॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|86
SK 3434
3|1|86
लिङ्याशिष्यङ्   🔊
SK 3434
सूत्रच्छेद:
लिङि - सप्तम्येकवचनम् , आशिषि - सप्तम्येकवचनम् , अङ् - प्रथमैकवचनम्
अनुवृत्ति:
छन्दसि  [3|1|84] - सप्तम्येकवचनम् , कर्तरि  [3|1|68] - सप्तम्येकवचनम् , सार्वधातुके  [3|1|67] - सप्तम्येकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|22]
सम्पूर्णसूत्रम्
छन्दसि आशिषि लिङि धातो: पर: अङ् अपि कर्तरि सार्वधातुके
सूत्रार्थ:
वेदानाम् विषये - आशीर्लिङ्गलकारस्य सार्वधातुकेषु रूपेषु शप्-विकरणस्य अपवादरूपेण अङ्-प्रत्ययः अपि दृश्यते ।
वस्तुतः आशीर्लिङ्-लकारस्य आदेशभूताः तिङ्-प्रत्ययाः लिङाशिषि 3|4|116 इत्यनेन आर्धधातुकसंज्ञकाः सन्ति । परन्तु वेदानां विषये छन्दस्युभयथा 3|4|117 इत्यनेन ते सार्वधातुकाः अपि भवितुम् अर्हन्ति । अस्याम् अवस्थायाम् कर्तरि शप् 3|1|68 इत्यनेन शप्-विकरणे प्राप्ते वेदेषु तस्य अपवादरूपेण "अङ्"इति प्रत्ययः अपि आगच्छति । स्था, गा, गम्, वच्, विद्, शक्, रुह् - एतेषां षधातुनाम् विषये अयं प्रत्ययः प्रयुक्तः दृश्यते ।

यथा -
1. वृषभस्य रेतिनो गृहं गमेमाश्विना तदुश्मसि (ऋग्वेदः 10.40.11) - अत्र प्रयुक्तः "गमेम" शब्दः "गम् + अङ् + इम" अनेन प्रकारेण निर्मितः अस्ति ।
2. मन्त्रम् वोचेम आग्नये (ऋग्वेदः 10.74.1) - अत्र प्रयुक्तः "वोचेम" अयं शब्दः "वच् + अङ् + इम" अनेन प्रकारेण निर्मितः अस्ति ।

अत्र एकम् वार्त्तिकम् अस्ति - दृशेरग्वक्तव्यः । दृश्-धातोः वेदेषु आशीर्लिङ्लकारस्य सार्वधातुके प्रत्यये परे अक्-विकरणप्रत्ययः भवति इत्यर्थः । कित्वात् क्ङिति च 1|1|5 इति गुणनिषेधः विधीयते । यथा - "दृशेयं मातरं च" (ऋग्वेदः 1.24.1) - अत्र "दृशेयम्" एतत् रूपम् "दृश् + अक् + इयम्" इति निर्मितम् अस्ति ।
One-line meaning in English
In the context of वेदा: - The सार्वधातुक forms of आशीर्लिङ्गलकार can also use अङ् as गणविकरणप्रत्यय.
काशिकावृत्तिः
आशिषि विषये यो लिङ् तस्मिन् परतः छन्दसि विषये अङ् प्रत्ययो भवति। शपो ऽपवादः। छन्दस्युभयथा 3|4|117 इति लिङः सार्वधातुकसंज्ञाप्यस्ति। स्थागागमिवचिविदिशकिरुहयः प्रयोजनम्। स्था उपस्थेषं वृषभं तुग्रियाणाम्। गा सत्यम् उपगेषम्। गमि गृहं गमेम। वचि मन्त्रं वोचेमाग्नये। विदि विदेयमेनां मनसि प्रविष्टाम्। शकि व्रतं चरिष्यामि तच्छकेयम्। रुहि स्वर्गं लोकम् आरुहेयम्। दृशेरग् वक्तव्यः। पितरं दृशेयं मातरं च।
`शपोऽपवादः` इति। ननु चाशिषि यो लिङ विहितस्तस्य `लिङाशिषि` 3|4|116 इत्यार्थधातुकसंज्ञा, सार्वधातुके च शब्विहितः, तत्कथं शपोऽपवाद इत्याह-- `छन्दस्युभयथा` इत्यादि।स्थादिभ्य एवात्र दृश्यते,नान्येभ्य इत्यभिप्रायेणाह-- `स्थागागमि` इत्यादि। `उपस्थेयम्` इति।