॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|77
SK 2534
3|1|77
तुदादिभ्यः शः   🔊
SK 2534
सूत्रच्छेद:
तुदादिभ्यः - पञ्चमीबहुवचनम् , शः - प्रथमैकवचनम्
अनुवृत्ति:
कर्त्तरि  [3|1|68] - सप्तम्येकवचनम् , सार्वधातुके  [3|1|67] - सप्तम्येकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|22]
सम्पूर्णसूत्रम्
कर्त्तरि सार्वधातुके तुदादिभ्य: धातो: पर: श-प्रत्यय:
सूत्रार्थ:
सार्वधातुके कर्तरि प्रत्यये परे तुदादिगणस्य धातोः परः श-प्रत्ययः विधीयते ।
किम् नाम सार्वधातुकप्रत्ययः? तिङ्शित्सार्वधातुकम् 3|4|113 इत्यनेन तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति ।
किम् नाम कर्तरिप्रयोगः? लः कर्मणि च भावे च अकर्मकेभ्यः 3|4|69 अनेन सूत्रेण लकारः कर्तारम्, कर्म, तथा भावं निदर्शयितुम् शक्नोति । यत्र लकारः कर्तारम् निदर्शयति, सः कर्तरिप्रयोगः ।

कर्तरि प्रयोगे सार्वधातुके प्रत्यये परे तुदादिगणस्य धातोः परः "श" इति गणविकरणम् प्रत्ययरूपेण आगच्छति । अस्मिन् विकरणे शकारस्य लशक्वतद्धिते 1|3|8 इत्यनेन इत्संज्ञा भवति, अग्रे तस्य लोपः 1|3|9 इत्यनेन तस्य लोपः भवति । अतः केवलम् "अ" इति अवशिष्यते । उदाहरणद्वयम् -

1. तुदँ (व्यथने) - इति तुदादिगणस्य प्रथमः धातुः । अस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एतादृशम् सिदध्यति -
तुद् + लट् [वर्तमाने लट् 3|2|123 इति लट्-लकारः]
→ तुद् + तिप् [तिप्तस्झि... 3|4|78 इत्यनेन प्रथमपुरुषैकवचनस्य विवक्षायाम् "तिप्" प्रत्ययः]
→ तुद् + श + ति [सार्वधातुके प्रत्यये परे तुदादिभ्यः शः 3|1|77 इति विकरणप्रत्ययः "श" ]
→ तुद् अ ति [इत्संज्ञालोपः]
→ तुदति

अत्र प्रक्रियायाम् "तुद् + तिप्" इत्यत्र वस्तुतः परत्वात् पुगन्तलघूपधस्य च 7|3|86 इत्यनेन उकारस्य गुणादेशः भवितुम् अर्हति, परन्तु तं बाधित्वा नित्यत्वात् तुदादिभ्यः शः 3|1|77 इत्यनेन विकरणप्रत्ययः "श" एव विधीयते इति स्मर्तव्यम् । अतएव पदमञ्जर्याम् उच्यते - "तुदति इति स्थिते परत्वात् प्राप्तमपि गुणम् गुणं नित्यः शः बाधते" ।

2. लिखँ (अक्षरविन्यासे) - इति तुदादिगणस्य धातिः । तस्य "शतृ" इति सार्वधातुके प्रत्यये परे -
लिख् + शतृ [लटः शतृशानचौ अप्रथमासमानाधिकरणे 3|2|124 इत्यनेन शतृ-प्रत्ययः]
→ लिख् + श + शतृ [सार्वधातुके प्रत्यये परे तुदादिभ्यः शः 3|1|77 इति विकरणप्रत्ययः "श" ]
→ लिख् + अ + अत् [इत्संज्ञालोपः]
→ लिखत् [अतो गुणे 6|1|97 इति गुण-एकादेशः अकारः]

ज्ञातव्यम् - कर्तरि शप् 3|1|68 इत्यनेन सार्वधातुके कर्तरि प्रत्यये परे धातोः परः औत्सर्गिकरूपेण शप्-प्रत्ययः विधीयते । तुदादिगणस्य धातुभ्यः तस्य अपवादरूपेण श-प्रत्ययः भवति ।


