॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|79
SK 2466
3|1|79
तनादिकृञ्भ्य उः   🔊
SK 2466
सूत्रच्छेद:
तनादि-कृञ्-भ्य: - पञ्चमीबहुवचनम् , उः - प्रथमैकवचनम्
अनुवृत्ति:
कर्त्तरि  [3|1|68] - सप्तम्येकवचनम् , सार्वधातुके  [3|1|67] - सप्तम्येकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|22]
सम्पूर्णसूत्रम्
कर्त्तरि सार्वधातुके तनादिकृञ्भ्य: धातो: पर: उ-प्रत्यय:
सूत्रार्थ:
सार्वधातुके कर्तरि प्रत्यये परे तनादिगणस्य धातोः परः उ-प्रत्ययः विधीयते ।
किम् नाम सार्वधातुकप्रत्ययः? तिङ्शित्सार्वधातुकम् 3|4|113 इत्यनेन तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति ।
किम् नाम कर्तरिप्रयोगः? लः कर्मणि च भावे च अकर्मकेभ्यः 3|4|69 अनेन सूत्रेण लकारः कर्तारम्, कर्म, तथा भावं निदर्शयितुम् शक्नोति । यत्र लकारः कर्तारम् निदर्शयति, सः कर्तरिप्रयोगः ।

कर्तरि प्रयोगे सार्वधातुके प्रत्यये परे तनादिगणस्य धातुभ्यः "उ" इति गणविकरणम् प्रत्ययरूपेण आगच्छति । यथा -

1) तनादिगणस्य प्रथमः धातुः तनुँ (विस्तारे) । अस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -
तन् + लट् [वर्तमाने लट् 3|2|123 इति लट्-लकारः]
→ तन् + तिप् [तिप्तस्झि... 3|4|78 इत्यनेन प्रथमपुरुषैकवचनस्य विवक्षायाम् "तिप्" प्रत्ययः]
→ तन् उ ति [सार्वधातुके प्रत्यये परे तनादिकृञ्भ्यः उः 3|1|79 इति विकरणप्रत्ययः "उ" ]
→ त नो ति [सार्वधातुकार्धधातुकयोः 7|3|84 इति गुणः]

2) डुकृञ् (करणे) -अयम् तनादिगणस्य धातुः । अस्मात् शतृ-प्रत्यये परे प्रक्रिया इयम् -
कृ + शतृ [लटः शतृशानचौ अप्रथमासमानाधिकरणे 3|2|124 इत्यनेन शतृ-प्रत्ययः ।]
→ कृ + उ + अत् [सार्वधातुके प्रत्यये परे तनादिकृञ्भ्यः उः 3|1|79 इति विकरणप्रत्ययः "उ" ]
→ कर् + उ + अत् [सार्वधातुकार्धधातुकयोः 7|3|84 इति गुणः]
→ कुर् उ अत् [अत उत् सार्वधातुके 6|4|100 इति अकारस्य उकारः]
→ कुर्वत् [इको यणचि इत्यनेन यणादेशः]

"उ" गणविकरणस्य भिन्नेषु प्रत्ययेषु परेषु किञ्चित् परिवर्तनम् अपि भवति । यथा -

1. पित्-प्रत्ययेषु परेषु सार्वधातुकार्धधातुकयोः 7|3|84 इति उकारस्य गुणादेशः ओकारः जायते । यथा - तन् + उ + ति → तनोति । तन् + उ + आनि → तन् + ओ + आनि = तनवानि ।
2. वकारादि-प्रत्यये परे मकारादि प्रत्यये परे च उ-इत्यस्य उकारस्य लोपश्चास्यान्यतरस्याम् म्वोः 6|4|107 इत्यनेन वैकल्पिकः लोपः भवति । यथा - तन् + उ + वः → तन्वः, तनुवः ।

