु तु वत्करणादेव सर्वसाद्दश्यार्थाद् द्वितीयाया अभाव इति भावः। तदेवं वृत्तिकारस्याभिप्रेतम्----एतद्वतिः सर्वसाद्दश्यार्थ इति। किञ्च, नावश्यं द्वितीयैव, कृत्यक्तखलर्था अप्यस्मिन्विषये कर्तर्यतिदेशेन प्राप्नुवन्ति----भेतव्यः कुसूलः स्वयमेव, भिन्नः कुसूलः स्वयमेव, ईषद्भेदः कुसूलः स्वयमेवेति; भअव एव चेष्यन्ते---भेतव्यं कुसूलेन कुसूलस्य वा, ठ्कृत्यानां कर्तरि वाऽ,ठ्भिन्नं कुसूलेन, ईषद्भेदं कुसूलेनेति। अत्र वार्तिके क्तग्रहणमन्यत्र सहपाठात्पठितम्, यथा-----ककारो गुणवृद्धिप्रतिषेधार्थ इति। भवत्येव ह्यएभ्योऽकर्मकत्वाद् ठ्गत्यर्थाककर्मकऽ इति कर्तरि क्तः। तथा च ठ्सिनोतेर्ग्रासकर्मकर्तृकस्येति वक्तव्यम्ऽ इति निष्ठा---नत्वे। सिनो ग्रासः स्वयमेवेति कर्तरि क्त उदाहरिष्यते। तस्मात्कृत्यखलर्थेष्वेवैष दोषः, अतस्तत्र लान्तस्य कर्तेत्याश्रयणादेवातिदेशाभावः। कर्मणेति किमिति। धातुवाच्या क्रिया कर्तृ कर्मणोरेव समवेता, तत्र साद्दश्यस्य भेदाधिष्ठानत्वात्कर्तृस्थया क्रियया तुल्यक्रियः कर्ता न सम्भवतीति कर्मस्थैव क्रिया आश्रयिष्यत इति मत्वा प्रश्रः। करणाधिकरणाभ्यामिति। तत्स्थक्रिययेत्यर्थः। साध्वसिश्च्छिनतीति। किं पुनरत्र करणाधिकरणव्यापारमात्रे धातुर्वर्तते? आहो स्वितत्र कृत्स्नधात्वर्थाध्यारोपः? न तावदाद्यकल्पः, तावति धातोरवृतेरसिना च्छिनतत्यत्रापि नैव करणव्यापारो धातुनोपादीयते, केवलं करणत्वादवान्तरव्यापारोऽस्तीत्येतावत्। द्वितीये तु भिन्नक्रियत्वादेवाप्रसङ्गः। तस्मात्करणाधिकरणव्यापारमात्रेऽपि धातोर्वृत्तिमङ्गीकृत्य प्रत्युदाहृतं द्रष्टव्यम्। क्वचितु करणेनापि तुल्यक्रियस्य कर्मवद्भाव इष्यते, यदाह---करणेन तुल्यक्रियः कर्ता बहुलमिष्यते, परिवारयति कण्ट कैर्वृक्षम्, परिवारयन्ते कण्टका वृक्षम्----आत्मनेपदं भवति। वृत्तिकारस्तु ठ्णिचश्चऽ इत्यात्मनेपदमुपपद्यत इति मन्यमानो नैतदुपसमचष्ट। धात्वधिकारात्समाने धाताविति। एकस्यैव धातोरित्यर्थः। एतच्च प्रागेव व्याख्यातम्। कर्मस्थभावकानामित्यादि। यद्यपि क्रियाभावशब्दयोरभिन्न एवार्थः, तथा च ठ्यस्य च भावेन भावलक्षणम्ऽ इति क्रियापि गृह्यते, ठ्लक्षणहेत्वोः क्रियायाःऽ ठ्कर्मणा तुल्यक्रियःऽ इति च वाचोऽपि; तथाप्यस्मिन् ग्रन्थे भेदेनोपादानादर्थभेदो द्रष्टव्यः---अपरिस्पन्दरूपो धात्वर्थो भावः, परिस्पन्दरूपस्तु क्रिया। क्व पुनरसौ कर्मस्थः? क्व ववा कर्तृ स्थः? केचिदाहुः----येषु कर्मब्यापारोपसर्जनः कर्तृव्यापारोऽभिधीयते तेषु कर्मस्थः, येषु कर्तृ व्यापार एव तेषु कर्तृ स्थ इति। नेति वयम्; प्रधानक्रिया यत्र समवैति कर्तरि कर्मणि वा तत्स्थो धात्वर्थः, यदुद्देशेन कारकव्यापारः सा प्रधानक्रिया, यथा---पचेर्विक्लितिः, गमेर्देअशान्तरप्राप्तिः। एवञ्च कृत्वा न्यग्भवनोपसर्जनन्यग्भाववचनोऽपि रुहिः कर्तृस्थक्रियः---आरोहन्ति हस्तिनं हस्तिपका इति; उपरिदेशप्राप्तेरुद्देश्यायाः कर्तरि समवायात्, तत्रेह कर्मस्थेन व्यापारेण कर्तृव्यापारस्योपमानात्। अस्य चार्थस्य कर्तृस्थव्यापारेष्वसम्भवान्न्यायप्राप्त एवार्थो वृत्तिकारेण दर्शितः। तत्र कर्तस्थव्यापारस्य कर्तृस्थस्य चोदाहरणमात्रं श्लोकेन दर्शयति----कर्मस्थः पचतेर्भाव इति। पच्यते घट इत्यत्र तद्देशस्यैव घटस्य पाक इति भावोऽसौ भवति, कर्मस्थश्च---पच्यते ओदन इत्यत्र परिस्पन्दत एव, पाक्यस्य पाकाभिनिर्वृत्तिरिति कर्मस्थैव पचेः क्रिया भवति। कर्मस्था च भिदेः क्रियेति। भिद्यते कुसूल इत्यत्रावयवविशरणात्मिका भिदिक्रिया भेदस्य परिस्पन्दे सति भवतीति कर्मस्था च भिदेः क्रिया भवति। मासासिभावः कर्तृस्थ इति। मासमास्ते इत्यत्र ठ्कालभावाध्वगन्तव्याः कर्मसञ्ज्ञा ह्यकर्मणाम्ऽ इति मासकर्मकोऽयमासिधातुः, तत्र मासासिधातौ प्रतीयमानोऽर्थो भावः; अपरिस्पन्दरूपत्वात्, स च कर्तृस्थ इत्यर्थः। कर्तृ स्था च गमेः क्रियेति। गमेरर्थः क्रिया, सा च कर्तृ स्थेत्यर्थः। तेनास्यते मासः स्वयमेव, गम्यते ग्रामः स्वयमेवेति न भवति। अथेह कथं कर्मवद्भावः---तस्मादुदुम्बरः सलोहितं पच्यते फलमिति? अत्राहुः---पचिरत्र विषये द्विकर्मकः, वृक्षस्य पाकमन्तरेण फलस्य पाकासम्भवात्। तत्र ठप्रधाने दुहादीनाम्ऽ इति वृक्षोऽकथितं कर्मेति तत्र लकारः, कालस्तु कर्तेति। इदं तु वक्तव्यमेव, ठ्सृजियुज्योः श्यंस्तुऽ इति ठ्सृजि विसर्गेऽ,ठ्युजिर्योगेऽ---अनयोः सकर्मकयोः कर्ता कर्मवद्भवति; तत्र सृजेः श्रद्धोपपन्ने कर्तरि कर्मवद्भावः, यग्विषये च श्यन्, चिण्विषये तु चिणेवेष्यते; सृज्यते मालां देवदतः, श्रद्धया निष्पादयतीत्यर्थः। श्यनि सति प्रकृतेराद्यौदातत्वं भवति, यकि तु सार्वधातुकानुदातत्वे यक एवोदातत्वं स्यात्-----असजि मालाम्, श्रद्धया निष्पादयति स्मेत्यर्थः। ठ्युजिर्ऽ---युज्यते ब्रह्मचारी योगेन॥