विशेषः -
भ्वादिगणस्य विकरणप्रत्ययस्य दृश्यस्वरूपम् अपि "अ" एव । तर्हि तुदादिगणस्य भ्वादिगणस्य च विकरणप्रत्ययोर्मध्ये को भेदः? भ्वादिगणस्य विकरणप्रत्ययः "शप्" इति पित् अस्ति , तथा तुदादिगणस्य विकरणप्रत्ययः "श" इति अपित् अस्ति । अपित्-त्वात् सार्वधातुकमपित् 1|2|4 इत्यनेन अयं प्रत्ययः ङित्वत् भवति । ङित्वत्-भावस्य प्रामुख्येन त्रीणि कार्याणि सन्ति यानि तुदादिगणस्य धातुषु दृश्यन्ते । तानि एतादृशानि -

1. गुणवृद्धीनिषेधः - ङित्-प्रत्यये परे क्ङिति च 1|1|5 इत्यनेन अङ्गस्य गुणः वृद्धिः वा निषिध्यते । अतः "लिख् + श + ति" इत्यत्र पुगन्तलघूपधस्य च इत्यनेन गुणः भवितुम् न अर्हति ।

2. सम्प्रसारणम् - ङित् प्रत्यये परे तुदादिगणस्य केषुचन धातुषु सम्प्रसारणम् भवति । यथा - "प्रच्छ् + श + ति" इत्यत्र पकारात् परस्य रेफस्य सम्प्रसारणे ऋकारादेशः भवति, अतः "पृच्छति" इति रूपं सिद्ध्यति ।

3. अनिदित्-धातुषु उपधा-नकारलोपः - ङित्-प्रत्यये परे अनिदित्-धातुषु अनिदितां हलः उपधायाः क्ङिति 6|4|24 इत्यनेन उपधानकारस्य लोपः भवति । यथा - "तृन्फँ तृप्तौ" अयं धातुः अनिदित् अस्ति (अस्मिन् धातौ नकारः औपदेशिक-अवस्थायाम् एव अस्ति) । अतः श-प्रत्यये परे अस्य धातोः नकारलोपः भवति । सम्पूर्णा प्रक्रिया इयम् -
तृन्फ् + लट् [वर्तमाने लट् 3|2|123 इति लट्-लकारः]
→ तृन्फ् + तिप् [तिप्तस्झि... 3|4|78 इत्यनेन प्रथमपुरुषैकवचनस्य विवक्षायाम् "तिप्" प्रत्ययः]
→ तृन्फ् + श + ति [सार्वधातुके प्रत्यये परे तुदादिभ्यः शः 3|1|77 इति विकरणप्रत्ययः "श" ]
→ तृफ् + अ + ति [अनिदितां हलः उपधायाः क्ङिति 6|4|24 इत्यनेन उपधानकारस्य लोपः]
→ तृन् फ् + अ + ति [शे मुचादीनाम् 7|1|59 इत्यनेन नुमागमः ]
→ तृंफति [नश्चापदान्तस्य झलि 8|3|24 इति अनुस्वारः]
→ तृम्फति [अनुस्वारस्य ययि परसवर्णः 8|4|58 इति परसवर्णः मकारः]

भ्वादिगण-तुदादिगणयोः विकरणयोर्मध्ये अन्यः अपि एकः विशेषः अस्ति । भ्वादिगणस्य विकरणप्रत्ययः "शप्" इत्यस्य अकारः अनुदात्तौ सुप्पितौ 3|1|4 इत्यनेन अनुदात्तसंज्ञकः अस्ति, तथा तुदादिगणस्य विकरणप्रत्ययः "श" इत्यस्य अकारः आद्युदात्तश्च 3|1|3 इत्यनेन उदात्तसंज्ञकः अस्ति ।
One-line meaning in English
A verb belonging to the तुदादिगण gets the विकरणप्रत्यय "श" in presence of a सार्वधातुक प्रत्यय in कर्तरि प्रयोग.
काशिकावृत्तिः
तुद व्यथने इत्येवम् आदिभ्यो धातुभ्यः शप्रत्ययो भवति। शपो ऽपवादः। शकारः सार्वधातुकसंज्ञार्थः। तुदति। नुदति।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
तुदादिभ्यः शः॥ तुदतीति। तुदति इति स्थिते परत्वात्प्राप्तमपि गुणं नित्यः शो बाधते॥
सिद्धान्तकौमुदी
॥ अथ तिङन्ततुदादिप्रकरणम्‌ ॥ । 1282 तुद व्यथने ॥ इतः षट् स्वरितेतः ॥

