॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|68
SK 2167
3|1|68
कर्तरि शप्‌   🔊
SK 2167
सूत्रच्छेद:
कर्तरि - सप्तम्येकवचनम् , शप् - प्रथमैकवचनम्
अनुवृत्ति:
सार्वधातुके  [3|1|67] - सप्तम्येकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|22]
सम्पूर्णसूत्रम्
सार्वधातुके कर्तरि धातो: शप्
सूत्रार्थ:
सार्वधातुके कर्तरि प्रत्यये परे धातोः परः शप्-प्रत्ययः विधीयते ।
किम् नाम सार्वधातुकप्रत्ययः? तिङ्शित्सार्वधातुकम् 3|4|113 - तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति ।
किम् नाम कर्तरिप्रयोगः? लः कर्मणि च भावे च अकर्मकेभ्यः 3|4|69 अनेन सूत्रेण लकारः कर्तारम्, कर्म, तथा भावं निदर्शयितुम् शक्नोति । यत्र लकारः कर्तारम् निदर्शयति, सः कर्तरिप्रयोगः ।

कर्तरि प्रयोगे सार्वधातुके प्रत्यये परे धातोः परः औत्सर्गिकरूपेण "शप्" इति गणविकरणम् प्रत्ययरूपेण आगच्छति । अस्मिन् विकरणे पकारस्य हलन्त्यम् 1|3|3 तथा शकारस्य लशक्वतद्धिते 1|3|8 इत्यनेन इत्संज्ञा भवति, ततः तयोः तस्य लोपः 1|3|9 इत्यनेन लोपः भवति । अतः केवलम् "अ" इति अवशिष्यते ।

उदाहरणम् -
1) तिङ्-प्रत्ययः - "पठ् + ति" इत्यत्र कर्तरि शप् 3|1|68 इत्यनेन शप्-प्रत्ययः विधीयते । पठ् + अ + ति = पठति औ
2) शित्-प्रत्ययः - "पठ् + शतृ" इत्यत्र कर्तरि शप् 3|1|68 इत्यनेन शप्-प्रत्ययः विधीयते । "पठ् + अ + अत्" इति प्राप्ते अतो गुणे 6|1|97 इत्यनेन द्वयोः अकारयोः एकः पररूपः अकारः भूत्वा "पठत्" इति प्रातिपदिकं सिद्ध्यति ।

ज्ञातव्यम् - शप्-इत्यस्य भिन्नेषु धातुगणेषु श्यन्, श्नु, श आदयः अपवादाः विधीयन्ते । तेषां विषये दिवादिभ्यः श्यन् 3|1|69 इत्यतः कुषिरजोः प्राचां श्यन् परस्मैपदं च 3|1|90 इति यावत्सु सूत्रेषु पाठितम् अस्ति ।
One-line meaning in English
A verb gets the विकरणप्रत्यय "शप्" in presence of a सार्वधातुक प्रत्यय in कर्तरि प्रयोग.
काशिकावृत्तिः
कर्तृवाचिनि सार्वधातुके परतो धातोः शप् प्रत्ययओ भवति। पकारः स्वरार्थः। शकारः सार्वधातुकसंज्ञार्थः। भवति। पचति।
` पकारः स्वरार्थः` इति। `अनुदात्तौ सुप्पितौ` 3|1|4 इत्यनुदात्तत्वं यथा स्यात्। `शकारः सार्वधातुकसंज्ञार्थः` इति। `तिङशित्सार्वधातुकम्` 3|4|113 इति सार्वधातुकत्वं यथा स्यात्। श्यन्प्रभृतीनामपि शकारस्यैतत् प्रयोजनं वेदितव्यम्॥
कर्तरि शप्॥ पकारः स्वरार्थ इति। उपलक्षणमेतत्, ङ्त्विप्रतिषेधार्थः, ठ्शप्श्यनोर्नित्यम्ऽ इति विशेषणार्थश्च। शकारः सार्वधातुकार्थ इति। सञ्ज्ञापरोऽत्र सार्वधातुकशब्दो न सञ्ज्ञिपरः, सार्वधातुकसञ्ज्ञार्थ इत्यर्थः। कर्तृग्रहणस्य ठ्कर्मवत्कर्मणाऽ इत्यत्रोपयोगः। इह तु सार्वधातुके शब् भवति, श्यन् भवतीति सामान्यविधानेऽपि भावकर्मणोर्यगपवाद इति कर्तर्येव शबादयो भविष्यन्ति॥
सिद्धान्तकौमुदी
कर्त्रर्थे सार्वधातुके परे धातोः शप् स्यात् । शपावितौ ॥
कर्तरि शप् - कर्तरि शप् ।सार्वधातुके य॑गित्यस्मात्सार्वधातुक इत्यनुवर्तते ।धातोरेकाचो हलादे॑रित्यस्माद्धातोरिति । तदाह — कत्र्रर्थ इत्यादिना । तिङि परे धातोर्विहितानां प्रत्यायानां शबादीनां विकरणसंज्ञा प्राचीनाचार्यसिद्धा । शपाविताविति । शकारपकारौ "लशक्वतद्धिते" इतिहलन्त्य॑मिति चेत्संज्ञकावित्यर्थः । ततश्च शपि शकारपकारयोर्लोपेऽकारमात्रं शिष्यत इत्यर्थः ।
कर्तरि शप् - ॒सार्वधातुके य॑ गित्यतः सार्वधातुक इत्यनुवर्तते,धातोरेकाचःर॑ इति सूत्राद्धातोरिति च, तदाह — कत्र्रर्थ इत्यादि ।
लघुसिद्धान्तकौमुदी
कर्त्रर्थे सार्वधातुके परे धातोः शप्॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!