ज्ञातव्यम् - कर्तरि शप् 3|1|68 इत्यनेन सार्वधातुके कर्तरि प्रत्यये परे धातोः परः औत्सर्गिकरूपेण शप्-प्रत्ययः विधीयते । तनादिगणस्य धातुभ्यः अस्य अपवादरूपेण उ-प्रत्ययः भवति ।

विशेषः - यद्यपि कृ-धातुः तनादिगणे एव अस्ति, तथापि अस्मिन् सूत्रे कृ-धातोः विशेषरूपेण ग्रहणम् कृतम् अस्ति । महाभाष्ये अस्मिन् विषये भाष्यकारः वदति - "तनादित्वात् कृञः सिद्धम्" - इत्युक्ते - "तनादि"ग्रहणेन कृ-ग्रहणम् भवत्येव, अस्य पुनः आवश्यकता नास्ति - इति ।परन्तु सिद्धान्तकौमुद्याम् दीक्षितः "गणकार्यस्य अनित्यत्वम् कृ-धातोः विषये मा भूत्" एतत् स्पष्टीकर्तुम् अत्र कृ-ग्रहणम् कृतम् अस्ति - इति वदति । अस्मिन् विषये अत्र विस्तारेण उक्तम् अस्ति, तत् दृश्यताम् ।
One-line meaning in English
A verb belonging to the तनादिगण gets the विकरणप्रत्यय "उ" in presence of a सार्वधातुक प्रत्यय in कर्तरि प्रयोग.
काशिकावृत्तिः
तनु विस्तारे इत्येवम् आदिभ्यो धातुभ्यः कृञश्च उप्रत्ययो भवति। शपो ऽपवादः। तनोति। सनोति। क्षणोति। कृञः खल्वपि करोति। तनादिपाठादेव उप्रत्यये सिद्धे करोतेरुपादानं नियमार्थम्, अन्यत् तनादिकार्यं मा भूतिति। तनादिभ्यस् तथासोः 2|4|79। इति विभाषा सिचो लुग् न भवति। अकृत। अकृथाः।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
तनादिकृञ्भ्य उः॥ तनीतीत्यादि। ठ्तनु विस्तारेऽ,ठ्षणु दानेऽ,ठ्क्षणु हिसायाम्ऽ। अन्यतनादिकार्यमिति। तनादिकार्यापेक्षो नियम इत्यर्थः। व्यावर्त्यदर्शयति---तनादिभ्यस्तथासोरिति विभाषा सिचो लुग् न भवतीति। नन्वस्तु लुग्विकल्पः, तदभावे ठ्ह्रस्वादङ्गात्ऽ इति लोपो भविष्यति, न च विकल्पेन बाधः, विकल्पं प्रति नित्यस्यासिद्धत्वात्; न च तनादिपाठसमार्थ्यादपदावो वचनप्रामाण्यादिति न्यायेनासिद्धत्वबाधाद्विकल्पेन नित्यस्य वाधः,तनादिपाठस्य विकरणविधौ चरितार्थत्वात्; विकल्पोऽप्यततः अतथा इत्यादौ चरितार्थः; प्रत्युत क्रियमाणे कृञ्ग्रहणे तनादिषु कृञः पाठस्यानन्यार्थत्वाद्येननाप्राप्तिन्यायेन विकल्पो नित्यविधिं बाधेत? इदं हि कृञ्ग्रहणविधौ तनादिषु पाठश्चरितार्थो मा विज्ञायीत्येवमर्थमेव स्यादिति कृञ्ग्रहणप्रत्याख्यानमेव न्याय्यं मन्यामहे॥
सिद्धान्तकौमुदी
तनादेः कृञश्च उप्रत्ययः स्यात् । शपोऽपवादः । तनादित्वादेवसिद्धे कृञ्ग्रहणं गणकार्यस्यानित्यत्वे लिङ्गम् । तेन न विश्वसेदविश्वस्तमित्यादि सिद्धम् । विदांकरोतु ॥