तुदति । तुदते । तुतोद । तुतोदिथ । तुतुदे । तोत्ता । अतौत्सीत् । अतुत्त । 1283 णुद प्रेरणे । नुदति । नुदते । नुनोद । नुनुदे । नोत्ता । 1284 दिश अतिसर्जने । अतिसर्जनं दानम् । देष्टा । दिक्षीष्ट । अदिक्षत् । अदिक्षत । 1285 भ्रस्ज पाके । ग्रहिज्या--(कौमुदी-2412) इति संप्रसारणम् । सस्य श्चुत्वेन शः । शस्य जश्त्वेन जः । भृज्जति । भृज्जते ॥
तुदादिभ्यः शः - तुदादिभ्यः शः । कत्र्रर्थे सार्वधातुके परे तुदादिभ्यः शः स्यात्स्वार्थे इत्यर्थः । शबपवादः । तुदतीति । लघूपधगुणं बाधित्वा नित्यत्वात् शे कृते तस्य अपित्त्वात् "सार्वधातुकमपि" दिति ङित्त्वान् गुण इति भावः । अजन्ताऽकारवत्त्वाऽभावात्क्रादिनियमाल्लिटिथल्यपि नित्यमिट् ।तदाह — तुतोदिथेति । तोत्तेति । अनिडिति भावः । अतौत्सीदिति । हलन्तलक्षणा वृद्धिः । णुदधातुर्णोपदेशः । अनिट् ।दिशधातुरप्यनिट् । देष्टेति । व्रश्चेति षत्वे ष्टुत्वम् । स्ये तुषढो॑रिति षस्य कत्वं च — देक्ष्यति । दिक्षीष्टेति । "लिङ्सिचौ" इति कित्त्वान्न गुणः । "शल इगुपधा" दिति क्सं मत्वाह — अदिक्षत् । अदिक्षतेति । भ्रस्ज पाके । अनिट् । भ्रस्ज अ ति इति स्थिते आह — ग्रहिज्येति । ङित्त्वाद्रेफस्य संप्रसारममृकारः, पूर्वरूपं चेति भावः । भृस्ज् अ ति इति स्थिते आह — सस्येत्यादि । णलि भ्रस्ज् अ इति स्थिते —
तुदादिभ्यः शः - तुदतीति । परमपि लघूपधगुणं बाधित्वा नित्यत्वाच्छ इत्येके । अकृतव्यूहपरिभाषया गुणो न प्रवर्तते इत्यन्ये । भ्रस्ज पाके । भर्जनरुपः पाकोऽत्र धात्वर्थो न त्वोदनादेः पाकः, तत्र प्रयोगाऽभावादित्याहुः ।भ्रस्जो॑ इति केषांचित्पाठे तुओदितश्चे॑ति निष्ठानत्वप्रसक्त्या भृष्टः भृष्टवानिति न सिध्येत् ।
लघुसिद्धान्तकौमुदी
शपोऽपवादः। तुदति, तुदते। तुतोद। तुतोदिथ। तुतुदे। तोत्ता। अतौत्सीत्, अतुत॥ णुद प्रेरणे॥ 2॥ नुदति, नुदते। नुनोद। नोत्ता। भ्रस्ज पाके॥ 3॥ ग्रहिज्येति सम्प्रसारणम्। सस्य श्चुत्वेन शः। शस्य जश्त्वेन जः। भृज्जति, भृज्जते॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!