सिद्धान्तकौमुदी
॥ अथ कर्मकर्तृतिङ्प्रकरणम्‌ ॥ यदा सौकर्यातिशयं द्योतयितुं कर्तृव्यापारो न विवक्ष्यते तदा कारकान्तराण्यपि कर्तृसंज्ञां लभन्ते । स्वव्यापारे स्वतन्त्रत्वात्‌ । तेन पूर्वं करणत्वादिसत्त्वेऽपि सम्प्रति कर्तृत्वात्कर्तरि लकारः । साध्वसिः छिनत्ति । काष्ठानि पचन्ति । स्थाली पचति । कर्मणस्तु कर्तृत्वविवक्षायां प्राक्सकर्मका अपि प्रायेणाकर्मकाः । तेभ्यो भावे कर्तरि च लकाराः । पच्यते ओदनेन । भिद्यते काष्ठेन । कर्तरि तु ।

कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवत्स्यात् । कार्यातिदेशोऽयम् । तेन यगात्मनेपदचिण्चिण्वदिटः स्युः । कर्तुरभिहितत्वात्प्रथमा । पच्यते ओदनः । भिद्यते काष्ठम् । अपाचि । अभेदि । ननु भावे लकारे कर्तुर्द्वितीया स्यादस्मादतिदेशादिति चेन्न । लकारवाच्य एव कर्ता कर्मवत् । व्यत्ययो बहुलं (कौमुदी-3433) लिङ्याशिष्यङ् (कौमुदी-3434) इति द्विलकारकाल्ल इत्यनुवृत्तेः । भावे प्रत्यये च कर्तुर्लकारेणानुपस्थितेः । अत एव कृत्यक्तखलार्थाः कर्मकर्तरि न भवन्ति । किं तु भावे एव । भेत्तव्यं कुसूलेन । ननु पचिभिद्योः कर्मस्था क्रिया विक्लत्तिर्द्विधाभवनं च । सैवेदानीं कर्तृस्था न तु तत्तुल्या । सत्यम् । कर्मत्वकर्तृत्वावस्थाभेदोपाधिकं तत्समानाधिकरणक्रियाया भेदमाश्रित्य व्यवहारः । कर्मणेति किम् । करणाधिकरणाभ्यां तुल्यक्रिये पूर्वोक्ते साध्वसिरित्यादौ मा भूत् । किंच । कर्तृस्थक्रियेभ्यो माभूत् । गच्छति ग्रामः । आरोहति हस्ती । अधिगच्छति शास्त्रार्थः स्मरति श्रद्दधाति च । यत्र कर्मणि क्रियाकृतो विशेषो दृश्यते यथा पक्वेषु तण्डुलेषु यथा वा छिन्नेषु काष्ठेषु तत्र कर्मस्था क्रिया नेतरत्र । न हि पक्वापक्वतण्डुलेष्विव गतागतग्रामेषु वैलक्षण्यमुपलभ्यते । करोतिरूत्पादनार्थः । उत्पत्तिश्च कर्मस्था । तेन कारिष्यते घट इत्यादि । यत्नार्थत्वे तु नैतत्सिद्ध्येत् । ज्ञानेच्छादिवद्यत्नस्य कर्तृस्थत्वात् । एतेन अनुव्यवस्यमानेऽर्थे इति व्याख्यातम् । कर्तृस्थत्वेन यगभावाच्छ्यनि कृते ओलोपे च रूपसिद्धेः । ताच्छील्यादावयं चानश् न त्वात्मनेपदम् ॥ ।सकर्मकाणां प्रतिषेथो वक्तव्यः (वार्तिकम्) ॥ अन्योन्यं स्पृशतः । अजा ग्रामं नयति ॥ ।दुहिपच्योर्बहुलं सकर्मकयोरिति वाच्यम् (वार्तिकम्) ॥
कर्मवत् कर्मणा तुल्यक्रियः - कर्मवत्कर्मणा ।कर्तरि श॑बित्यतः कर्तरीत्यनुवृत्तं प्रथमया विपरिणम्यते ।तुल्या क्रिया यस्य स तुल्यक्रियः कर्ता ।कर्मणे॑त्यनेन कर्मकारकस्था क्रिया विवक्षिता, क्रियायाः कर्मकारकेण तुल्यत्वस्य तत्स्थक्रियामादायैव उपपाद्यत्वात् । तदाह — कर्मस्थयेत्यादिना । कर्मणः कर्तृत्वेन विवक्षायां कर्ता कर्मवदिति यावत् । वत्करणाऽभावे तु कर्मसंज्ञक इत्यर्थशङ्का स्यात् ।तथा सति सकर्मकत्वात्पच्यते ओदनेन भिद्यते काष्ठेनेति भावे लो न स्यात् । कार्यातिदेशोऽयमिति । यद्यपि शास्त्रातिदेशे कार्यातिदेशे वा न फलभेदः, तथापि शास्त्रातिदेशस्यापि कार्यातिदेशार्थत्वातन्मुख्यत्वात्कार्यातिदेश एवाश्रयणीय इत्यर्थः । तेनेति ।स्यु॑रित्यत्रान्वेति । कर्मवत्त्ववचनेन कर्मकार्याणिसार्वधातुके य॑गिति यक्,भावकर्मणो॑रित्यात्मनेपदम्,चिण् भावकर्मणो॑रिति चिण्,स्यसिच्सीयुट्तासिषु॑ इति चिण्वत्त्वं, तत्संनियोगाशिष्ट इट् च स्युरित्यर्थः । कर्मणः कर्त्तृत्वविवक्षायां कत्र्तरि विहितानि शास्त्राण्येव न स्युरिति भावः । कर्तुरिति । कर्मणः कर्तृत्विविक्षायां कर्तरि लकारे सति तदादेशतिङा कर्तुरभिहितत्वादित्यर्थः । पच्यते ओदन इति । फूत्कारादिपुरुषश्रमातिशयविशेषं विना विक्लित्त्याश्रयो भवतीत्यर्थः । भिद्यते काष्ठमिति । कुठारादिदृढाघातं पुरुषश्रमं विना द्विधा भवतीत्यर्थः । अत्र कर्मणः कर्तृत्वेऽपि कर्मत्वाऽतिदेशाद्यक् । अपाचि अभेदीति । अत्र कर्मवत्त्वाच्चिण् । ननु कर्मणः कर्तृत्वविवक्षायां भावलकारे पच्यते ओदनेन , भिद्यते काष्ठेनेत्यत्र कर्मकर्तुस्तिङाऽनभिहितत्वाद्द्वितीया स्यात्, कर्मवत्त्वातदेशादित्याशङ्कते — नन्विति । परिहरति — नेति । नायमाक्षेप उन्मिषतीत्यर्थः । कुत इत्यत आह — लकार वाच्य एवेति । तच्च कुत इत्यत आह — लिङ्याशिषीति ।