॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|80
SK 2332
3|1|80
धिन्विकृण्व्योर च   🔊
SK 2332
सूत्रच्छेद:
धिन्वि-कृण्व्योः - षष्ठीद्विवचनम् , अ (लुप्तप्रथमान्तनिर्देश:) च - अव्ययम्
अनुवृत्ति:
उः  [3|1|80] - प्रथमैकवचनम् , कर्त्तरि  [3|1|68] - सप्तम्येकवचनम् , सार्वधातुके  [3|1|67] - सप्तम्येकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|22]
सम्पूर्णसूत्रम्
कर्त्तरि सार्वधातुके धिन्वि-कृण्व्यो: उ: अ: च
सूत्रार्थ:
कर्तरि सार्वधातुके प्रत्यये परे धिन्व्-धातोः कृण्व्-धातोः उ-प्रत्ययः भवति, अङ्गस्य च अकारादेशः भवति ।
धिविँ (प्रीणने) तथा कृविँ (गतौ / हिंसाकरणयोः ) एतौ धातू मूलरूपेण भ्वादिगणस्य धातू स्तः । अतः कर्तरि शप् 3|4|68 इत्यनेन एताभ्याम् कर्तरि सार्वधातुके प्रत्यये शप्-प्रत्यये प्राप्ते वर्तमानसूत्रेण अपवादत्वेन "उ"प्रत्ययः भवति । तथा च, अस्मिन् प्रत्यये परे एतयोः धात्वोः अन्तिमवर्णस्य अकारादेशः अपि विधीयते । यथा -

धिविँ
→ धिन्व् [इदितो नुम्-धातोः 7|1|58 इति नुमागमः]
→ धिन्व् + लट् [वर्तमाने लट् 3|2|123 इति लट्-लकारः]
→ धिन्व् + तिप् [तिप्तस्झि.. 3|4|78 इत्यनेन प्रथमपुरुषैकवचनस्य विवक्षायाम् "तिप्" प्रत्ययः]
→ धिन् अ + उ + ति [धिन्विकृण्व्योर च 3|1|80 इत्यनेन विकरणप्रत्ययः "उ" । तथा अङ्गस्य अकारादेशः ।]
→ धिन् उ ति [अतो लोपः 6|4|48 इत्यनेन आर्द्धधातुके प्रत्यये परे अदन्तस्य अङ्गस्य अकारस्य लोपः ।]
→ धिनोति [सार्वधातुकार्द्धधातुकयोः 7|3|84 इति गुणः]

तथैव "कृणोति" एतत् रूपम् अपि सिद्ध्यति ।
One-line meaning in English
In presence of a सार्वधातुक प्रत्यय in the कर्तरि प्रयोग, the verbs धिन्व्, कृण्व् gets the "उ" विकरणप्रत्यय.
काशिकावृत्तिः
हिवि, धिवि जिवि प्रीणनार्थाः, कृवि हिंसाकरणयोः, इत्येतयोः धात्वोः उप्रत्ययो भवति, अकारश्च अन्तादेशः। धिनोति। कृणोति। अतो लोपस्य स्थानिवद्भावात् गुणो न भवति।
भ्वादित्वाच्छपि प्राप्ते वचनम्। `अकारादेशो भवति` इति। अलोऽन्त्यस्य 1|1|51 परिभाषया। `धिनोति` इति। `अतो लोपः` 6|4|48 । अथ लघूपधगुणोऽत्र कस्मान्न भवतीत्याह-- `अल्लोपस्य` इत्यादि। `अचः परस्मिन् पूर्वविधौ` 1|1|56 इत्यल्लोपस्य स्थानिवद्भावनादनुपधत्वादिकारस्य गुणो न भवति। लाघवारथं `धिविकृव्योः` इति वक्तव्ये नुमनुषक्तयोग्र्रहणं कृतमुपदेशावस्थायामेव नुम्भवतीति ज्ञापनार्थम्। तेन नुम्विधावुपदेशिवद्वचनमिष्टस्वरसिद्ध्यर्थमिति न वक्तव्यं भवति॥