उपपूर्वात्तिष्ठतेराशिषि लिङ, मिप्, तस्य `तस्थस्` 3|4|101 इत्यादिनाऽमादेशः, यासुट्, उभयसंज्ञात्वेन सार्वधातुकत्वात् `लिङ सलोपोऽनन्त्यस्य` 7|2|79 इति सलोपः। क्वचित् `उपस्थेषम्` इति पाठः। तत्राद्र्धधातुकत्वात् सलोपाभावः, वलि यलोपः। `उपगेयम्` इति। `गै शब्दे` (धातुपाठः-917) `आदेच उपदेशेऽशिति` 6|1|44 इत्यात्त्वम्। शेषं पूर्ववत्। `गमेम` इति। गमेः परस्य लिङो मस्, `नित्यं ङितः` 3|4|99 इति सलोपः। यासुडादि सर्व पूर्ववत्। `वोचेयम्` इति। `वच भाषणे` (धातुपाठः-1842)। सिप्, तस्याम्, अङ, अङि परतः `वच उम्` 7|4|20 , `या` इत्यस्य इय्, उभयत्र `आद्गुणः` 6|1|84 । `विदेयम्` इति। `विद ज्ञाने` (धातुपाठः-1064)। `शकेयम्` इति। `शक्लृ शक्तौ` (धातुपाठः-1261)। `आरुहेयम्` इति। `रुह {बीजजन्मणि प्रादुर्भावे-- धातुपाठः-} जन्मनि (ध।पा।859) इयादेशादि सर्व पूर्ववत्।`दृशेरग्वक्तव्यः` इति। अङि हि सति `ऋदृशोऽङि गुणः` 7|4|16 इति गुणः स्यात्। तथा च दृशेयमिति न सिध्येत्। अकि तु सति कित्त्वाद्गुणाभावो भवति। तस्मादग्वक्तव्यः = व्याख्येयः। व्याख्यानं तु बहुलग्रहणानुवृत्तेर्वक्तव्यम्॥
लिङ्याशिष्यङ्॥ शषोऽपवाद इति। लिङशिषीत्यार्द्धिधातुकत्वात्कथमत्र शपःप्राप्तिरित्यत आह---च्छन्दस्युभयथेति। शब्ग्रहणं चोपलक्षणम्। शकेः श्नोरपवादः, स्थादिष्वेवायमङ् प्रायेण द्दश्यत इत्याह----स्थागागमीत्यादि। उपस्थेयमिति। उपपूर्वातिष्ठतेराशिषि लिङ्, मिपोम्भावः, यासुटस्सार्वधातुकत्वात् ठ्लिङ्ः स्सलोपोऽनन्त्यस्यऽ, अङ् ठातो लोपि इटि चऽ, ठतो येयःऽ,ठाद्गुणःऽ। एवमुपगेयमिति। गमेमेति। मस्। वोचेमेति। अङ्, ठ्वच उम्ऽ, यासुट्, इयादेशः,वलि लोपः। द्दशेरग्वक्तव्य इति। अङ् इहि सति ठृद्दशोऽङ्ऽ ईति गुणस्स्यात्॥
सिद्धान्तकौमुदी
आशीर्लिङि परे धातोरङ् स्याच्छन्दसि । वच उम्--(कौमुदी-2454) । मन्त्रं वोचेमाग्नये (मन्त्रं॑ वोचेमा॒ग्नये॑) ॥ ।दृशेरग्वक्तव्यः (वार्तिकम्) ॥ पितरं च दृशेयं मातरं च (पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च) । अङि तु ऋदृशोऽङि--(कौमुदी-2406) इति गुणः स्यात् ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
लिङ्याशिष्यङ् (703) (439 अङ्विधिसूत्रम्।। 3.1.4 आ. 18) (आक्षेपभाष्यम्) अयमाशिषि अङ्विधीयते। तस्य किं प्रयोजनम्?। (1874 प्रयोजनवार्तिकम्।। 1 ।।) - आशिष्यङः प्रयोजनं स्थागागमिवचिविदयः- (भाष्यम्) स्था ‐ - उपस्थेयं वृषभं तुग्रियाणाम् स्था।। गा ‐ - -अञ्जसा सत्यमुपगेयम्। गा।। गमि ‐ - -यज्ञेन प्रतिष्ठां गमेयम्। गमि।। वचि ‐ - मन्त्रं वोचे माग्नये। वचि।। विदि ‐ - विदेयमेनां मनसि प्रविष्टाम्। विदि।। (1875 अङि्वधानवार्तिकम्।। 2 ।।) - शकिरुह्योश्च- (भाष्यम्) शकिरुह्योश्चेति वक्तव्यम्। शकेम त्वा समिधं (साधया धियः)। अस्रवन्ती मारुहेमास्वस्तये। (1876 अग्विधिवार्तिकम्।। 3 ।।) - दृशेरक् पितरं च दृशेयं मातरं च दृशेयम्- (भाष्यम्) दृशेरग्वक्तव्यः। पितरं च दृशेयं मातरं च दृशेयमित्येवमर्थम्।। (आडागमविध्याक्षेपभाष्यम्) इह उपश्थेयामेत्यत्र आडपि वक्तव्यः। न ह्यङैव सिध्यति।। (समाधानभाष्यम्) न वक्तव्यः। सार्वधातुकत्वात् सलोपः, आर्धधाकत्वादेत्वम्। तत्रोभयलिङ्गत्वात् सिद्धम्।। लिङ्याशिष्यङ्।। 86 ।। इति श्रीमद्भगवत्पतञ्जलीविरचिते व्याकरणमहाभाष्ये तृतीयाध्यायस्य प्रथमे पादे चतुर्थमाह्निकम्।।