व्यत्ययो बहुलँल्लिडआशिष्य॑ङ्ङिति संहितया पाठे लकारात् पूर्वं लकारान्तरंहलो यमा॑मिति लुप्तं प्रश्लिष्यते । ततस्च ल् ल् इति द्विलकारात्सूत्रात् ल् इति षष्ठन्तं "कर्मवत्कर्मणा" इत्यत्रानुवर्तते । तथाच लः कर्ता कर्मवदिति लभ्यते । वाच्यत्वं षष्ठर्थः । तथा च लकारवाच्यः कर्ता कर्मवदिति पर्यवस्यतीत्यर्थः । अस्त्वेवं, प्रकृते किमायातमित्यत आह — भावे प्रत्यये च कर्तुर्लकारेणानुपस्थितेरिति । तत्र भावस्यैव तद्वाच्यत्वादिति भावः । अत एवेति । लकारवाच्यस्यैव कर्मकर्तुः कर्मवत्त्वविधानादेव कृत्यक्तखलर्थाः प्रत्ययाः कर्मणि विहिताः कर्मकर्तरि न भवन्ति, तस्य लकारवाच्यत्वऽबावेन कर्मवत्त्वस्य तत्राऽप्रवृत्त्तेरित्यर्थः । एतच्च भाष्ये स्पष्टम् । ननुसिनोतेग्र्रासकर्मकर्तृकस्ये॑ति निष्ठानत्ववार्तिकेसिनो ग्रासः स्वयमेवे॑ति भाष्येकथमुदाह्मतं, क्तप्रत्ययस्य कर्मकर्तर्यभावादिति चेदुच्यते — - अत एव भाष्यात्निष्ठे॑ति सूत्रविहितकर्मार्थकक्तप्रत्ययस्यैव कर्मकर्तर्यभाव इति विज्ञायते ।सिनो ग्रासः स्वयमेवे॑त्यत्र तुगत्यर्थाऽकर् मके॑त्यादिना कर्तरि विहितः क्तप्रत्ययः कर्मकर्तरि भवत्येवेति शब्देन्दुशेखरे विस्तरः । भेत्तव्यं कुसूलेनेति । पुरुषप्रयत्नमनपेक्ष्य कुसूलकर्तृका भिदिक्रियेत्यर्थः । शङ्कते — नन्विति । इदानीमिति । कर्मणः कर्तृत्वविवक्षादशायामित्यर्थः । नतु तत्तुल्येति । तुल्यत्वस्य भेदघटित्त्वादिति भावः । अद्र्धाङ्गोकारेण परिहरति — सत्यमिति । विक्लित्तिर्द्विधाभवनं च कर्मस्थमेव संप्रति कर्तृस्थमिति युक्तं तथापि तयोस्तुल्यत्वाऽभावस्तु नेत्यर्थः । कर्मत्वेपि । कर्मत्वकर्तृत्वे अवस्थे = धर्मविशेषौ तयोर्भेदः स एव उपाधिः = निमित्तं यस्य तताविधं कर्मत्वकर्तृत्वसमानाधिकरणक्रियाभेदमाश्रित्य तुल्यत्वव्यवहार इत्यर्थः । वास्तवभेद#आऽभावेऽपि औपाधिकभेदात्कर्मस्थक्रियातुल्यक्रियत्वं कर्मकर्तृरिति भावः । करणाधिकरणाभ्यामिति । "असिना छिनत्ति" स्थाल्यां पचती॑त्यत्र करणाऽधिकरणयोर्यो व्यापारः स एव "असिश्छिनत्ति" स्थाली पचती॑ त्यत्र कर्तृस्थ इति तत्रापि कर्मवत्त्वं स्यात्, तन्निवृत्त्यर्थं कर्मणेति पदमित्यर्थः । ननुकर्मवत्कर्मणे॑त्यत्र "धातोरेकाच" इत्यतो धातोरित्यनुवर्तते । धातोर्वाच्यया क्रियया तुल्यक्रिय इत्यर्थः । करणत्वाद्यवस्थायां वस्तुतः सन्नपि असिस्थाल्योव्र्यापारो न धातूपात्त इति नोक्तदोष इत्यस्वरसादाह — किंचेति । गच्छति ग्राम इति । मार्गस्य अविषमनिष्कण्टकतया प्रत्यासन्नतया च श्रमं विना प्राप्त्याश्रयो भवतीत्यर्थः । आरोहति हस्तीति । अङ्कुशाऽ‌ऽघातादिहस्तिपकव्यापारं विना स्वयमेव न्यग्भवन् आरोहणाश्रयो भवतीत्यर्थः । अधिगच्छतीति । पूर्वाद्र्धमिदम् ।यत्कृपालेशतस्तस्मै नमोऽस्तु गुरवे सदा॑ इत्युत्तराद्र्धम् । गुरुकृपालेशादेव श्रमं विना स्वयमेव शास्त्रार्थोऽधिगच्छति = निश्चयविषयो भवति, स्मृतिविषयो भवति, श्रद्धाविषयो भवतीत्यर्थः । अत्र कर्मकर्तुग्र्रामादेः कर्तृस्थक्रियावत्त्वेन कर्मस्थक्रियावत्त्वाऽभावान्न कर्मवत्त्वम् । अतो न कर्मकार्यम् यगादि.किंतु कर्तृकार्यं शबाद्येवेति भावः । ननु कर्मकर्तुग्र्रामादेः प्राप्त्याद्याश्रयत्वेन कर्मस्थक्रियत्वमस्त्येवेत्यत आह — यत्रेति । यत्रक्रियाकृतो विशेषो = वैलक्षण्यं दृश्यते = प्रत्यक्षमुपलभ्यते, तत्र कर्मणि विद्यमाना क्रिया कर्मस्थक्रियेत्युच्यते इत्यन्वयः । तदुदाह्मत्य दर्शयति — - यथा पक्वेषु तण्डुलेष्विति ।तण्डुलावस्थापेक्षया विक्लित्तिकृतो विशेषो दृश्यते॑ इति शेषः । अन्यत्रापि क्रियाकृतं वैलक्षण्यमुदाह्मत्य दर्शयति — यथा वा छिन्नेषु काष्ठेष्विति ।अच्छिन्नापेक्षया वैलक्षण्यं दृश्यते॑ इति शेषः । "गच्छति ग्राम" इत्यादौ तु नैवमित्याह — न हीति । ग्रामेष्विति । उपलक्षणमिदम् । पक्वाऽपक्वतण्डुलेषु यथा क्रियाकृतं वैलक्षण्यमुपलभ्यते तथा गताऽगतग्रामे आरूढाऽनारूढहस्तिनि अधिगताऽधिगते स्मृताऽस्मृते श्रद्धिताऽश्रद्धिते च शास्त्रार्थे क्रियाकृतवैलक्षण्यं न दृश्यते इत्यर्थः । ग्राममनादौ कर्तर्येव श्रमादिवैलक्षण्यदर्शनादिति भावः । ननु ज्ञानेच्छयोरिव यत्नस्याऽपि कर्तृस्थत्वात्तद्वाचिनः कृञोऽपि कर्ता न कर्मवत्स्यात् । ततश्चक्रियते घटः स्वयमेवे॑ति यगादिर्न सिद्ध्येदित्याशङ्क्य कृञो न यत्नार्थत्वमित्याह — करोतिरुत्पादनार्थ इति । उत्पत्त्यनुकूलव्यापारार्थक इत्यर्थः । एतच्च भूवादिसूत्रे भाष्ये स्पष्टम् । करोतेरुत्पादनार्थकत्वे तु कर्मस्थक्रियत्वं तत्कर्तुरुपपादयति — उत्पत्तिश्च कर्मस्थेति । उत्पन्ने अनुत्पन्ने च वैलक्षण्यस्य प्रत्यक्ष्तवादिति भावः । तेनेति । कृञः कर्तुः कर्मस्थक्रियत्वेनैत्यर्थः । तथा चक्रियते घटः स्वयमेवे॑त्यत्र यक् । तासि तु चिण्वदिट्पक्षे कारिता, तदभावे तु कर्तेति सिद्धवत्कृत्याह — करिष्यते घट इत्यादीति । चिण्वदिट्पक्षे "कारिष्यते" इति रूपं, तदभावपक्षे तु "ऋद्धनोः स्ये" इतीट् — करिष्यते । सीयुटश्चिण्वदिटि — कारिषीष्ट । तदभावे तु — कृषीष्ट । लुङि — अकारि अकृत । नैतदिति । कर्मवत्वं न सिद्ध्येदित्यर्थः ।