धिन्विकृण्व्योर च॥ अतो लोपस्य स्थानिवद्भावाद् गुणो न भवतीति। तेन प्रक्रियालाघवाय धिन्विण्व्योर्लोप एव नोक्त इति भावः। लोपे हि गुणस्स्यात्। न चच ठ्न धातुलोप आर्द्धधातुकेऽ इति निषेधः, प्रत्ययसन्नियोगशिष्टत्वेन लोपस्यानार्द्धधातुकनिमितत्वात्। ननु नुमनुषक्तयोर्ग्रहणं किमर्थम्? नुमि कृतेऽत्वं यथा स्याद्, ठ्धिविकृव्योःऽ इत्युच्यमानेऽत्वे कृतेऽत एव परो नुम् प्रसज्येत; अत्वं ह्यन्तरङ्गं प्रत्ययसन्नियोगेन विधानात्; नुमागमस्तु बहिरङ्गः, उत्पन्ने प्रत्ययेऽङ्गस्य सतो विधानात्। ननु चास्त्वङ्गस्य नुम्, लावस्थायामेव भविष्यति; तिबादीनामन्तरङ्गत्वात्। तिबादिष्वेव तर्हि भविष्यति, न; नित्येनात्वेन बाधनात्। नुमागमस्तु शब्दान्तरप्राप्तेरनित्यः। अन्तरङ्गस्तर्हि नुमागमस्तद्विधौ धातुग्रहणात्? तद्धि धातुसंज्ञाप्रवृत्तिकाल एव नुम् यथा स्यादित्येवमर्थम्; अन्यस्योदितोऽसम्भवात्। कथमसम्भवः? यदिदानीमेवोक्तम्----तासेरिदित्करणमनुनासिकलोपप्रतिषेधार्थमिति। नन्वत्रापि पक्षे ठ्नुम्विधावुपदेशिवद्ववचनं प्रत्ययसिद्ध्यर्थम्ऽ इति वचनादुपदेश एव नुम् भविष्यति ? एवं तर्ह्यन्तरङ्गत्वादेव प्राप्तस्य नुमोऽयं निर्द्देशः॥
सिद्धान्तकौमुदी
अनयोरकारोऽन्तादेशः स्यादुप्रत्ययश्च शब्विषये । अतो लोपः (कौमुदी-2308) । तस्य स्थानिवद्भावाल्लघूपधगुणो न । उप्रत्ययस्य पित्सु गुणः । धिनोति । धिनुतः । धिन्वति ॥
धिन्विकृण्व्योर च - धिन्विकृण्व्योः । "अ" इति लुप्तप्रथमाकम् । धिविकृव्योः कृतनुमोर्धिन्विकृण्वीत निर्देशः । "तनादिकृञ्भ्यः उः" इत्यत उरिति चकारादनुकृष्यते ।कर्तरि श॑बित्यतः कर्तरीति,सार्वधातुके य॑गित्यतः सार्वधातुक इति च । तदाह — अनयोरित्यादिना । वकारस्याऽकारः । दिन् अ उ ति इति स्थितम् । अतो लोप इति । युगपत्संनियोगशिष्टतया उप्रत्ययाऽकारयोर्विधानेऽपि श्रुतक्रमानुरोधेन प्रवृत्त्या आद्र्धधातुकोपदेशेकाले "धिन" इत्यस्याऽदन्तत्वमिति भावः । नन्वत्र वकारस्य लोप एव विधीयतां किमकारविधिनेत्यत आह — तस्येति । वकारस्य लोपाविधौ तु अजादेशत्वाऽभावात्स्थानिकवत्त्वं न स्यादिति भावः । तथा च धिनु ति इति स्थिते आह — उप्रत्ययस्येति । धिनुत इति । धिविधातोरनुमि तसि उप्रत्यये वकारस्य अकारादेशे अतो लोपः । तसो ङित्त्वादुकारस्य न गुणः । धिन्वन्तीति । धिन्व् इत्यस्माज्झिः । झोऽन्तः । उप्रत्ययः । वकारस्य अकारः । अतो लोपः । उकारस्य यणिति भावः । अत् वकारस्य स्थानिवत्त्वेन आद्र्धधातुकत्वेऽपि नेट् । उकारवृत्त्याद्र्धधातुकत्वस्य अल्धर्मत्वेन अनल्विधाविति निषेधात् । तदिदं "भोभगो" इति सूत्रभाष्ये स्पष्टम् । धिनोषि धिनुथः धिनुथ । धिनोमि ।