तनादिकृञ्भ्य उः - तनादिकृञ्भ्यः उः । शपोऽपवाद इति । अनेन शब्विषय एवास्य प्रवृत्तिरिति सूचितम् ।सार्वधातुके य॑गित्यतः सारवधातुकग्रहणस्यकर्तरि श॑बित्यतः कर्तरीत्यस्य चानुवृत्तेरिति भावः । तेनेति । गणकार्यस्याऽनित्यतया "आसे" दित्यत्र अदादिगणकार्यं शपो लुङ्न भवतीत्यर्थः । वस्तुतस्तु कृञ्ग्रहणस्यात्र भाष्ये प्रत्याख्यातत्वादुक्तज्ञापनाऽभावाद्विआसेदित्यसंबद्धमेवेत्याहुः ।विआस्त॑मित्यत्र तुआगमशास्त्रस्याऽनित्यत्वान्नेडित्याहुः । विदांकरोत्विति । अत्र विदेर्लोटि आमि लोटोलुकिआमन्ताद्विदेः कृञो लोडन्तस्यानुप्रयोगः ।तत्र लोटस्तिपि "एरु" रित्युत्वे शपं बाधित्वा उप्रत्यये ऋकारस्य गुणे रपरत्वे उकारस्य तिब्निमित्तो गुणः । तातङि तु ऋकारस्य गुणे रपरे तातङो ङित्त्वादुकारस्य गुणाऽभावे विदाङ्करुतादिति स्थिते —
तनादिकृञ्भ्य उः - तेनेतिविआसे॑दित्यत्र शपो लुगभावः सिद्ध इति भावः । एवमप्यविआस्तमित्यत्रेडभावः कथमिति चेदागमशास्त्रस्याऽनित्यत्वादिति गृहाण ।
लघुसिद्धान्तकौमुदी
तनादेः कृञश्च उः प्रत्ययः स्यात्। शपोऽपवादः। गुणौ। विदाङ्करोतु॥
महाभाष्यम्
तनादिकृञ्ञ्भ्य उः (696) (425 तनादिगणे उविकरणविधिसूत्रम्।। 3.1.4 आ. 13) (कृञ्ञ्ग्रहणप्रत्याख्यानाधिकरणम्) (आक्षेपभाष्यम्) किमर्थं करोतेः पृथग्ग्रहणं क्रियते, न तनादिभ्य इत्येवोच्येत?। (समाधानभाष्यम्) अन्यानि तनोत्यादिकार्याणि मा भूवन्निति। कानि?। अनुनासिकलोपादीनि। (समाधानबाधकभाष्यम्) दैवरक्ताः किंशुकाः। अनुनासिकाभावादेवानुनासिकलोपो न भविष्यति।। (प्रयोजनान्तरभाष्यम्) इदं तर्हि तनादिकार्यं मा भूत् तनादिभ्यस्तथासोः इति।। (प्रयोजनान्तरनिरासभाष्यम्) ननु च भवत्येवात्र हस्वादङ्गादि ति।। (प्रयोजनान्तरसाधकभाष्यम्) तेनैव यथा स्याद्, अनेन मा भूदिति।। (प्रयोजनान्तरबाधकभाष्यम्) कः पुनरत्र विशेषः ‐ - -तेन वा सति, अनेन वा?। (प्रयोजनान्तरसाधकभाष्यम्) तेन सति सिज्लोपस्यासिद्धत्वाच्चिण्वद्भावः सिद्धो भवति। अनेन पुनः सति चिण्वद्भवावो न स्यात्।। (प्रयोजनान्तरबाधकभाष्यम्) अनेनापि सति सिद्धश्चिण्वद्भावः। कथम्?। विभाषा लुक्। यदा न लुक्, सिज्लोपः। तत्र सिज्लोपस्यासिद्धत्वाच्चिण्वद्भावो वा भविष्यति।। तनादित्वात्कृञ्ञः सिद्धं, सिज्लोपे च न दुष्यति। चिण्वद्भावे न दोषः स्यात्, सोपि प्रोक्तो विभाषया।। तनादिकृञ्ञ्भ्यः।। 79 ।।