यततेट इतिवत्सकर्मकत्वमेव न स्यादित्यपि बोध्यम् । एतेनेति । ज्ञानस्य कर्तृस्थत्वव्युत्पादनेनेत्यर्थः । अनुव्यवस्यमानेऽर्थे इति । अर्ते स्वयमेव निश्चयविषयतां संपद्यमाने इत्यर्थः । व्याख्यातमिति । समर्थितमित्यर्थः । कथं समर्थितमित्यत आह — कर्तृस्थत्वेन यगभावादिति । अनुव्यवसायः = निश्चयः, तत्र कर्मकर्ता अर्थः, स न कर्मस्थक्रियः, अर्थे अनुव्यवसायकृतवैलक्षण्याऽभावात्, किंतु कर्तृस्थक्रिय एव, अनुव्यसायकर्तरि देवदत्ते हर्षादिदर्शनात् । ततश्चकर्मवत्त्वाऽभावान्न यक् ।यकि तु कित्त्वात्घुमास्थागापाजहातिसा॑मिति ईत्वे "अनुव्यवसीयमान" इति स्यादित्यर्थः । ननु यगभावे कथं यकारश्रवणमित्यत आह — श्यनीति । "षो अन्तकर्मणि" इति धातोरनुव्यवपूर्वादुपसर्गवशेन निश्चयवृत्तेराने कृते श्यनि "ओतः श्यनी" त्योकारलोपे "अनुव्यवस्यमान" इति रूपसिद्धेरित्यर्थः । ननु कर्मवत्त्वाऽभावे "भावकर्मणो" रित्यात्मनेपदाऽभावात्कथमिह लटः शानच्, तस्यात्मनेपदत्वादित्यत आह — ताच्छील्यादाविति ।ताच्छील्यवयोवचनशक्तिषु चान॑शित्यनेन चानशित्यर्थः । तस्य च लादेशत्वाऽभावेन आत्मनेपदत्वाऽभावात् करमवत्त्वाऽभावेऽपि कर्मकर्तरि प्रवृत्तिर्निर्बाधा । तदाह — न त्वात्मनेपदमिति । ननुअन्योन्यं स्पृशतः स्वयमेव यज्ञदत्त देवदत्ता॑वित्यत्रापि कर्मत्वाद्यगादि स्यात् । तत्र हि स्पृशिः संयोगानुकूलव्यापारार्थकः । उभावपि कर्तारौ, कर्मभूतौ च । स्पर्शनक्रियाया एकत्वेऽपि आश्रयभेदात्तद्भेदमाश्रित्य यज्ञदत्तनिष्ठां स्पर्शनक्रियां प्रति देवदत्तस्य कर्मत्वम् । एवं देवदत्तनिष्ठां स्पर्शनक्रियां प्रति यज्ञदत्तस्य कर्मत्वम् ।एवं कर्तृत्वप्युभयोज्र्ञेयम् । एवंच उभयोः कर्तृत्वकर्मत्वसत्त्वादेकस्मिन् कर्तरि कर्मणि वा स्पृशिक्रिया सैवेतरस्मिन् कर्तरि कर्मणि वा वर्तते इति कर्मवत्त्वं स्यात्, आश्रयनिबन्धनं भेदमाश्रित्य तुल्यक्रियत्वोपपत्तेः । स्पृष्टाऽस्पृष्टयोरन्योन्यसंयोगकृतहर्षादितदभावर्सनाचच्चेत्यत आह — सकर्मकाणां प्रतिषेध इति । एककर्मकाणां छिदिभिदिप्रभृतीनां कर्मणः कर्तृत्वविवक्षया अकर्मकाणां कर्तुः कर्मवत्त्वमुक्तम् । ये तु द्विकर्मकाः कर्मणः कर्तृत्वविवक्षायामपि सकर्मका धातवस्तेषां धातूनां कर्मकर्तुः कर्मवत्त्वप्रतिषेधो वक्तव्य इत्यर्थः । अन्योन्यं स्पृशत इति । कर्मवत्त्वे तु यकि तङि च "स्पृश्येते" इति स्यादिति भावः ।सकर्मकाणां प्रतिषेधः इत्यस्योदाहरणान्तरमाह — अजा ग्रामं नयतीति । अजा ग्रामं स्वयमेव प्राप्नोतीत्यर्थः । अत्र नयनं प्रत्यजायाः कर्मणः कर्तृत्वविववक्षायामपि ग्राममादाय सकर्मकत्वान्न कर्मवत्त्वमिति भाव- । वस्तुतस्तु गते अगते चग्रामे वैलक्षण्याऽभावादेवाऽत्र क्मवत्त्वस्याऽप्राप्तिरिति नेदमस्य वार्तिकस्योदाहरणम् । अत एव भाष्ये अन्योन्यमाश्लिष्यतः, अन्योन्यं स्पृशतः, अन्योन्यं सङ्गृहीत इत्येवोदाह्मतमिति शब्देन्दुशेखरे स्पष्टम् । दुहिपच्योरिति ।कर्मवत्त्व॑मिति शेषः । अनयोर्द्विकर्मकत्वादेकस्य कर्मणः कर्तृत्वविवक्षायामपि अन्यकर्मणा सकर्मकत्वात्पूर्ववार्तिकेन कर्मवत्त्वनिषेधे प्राप्ते प्रतिप्रवसोऽयम् ।
कर्मवत् कर्मणा तुल्यक्रियः - कर्मवत्कर्मणा । वत्करणं किमर्थम् । यथा अब्राहृदत्ते प्रयुज्यमानो ब्राहृदत्तशब्दः ब्राहृदत्तवदित्यर्थं वदति तथा कर्मेत्युच्यमानेऽपि कर्मवदित्यर्थलाभात् । सत्यम् । कर्मणा तुल्यक्रियः कर्ता कर्मेत्युच्यमने कर्मसंज्ञक इत्यर्थः स्यात् । तथा हि सति अकर्मकव्यपदेशाऽभावाद्भावे लकारो न स्यात् — किं तु कर्मणि स्यात् — पच्यते ओदनः भिद्यते काष्ठ॑मिति । यद्यप्ययं प्रयोगः सिद्धान्ते इष्ट एव तथापिपच्यते ओदनेन, भिद्यते काष्ठेने॑ति भावे न स्यादिति बोध्यम् । कर्मशब्देनाऽत्र कर्मस्थक्रिया लक्ष्यत इत्याह — कर्मस्थयेति । कर्मकारकस्थयेत्यर्थः ।