धिन्विकृण्व्योर च - धिन्विकृष्व्योर च ।अलोऽन्त्यस्ये॑ति वकारस्याऽकारादेशः । चकारेण तु उप्रत्ययोऽनुकृष्यते । बोपदेवेन त्वनयोस्तनादित्वं स्वीकृतम् । तन्मते तु चकारं विनाप्युप्रत्ययलाभः । अतो लोप इति । यद्यप्युपदेशेऽदन्तत्वं नास्ति तथाप्याद्र्धधातुकोपदेशे तदस्त्येव ।धिन्विकृण्व्योर चे॑ति श्रुतत्वादकारादेशे कृते चानुकृष्टस्य पश्चाज्जायमानत्वादिति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
धिन्विकृण्व्योरच (697) (426 उविकरणविधिसूत्रम्।। 3.1.4 आ. 14) (अत्वविधिप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) क्वायमकारः श्रूयते?। (उत्तरभाष्यम्) न क्वचिच्छ्रूयते। लोपोस्य भविष्यतिउअतो लोप आर्धधातुके इति।। (आक्षेपभाष्यम्) यदि न क्वचिछ्रूयते किमर्थमयमुच्यते। न लोपः इत्येवोच्येत।। (आक्षेपबाधकभाष्यम्) नैवं शक्यम्। लोपे सति गुणः प्रसज्येत। अत्वे पुनः सति अकारलोपस्य स्थानिवद्भावाद् गुणो न भविष्यति।। (आक्षेपसाधकभाष्यम्) ननु च लोपेऽपि सति न धातुलोप आर्धधातुके इति प्रतिषेधो भविष्यति।। (आक्षेपबाधकभाष्यम्) आर्धधातुकनिमित्ते लोपे स प्रतिषेधः। न चैष आर्धधातुकनिमित्तो लोपः।। अपि च प्रत्याख्यायते खल्वपि स योगः। तस्मिन्प्रत्याख्याते गुणः स्यादेव। तस्मादत्वं वक्तव्यम्। (नकारोच्चारणप्रत्याख्यानाधिकरणम्) (आक्षेपभाष्यम्) अथ किमर्थं नुमनुषक्तयोर्धिन्विकृण्व्योर्ग्रहणं क्रियते, न धिविकृव्योः इत्येवोच्येत।। (आक्षेपबाधकभाष्यम्) धिविकृव्योः इतीयत्युच्यमाने अत्वे कृते अनिष्टे देशे नुम् प्रसज्येत।। (आक्षेपसाधकभाष्यम्) इदमिह संप्रधार्यम् ‐ - नुम् क्रियताम्, अत्वमिति। किमत्र कर्तव्यम्?। परत्वान्नुमागमः।। (आक्षेपबाधकभाष्यम्) अन्तरङ्गमत्वम्। कान्तरङ्गता?। प्रत्ययोत्पत्तिसंनियोगेनात्वमुच्यते। उत्पन्ने प्रत्यये प्रकृतिप्रत्ययावाश्रित्याङ्गस्य नुमागमः।। (आक्षेपसाधकभाष्यम्) नुमप्यन्तरङ्गः। कथम्?। वक्ष्यत्येतत् नुम्विधावुपदेशिवद्वचनं प्रत्ययविध्यर्थम् इति। उभयोरन्तरङ्गयोः परत्वान्नुमागमः। तस्माद् धिविकृव्योरिति वक्तव्यम्।। धिन्विकृण्व्योः।। 80 ।।