कर्तरि श॑बित्यतः कर्तरीत्यनुवर्त्त्य प्रथमया विपरिणम्यते । सच विशेष्यस्तदाह — तुल्यक्रियः । कर्तेति । कार्यातिशेधोऽयमिति । यद्यपि शास्त्रातिदेशेऽपि लक्ष्यं सिध्यति तथापि शास्त्रस्यापि कार्यार्थतया मुख्यत्वात्कार्यातिदेश एवाश्रितः । भावे लकारे इति । तत्र कर्तुरनभिहितत्वादिति भावः । द्विलकारकादिति ।व्यत्ययो बहुललँ-ल्लिडआशिष्य॑ क्ङिति संहितया पाठेऽनुस्वारस्य परसवर्णेन जाते लकारे तस्योपरि लद्वयमित्यर्थः । तेनलकारवाच्यः कर्ता तत्रैव कर्मवत्त्वमिति व्युत्पादनस्य फलमाह — अत एवेति । न भवन्तीति । लकारेणैव कर्मकर्तुरुपस्थानात्कृत्यादीनां प्रसक्तिर्नास्ति, उक्तार्थानामप्रयोगात् । लविधेः पूर्वं तु सुतरां नास्ति, लकारोपस्थाप्यकर्तुरभावेन कर्मत्त्वाऽभावादिति भावः । अत्रेदं बोध्यं — -कृत्यक्तखलर्था॑ इत्यत्र क्तग्रहणं त्युक्तमुचितं , तस्य कर्मकर्तरि इष्टत्वात् — भिन्नः कुसूलः स्वयमेवे॑ति । वक्ष्यति च स्वयमपि — ॒सिनोतेग्र्रासकर्मकर्तृकस्ये॑ति वार्तिके — सिनो ग्रासः स्वयमेवे॑ति । ननुगत्यर्थाऽकर्मके॑त्यत्राऽविवक्षितकर्माणोऽकर्मका इति न गृह्रन्ते, दत्तवान् पक्ववानित्यर्थे दत्तः पक्व इत्यापत्तेरिति चेत् । अत्राहुः — सिनोतेग्र्रासकर्कर्तृकस्ये॑ति निष्ठातकारस्य नकारविधानसामथ्र्यादविवक्षितकर्माणोऽपि क्वचिद्गृह्रन्ते । अन्यथा निष्ठातकारस्तत्र न लभ्येत, तेनसिनो ग्रासः स्वयमेव,भिन्नः कुसूलः स्वयमेवे॑त्यादि सङ्गच्छते इति । अत्र केचिद्वदन्तिलकारवाच्यस्यैव कर्तुः कर्मवत्त्वेकर्मवत्कर्मणे॑त्यत्र वद्ग्रहणं व्यर्थम् । न च कर्तुः कर्मसंज्ञायां भवे लकारो न स्यादित्युक्तमिति वाच्यं, कर्मणः कर्तृत्वविवक्षायां धातुरकर्मक इत्यकर्मकात्कर्तरीव भावे लकारस्य निर्बाधत्वात् । लकारवात्त्यस्य कर्मसंज्ञायामपि केवलकर्तुस्तदनभ्युपगमात् । न हि भावे लकारः कर्तारं वक्ति । न च वत्करणाऽभावे कर्तुः कर्मसंज्ञायां कर्तृव्यपदेशाऽभावान्नमते दण्ड इत्यत्रन दुहरुआउनमा॑मिति यको निषेधेऽपि शब्न स्यात्, वत्करणे कृते तु कर्तृकार्यमपि स्यादिति वाच्यम्, एकसंज्ञाधिकारादन्यत्र संज्ञाद्वयसमावेशादिष्टसिद्धेरिति । न तु तत्तुल्येति । तुल्यत्वं हि सादृश्यम् । तच्च भेदनिबन्धनम्, नच प्रकृते भेदोऽस्ति,कर्मणः कर्तृत्वविवक्षायां कर्मस्थफलरूपक्रियाया एव कर्तृस्थत्वात्, तथा च सूत्रमिदमसमञ्जसमिति भावः । वास्तविकभेदाभावेऽप्यौणपाधिकभेदोऽस्तीत्याह — कर्मत्वेति । कर्मत्वकर्तृत्वाऽवस्थयोर्भेदस्तद्भेदोपाधिकरमवस्थभेदसमानाधिकरणं क्रियाभेदमाश्रित्येत्यर्थः । एवं चावस्थाभेदेन क्रियाबेदात्कर्मस्थक्रियातुल्यक्रियत्वं कर्तुरस्तीति भावः । करणाधिकरणाभ्यामिति ।तुल्यक्रिय कर्ते॑त्येतावत्युच्यमानेअसिना छिनत्ति॑स्थाल्यां पचती॑त्यादौ करणाधिकरणयोर्यो व्यापारः स एवेदानामसिश्छिनत्ति स्थाली पचतीत्यादौ कर्तृस्थ इत्यतिप्रसङ्गः स्यात्, तन्माभूदित्यथः । नच कर्मत्वाऽवस्थायां विक्लित्यादिरिव करणत्वाद्यवस्थायामपि स्थाल्या व्यापारो वस्तुतः सन्नपि धातुना नोपात्त इति कथमतिप्रसङ्ग इति वाच्यं, सादृश्यप्रतियोगिक्रियाया धातूपात्तत्वेनाऽविशएषितत्वात् । न ह्रेतस्मिन्सूत्रे धातूपात्तक्रियया तुल्यक्रिय इत्युक्तमस्ति येनातिप्रसङ्गो न भवेत् । ननु तुल्यक्रियः कर्ता कर्मवद्भवतीत्युक्ते केनेत्याकाङ्क्षायामनेककारकोपस्थितावपि कर्मवदिति प्रत्यासत्त्या कर्मणेति लभ्यत एवेत्यत आह — किं चेति । अधिगच्छतीत्यादिश्लोकस्योत्तराद्र्धन्तुयत्कृपालेशतस्तस्मै नमोऽस्तु गुरवे सदा॑ । ननु फलं व्यापारश्च धात्वर्थः, स एव क्रियाशब्दवाच्यः । तत्र व्यापाराश्रयः कर्ता, फलाश्रयस्तु कर्म । एं च पचिभिदिप्रभृतीनां , गमिरुहिप्रभृतीनां च सकर्मकत्वे फलस्य कर्मनिष्ठत्वे च तुल्ये कर्तृस्थभावका गम्यादय इति कथं ज्ञातव्या इत्यत आह — यत्र र्मणीति । ग्रामेष्विति । आरूढाऽनारूढहस्तिषु अधिगतानधिगतशास्त्रार्थेष्वित्यादावपि वलक्षण्यं नोलभ्यत इति बोध्यम् । कारिष्यते इति ।स्यसिच्सीयु॑डिति वैकल्पकश्चिण्वदिट् । पक्षेऋद्धनोः स्ये॑ इतीट् । करिष्यते । एवं लृङि अकारिष्यत । सिचश्चिण्वदिटि — अकारिष्ट । पक्षे अकृत । सीयुटश्चिण्वदिटि — कारिषीष्ट । पक्षे — कृषीष्ट । तासि तु कारिता कर्ता । यक्चिणोस्तु क्रियते घटः स्वयमेव, अकारीत्यादि । नैतत्सिध्येदिति ।कर्मवत्कर्मणे॑ति कर्मवत्त्वं न सिध्येदित्यर्थः । एतेन पचति पाकं करोतीति विवकरणादाख्यातस्य यत्ने शक्तिरित नैयायिकोक्तिः पारस्ता । करोतेर्यत्नार्थत्वे तु यतते इति वत्सर्मकतापि न स्यादिति । एतेनेति । ज्ञानसय् कर्तृस्थत्वाभ्युपगमेनेत्यर्थः । यगभावादिति । सति तु यक्यनुव्यवसीयमान इति स्यादिति भावः । ओल्लोप इति ।ओतः श्यनी॑त्यनेन । ननु कर्मवत्त्वाऽभावे कथमिह शानजित्यत आह — ताच्छील्यादाविति । न त्विति । शानज्न भवतीत्यर्थः ।देवदत्तयज्ञदत्तावन्योन्यं स्पृशत॑ इत्यत्र तयोरेव कर्मत्वं कर्तृत्वं चास्तीति कर्मस्थक्रियायाः कर्तृस्थत्वात्कर्मवद्भावप्राप्तिमाशङ्क्याह — सकर्मकाणामिति । न चाऽत्रदेवदत्तो यज्ञदत्तं स्पृशति, यज्ञदत्तस्तुदेवदत्त॑मिति क्रियाभेदोऽवश्यमाश्रयितव्यः । तथा च स्वनिष्ठां क्रियां प्रति कर्त्तृत्वम्, इतरक्रिया प्रति तु कर्मत्वं भवति । अन्यथा द्वयोरपि कर्तृत्वमेव स्यात्इमौ गङ्गां स्पृशत॑ इत्यत्र यथा । एवं च कर्मस्थक्रियायाः कर्तृस्थत्वाऽभावात्कर्मवद्भावो न प्राप्नोति । न च संयोगस्य द्विष्ठत्वात्कर्मस्थफलस्य कर्तृस्थत्वाऽच्चास्त्येवेति शङ्क्यं, तत्तन्निरूपितसंयोगस्य भिन्नत्वात् । अन्यथा फलव्यापारयोरेकाश्रयत्वे सकर्मकत्वमेव न लभ्येत् । किंच रुहिगम्योः कर्तृस्थक्रियत्वादारोहते हस्ती, गच्छति ग्राम इत्यत्र कर्मवद्भावो नेति भाष्यकैयटादिसंमतम् । तथाच संयोगरूपफलस्य सर्वत्र तुलयतया रुहिगमिभ्यां स्पृशेर्वैषम्यं दुरुपपादमिति नाऽत्रकर्मवत्त्वप्रसक्तिरित्युदाहणान्तरमाह — अजा ग्रामं नयतीति । इह प्रतिषेधाऽभावे यक् स्यात्, क्रियाफलस्याऽकर्तगामित्वेऽप्यात्मनेपदं स्यादिति भावः । नन्विहापि कर्मणि क्रियाकृतो विशेषो नोपलभ्यत इति कर्मस्थक्रियत्वं दुरुपपादमिति चेत् । अत्राहुः — क्रियाकृतविशेषोपलम्भाऽनुपलम्भवदुद्देश्यताऽपि नियामिका । यत्र क्रमस्थांऽशस्योद्देशयता सा कर्मस्थक्रिया, यत्र तु व्यापारांऽशस्यसा कर्तृस्थेति । तथा हि — दर्शनारोहणाभ्यां विषये न्यग्भूतेच विशेषानुपलम्भात्कर्तृस्थता । उद्देशानुरोधाच्च अहं पश्येयमित्युद्देशो, न त्वयं विषयो भवत्विति । एवमहमुपरिगच्छेयमित्युद्देशो न तु हस्तनो न्यग्भावो भवत्विति । ऊध्र्वदेशसंयोगानुकूलव्यापारविशेष उपरिगमनं, तदेव रुहेरर्थो न तु न्यग्भावमात्रम् । वृक्षस्यशाखां हस्ताभ्यामवनमयत्यपि भूमिष्ठे पुर#उष आरोहतीत्यप्रयोगात् । अतएव हियद्धितुपरं छन्दसी॑त्यत्र भाष्यंरुहिर्गत्यर्थ॑ इति । अत एव चारोहन्ति हस्तिनं हस्तिपकास्तानारोहयति महामात् इत्यादिप्रोगेष्वणौ कर्तुर्णौ क्मत्वं सङ्गच्छते । पचिभिद्योस्तु विक्लित्तिर्द्विधाभवनरूपो विशेषः कर्मणि दृष्टस्तदुद्देशेनैव कारकव्यापार इति कर्मस्थक्रियत्वात्पच्यते ओदनः, भिद्यते काष्ठमित्यत्र कर्मवद्भावो भवत्येव । अजा ग्रामं नयतीत्यत्रापि कर्मस्थांऽशस्य संयोगस्योद्देश्यता, न तु व्यापारांशस्येति कर्मवद्भावे प्राप्ते प्रतिषेधोऽयमावश्यक इति दिक् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
कर्मवत्कर्मणा तुल्यक्रियः (704) (431 कर्मवद्भावसूत्रम्।। 3.1.5 आ.1 सू.) (आक्षेपभाष्यम्) वत्करणं किमर्थम्?। (समाधानभाष्यम्) स्वाश्रयमपि यथा स्याद् भिद्यते कुसूलेनेति। अकर्मकाणां भावे लो यथा स्यात्।। (आक्षेपभाष्यम्) कर्मणेतिकिमर्थम्?। (भाष्यम्) करणाधिकरणाभ्यां तुल्यक्रियः कर्ता यः स कर्मवन्मा भूत्। साध्वसिश्छिनत्ति, साधु स्थाली पचतीति।। (आक्षेपभाष्यम्) तुल्यक्रिय इति किमर्थम्?। (समाधानभाष्यम्) पचत्योदनं देवदत्तः।। (आक्षेपभाष्यम्) तुल्यक्रिय इत्यप्युच्यमानेऽत्र पाप्नोति। अत्रापि हि कर्मणा तुल्यक्रियः कर्ता। (समाधानभाष्यम्) न तुल्यक्रियग्रहणेन समानक्रियत्वमभिधीयते। किं तर्हि। यस्मिन्कर्मणि कर्तृभूतेऽपि तद्वत्क्रिया लक्ष्यते यथा कर्मणि। स कर्मणा तुल्यक्रियः कर्ता कर्मवद्भवतीति। (1877 परिसंख्यावार्तिकम्।। 1 ।।) - कर्मवदकर्मकस्य कर्ता- (भाष्यम्) अकर्मकस्य कर्ता कर्मवद्भवतीति वक्तव्यम्। किं प्रयोजनम्?। सकर्मकस्य कर्ता कर्मवन्माभूत्। भिद्यमानः कुसूलः पात्राणि भिनत्तीति। (1878 परिसंख्यावार्तिकम्।। 2 ।।) - तथा कर्मदृष्टश्चेत्समानधातौ- (भाष्यम्) तथा कर्मदृष्टश्चेत्समानधाताविति वक्तव्यम्। इह मा भूत् ‐ - पचत्योदनं देवदत्तः। राध्यत्योदनः स्वयमेवेति।। (1879 परिसंख्यावार्तिकम्।। 3 ।।) - तथा कर्मस्थभावकानां कर्मस्थक्रियाणां च- (भाष्यम्) तथा कर्मस्थभावकानां कर्मस्थक्रियाणां च कर्ता कर्मवद्भवतीति वक्तव्यम्। कर्तृस्थभावकानां कर्तृस्थक्रियाणां च कर्ता कर्मवन्मा भूदिति। कर्मस्थभावकानाम् ‐ - आसयति देवदत्तम्, शाययति देवदत्तम्, स्थापयति देवदत्तम्।। कर्मस्थक्रियाणाम् ‐ - गामवरुणद्धि, करोति कटम्। कर्तृस्थभावकानाम् - चिन्तयति, मन्त्रयते।। कर्तृस्थक्रियाणाम् ‐ - गच्छति, धावति, हसति।। (प्रथमपरिसंख्यावार्तिकवैर्यथ्यभाष्यम्) यत्तावदुच्यते ‐ - अकर्मकस्य कर्ता कर्मवद्भवतीति वक्तव्यम् इति।। न वक्तव्यम्। वक्ष्यत्येतत् ‐ - सकर्मकाणां प्रतिषेधोऽन्योन्यमाश्लिष्यत इति।। (द्वितीयपरिसंख्यावार्तिकवैर्यथ्यभाष्यम्) यदप्युच्यते ‐ - कर्मदृष्टश्चेत् समानधाताविति वक्तव्यमिति ।। न वक्तव्यम्। धातोरिति वर्तते। धातोः कर्मणः कर्तुरयं कर्मवद्भाव उच्यते। तत्र संबन्धादेतद् अगंतव्यम् ‐ - यस्य धातोर्यत् कर्म तस्य चेत् कर्ता स्यादिति। तद्यथा ‐ - धातोः कर्मण्यण् भवतीति, तत्र सम्बन्धादेतद् गम्यते यस्य धातोर्यत्कर्मेति। इह मा भूत् ‐ - आहर कुम्भं करोति कटमिति। (तृतीयपरिसंख्यावार्तिकवैर्यथ्यभाष्यम्) यदप्युच्यते ‐ - कर्मस्थभावकानां कर्मस्थक्रियाणां च कर्ता कर्मवद्भवतीति वक्तव्यम्। कर्तृस्थभावकानां कर्तृस्थक्रियाणां वा कर्ता कर्मवन्मा भूदिति।। न वक्तव्यम्। कर्मस्थया क्रियया यं कर्तारमुपमिमीते। न च कर्तृस्थभावकानां कर्तृस्थक्रियाणां वा कर्मणि क्रियायाः प्रवृत्तिरस्ति।। (कर्मवद्भावफलविचाराधिकरणम्) (आक्षेपभाष्यम्) किं पुनः कर्मकर्तरि कर्माश्रयमेव भवति, आहोस्वित् कर्त्राश्रयमपि?।। किं चातः?। यदि कर्माश्रयमेव, चङ्शप्कृद्विधयो न सिध्यन्ति। चङः ‐ - अचीकरत कटः स्वयमेव। चङ्।। शप् ‐ - नमते दण्डः स्वयमेव। शप्।। कृद्धिधिः ‐ - भिदुरं काष्ठं स्वयमेव।। अथ कर्त्राश्रयमपि, सिद्धमेतद् भवति।। (किं तर्हीति)(1880 कर्त्राश्रयत्वे दूषणवार्तिकम्।। 4 ।।) - आत्मनेपदशबादिविधिप्रतिषेधः- (भाष्यम्) आत्मनेपदं विधेयं शबादीनां च प्रतिषेधो वक्तव्यः।। (दूषणपरिहारभाष्यम्) उभयं क्रियते न्यास एव। (सूत्रप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) किमर्थं पुनरिदमुच्यते?। (1881 समाधानवार्तिकम्। 5 ।।) - कर्मकर्तरि कर्तृत्वं स्वातन्त्र्यस्य विवक्षितत्वात्- (भाष्यम्) कर्मकर्तरि कर्तृत्वमस्ति। कुतः?। स्वातन्त्र्येणैवात्र कर्ता विवक्षितः।। (आक्षेपभाष्यम्) किं पुनः सतः स्वातन्त्र्यस्य विवक्षा, आहोस्विद्विवक्षामात्रम्?। (समाधानभाष्यम्) सत इत्याह। कथं ज्ञायते।। इह भिद्यते कुसूलेनेति। न चान्यः कर्ता दृश्यते, क्रिया चोपलभ्यते।। (आक्षेपभाष्यम्) किं च भो विग्रहवतैव क्रियायाः कर्त्रा भवितव्यम्, न पुनर्वातातपकाला अपि कर्तारः स्युः।। (समाधानभाष्यम्) भवेत्सिद्धं यदि वातातपकालानामन्यतमः कर्ता स्यात्। यस्तु खलु निवाते निरभिवर्षे अचिरकालकृतः कुसूलः स्वयमेव भिद्यते तस्य नान्यः कर्ता भवति अन्यदतः कुसूलात्।। (आक्षेपभाष्यम्) यद्यपि तावदत्रैतच्छक्यते वक्तुं यत्रान्यः कर्ता नास्ति। इह तु कथं स्याल्लूयते केदारः स्वयमेवेति। यत्रासौ देवदत्तो दात्रहस्तः समन्ततो विपरिपतन्दृश्यते। (समाधानभाष्यम्) अत्रापि याऽसौ सुकरता नाम तस्या नान्यः कर्ता भवति अन्यदतः केदारात्।। (भाष्यम्) अस्ति प्रयोजनमेतत्?। किं तर्हीति। (1882 कर्मवद्भावविषयपरिसंख्यावार्तिकम्।। 6 ।।) - तत्र लान्तस्य कर्मवदनुदेशः- (भाष्यम्) लान्तस्य कर्मवदनुदेशः कर्तव्यः। लान्तस्य कर्ता कर्मवद्भवतीति वक्तव्यम्। (1883 परिसंख्यापरिहेयदर्शकवार्तिकम्।। 7 ।।) - अन्यथा हि कृत्यक्तखलर्थेषु प्रतिषेधः- (भाष्यम्) अक्रियमाणे हि लग्रहणे कृत्यक्तखलर्थेषु प्रतिषेधो वक्तव्यः स्यात्। कृत्य ‐ - भेत्तव्यः कुसूल इति कर्म। स यदा स्वातन्त्र्येण विवक्षितस्तदास्य कर्मवद्भावः स्यात्, तस्य प्रतिषेधो वक्तव्यः तस्मिन् प्रतिषिद्धे अकर्मकाणां भावे कृत्यो भवतीति भावे कृत्यो यथा स्याद् भेत्तव्यं कुसूलस्य, भेत्तव्यं कुसूलेनेति। कृत्य।। क्त ‐ - भिन्नः कुसूल इति कर्म। स यदा स्वातन्त्र्येण विवक्षितो भवति, तदास्य कर्मवद्भावः स्यात्, तस्य प्रतिषेधो वक्तव्यः। तस्मिन् प्रतिषिद्धे अकर्मकाणां भावे क्तो भवतीति भावे क्तो यथा स्याद् भिन्नं कुसूलेनेति। क्त।। खलर्थ ‐ - इर्षद्भेदः कुसूल इति कर्म। स यदा स्वातन्त्र्येण विवक्षितो भवति तदाऽस्य कर्मवद्भावः स्यात्। तस्य प्रतिषेधो वक्तव्यः। तस्मिन्प्रतिषिद्धे अकर्मकाणां भावे खल्भवतीति भावे खल् यथा स्यात्। इर्षद्भेदं कुसूलेनेति। खलर्थ।। (आक्षेपभाष्यम्) तत्तर्हि लग्रहणं कर्तव्यम्।। (सिद्धान्तिसमाधानभाष्यम्) न कर्तव्यम्। क्रियते न्यास एव ‐ - व्यत्ययो बहुलल्ल्लिङ्याशिष्यङ् इति द्विलकारको निर्देशः।। (1884 सूत्रवैर्यथ्यवार्तिकम्।। 8 ।।) - सिद्धं तु प्राकृतकर्मत्वात्- (भाष्यम्) सिद्धमेतत्। कथम्?। प्राकृतकर्मत्वात्। प्राकृतमेवैतत् कर्म। तया कटं करोति, शकटं करोतीति।। (आक्षेपभाष्यम्) कथं प्रनर्ज्ञायते प्राकृतमेवैतत्कर्मेति।। (1885 वैर्यथ्यहेतुवार्तिकम्।। 9 ।।) - आत्मसंयोगेऽकर्मकर्तुः कर्मदर्शनात्- (भाष्यम्) आत्मसंयोगेऽकर्मकर्तुः कर्म दृश्यते। क्व?। हन्त्यात्मानम्। आत्मना हन्यत इति। (वैषम्यविघटकसूत्रसार्थक्यभाष्यम्) विषम उपन्यासः। हन्त्यात्मानमिति कर्म दृश्यते, कर्ता न दृश्यते। आत्मना हन्यत इति च कर्ता दृश्यते, न कर्म दृश्यते।। (1886 वैषम्योपपादकवार्तिकम्।। 10 ।।) - पदलोपश्च- (भाष्यम्) पदलोपश्चात्र द्रष्टव्यः। हन्त्यात्मानमात्मा। आत्मना हन्यत आत्मेति।। (शङ्काभाष्यम्) कः पुनरात्मानं हन्ति, को वात्मना हन्यते?। (उत्तरभाष्यम्) द्वावात्मानौ ‐ - शरीरात्मा, अन्तरात्मा च। अन्तरात्मा तत्कर्म करोति येन शरीरात्मा सुखदुः खे अनुभवति। शरीरात्मा तत्कर्म करोति येनान्तरात्मा सुखदुः खे अनुभवति।। (1887 आक्षेपवार्तिकम्।। 11 ।।) - सकर्मकाणां प्रतिषेधोऽन्योन्यमाश्लिष्यत इति- (भाष्यम्) सकर्मकाणां प्रतिषेधो वक्तव्यः। किं प्रयोजनम्?। अन्योन्यमाश्लिष्यतः अन्योन्यं संस्पृशतः अन्योन्यं संगृह्णीत इति।। (1888 सकर्मकप्रतिषेधाय नियमवार्तिकम्।। 12 ।।) - तपेर्वा सकर्मकस्य वचनं नियमार्थम्- (भाष्यम्) तपेर्वा पुनः सकर्मकस्य वचनं नियमार्थं भविष्यति ‐ - तपेरेव सकर्मकस्य नान्यस्य सकर्मकस्येति। (आक्षेपभाष्यम्) तस्य तर्ह्यन्यकर्मकस्यापि प्राप्नोति। उत्तपति सुवर्णं सुवर्णकारः। उत्तप्यमानं सुवर्णं सुवर्णकारमुत्तपति।। (1889 समाधानवार्तिकम्।। 13 ।।) - तस्य च तपः कर्मकस्यैव- (भाष्यम्) तस्य च तपः कर्मकस्यैव कर्ता कर्मवद्भवति नान्यकर्मकस्य।। (आक्षेपभाष्यम्) किमिदं तप इति?। (उत्तरभाष्यम्) तपेरयमौणादिकोऽस्कारो भावसाधनः। (आक्षेपभाष्यम्) कः प्रकृत्यर्थः, कः प्रत्ययार्थः?। (समाधानभाष्यम्) स एव संतापः।। कथं पुनः स एव नाम प्रकृत्यर्थः स्यात् स एव च प्रत्ययार्थः?। (भाष्यम्) सामान्यतपेरवयवतपिः कर्म भवति। तद्यथा ‐ - स एतान् पोषानपुषत् गोपोषमश्वपोषं रैपोषमिति सामान्यपुषेरवयवपुषिः कर्म भवति। एवमिहापि सामान्यतपेरवयवतपिः कर्म भवति।। (1890 कर्मवद्भावविकल्पवार्तिकम्।। 14 ।।) - दुहिपच्योर्बहुलं सकर्मकयोः- (भाष्यम्) दुहिपच्योः सकर्मकयोः कर्ता कर्मवद्बहुलं भवतीति वक्तव्यम्। दुग्धे गौः पयः स्वयमेव। तस्मादुदुम्बरः सलोहितं फलं पच्यते।। बहुलवचनं किमर्थम्?। परस्मैपदार्थम्। यद्येवं नार्थो बहुलवचनेन। न हि परस्मैपदमिष्यते।। (1891 श्यन्विधिवार्तिकम्।। 15 ।।) - सृजियुज्योः श्यंस्तु- (भाष्यम्) सृजियुज्योः सकर्मकयोः कर्ता बहुलं कर्मवद्भवतीति वक्तव्यम्। श्यंस्तु भवति। सृजेः श्रद्धोपपन्ने कर्तरि कर्मवद्भावो वाच्यः चिणात्मनेपदार्थः। सृज्यते मालाम्, असर्जि मालामिति।। युजेस्तु न्याय्ये कर्मकर्तरि यकोऽभावाय। युज्यते ब्रह्मचारी योगम्।। (1892 कर्मवद्भावविधिवार्तिकम्।। 16 ।।) - करणेन तुल्यक्रियः कर्ता बहुलम्- (भाष्यम्) करणेन तुल्यक्रियः कर्ता बहुलं कर्मवद्भवतीति वक्तव्यम्। परिवारयति कण्डकैर्वृक्षः, परिवारयन्ते कण्टका वृक्षम्।। (1893 प्रतिषेधवार्तिकम्।। 17 ।।) - स्रवत्यादीनां प्रतिषेधः- (भाष्यम्) स्रवत्यादीनां प्रतिषेधो वक्तव्यः। स्रवति कुण्डिका उदकम् स्रवति कुण्डिकाया उदकम्। स्रवन्ति वलीकान्युदकम् स्रवति वलीकेभ्य उदकम्।। (आक्षेपभाष्यम्) स तर्हि प्रतिषेधो वक्तव्यः?। (समाधानभाष्यम्) न वक्तव्यः। तुल्यक्रिय इत्युच्यते। क्रियान्तरं चात्र गम्यते। इह तावत्स्रवति कुण्डिका उदकमिति विसृजतीति गम्यते। स्रवति कुण्डिकाया उदकमिति निष्क्रामतीति गम्यते।। स्रवन्ति वलीकान्युदकमिति विसृजन्तीति गम्यते। स्रवति वलीकेभ्य उदकमिति पततीति गम्यते।। (1894 यक्चिण्प्रतिषेधवार्तिकम्।। 18 ।।) - भूषाकर्मकिरादिसनां चान्यत्रात्मनेपदात्- (भाष्यम्) भूषाकर्मकिरादिसनन्ताच्च अन्यत्रात्मनेपदात् प्रतिषेधो वक्तव्यः। भूषयते कन्या स्वयमेव। अबुभूषत अन्या स्वयमेव। मण्डयते कन्या स्वयमेव। अममण्डत कन्या स्वयमेव।। किरादि ‐ - अवकिरते हस्ती स्वयमेव। अवाकीर्ष्ट हस्ती स्वयमेव। (गिरते ग्रासः स्वयमेव। अगीर्ष्ट ग्रासः स्वयमेव)। सन् ‐ - चिकीर्षते कटः स्वयमेव। अचिकीर्षिष्ट कटः स्वयमेव।। कर्मवद्।। 87 ।।