॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|64
SK 2770
3|1|64
न रुधः   🔊
SK 2770
सूत्रच्छेद:
न - अव्ययम् , रुधः - पञ्चम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|22]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
रुधिरावरणे, अस्मात् परस्य च्लेः कर्मक्र्तरि चिणादेशो न भवति। अन्ववारुद्ध गौः स्वयम् एव। कर्मकर्तरि इत्येव, अन्ववारोधि गौः गोपालकेन।
कर्मवदित्यतिदेशे प्राप्तस्य चिणोऽयं प्रतिषेधः। `अरुद्ध` इति। `झलो झलि` 8|2|2 इति सिचो लोपः; तस्यासिद्धत्वाल्लघूपधगुणः प्राप्तः `लिङसिचावात्मनेपदेषु` 1|2|11 इति कित्त्वान्न भवति। पूर्ववद्धत्वजश्त्वे॥
न रुधः॥ रुधिर आवरणे इति। ठनो रुध कामेऽ इत्यस्य तु ग्रहणं न भवति, कर्तृस्थभावकत्वेन कर्मकर्तुरभावात्॥
सिद्धान्तकौमुदी
अस्मात् च्लेश्चिण्न । अवारुद्ध गौः । कर्मकर्तरीत्येव । अवारोधि गौर्गोपेन ॥
न रुधः - न रुधः । अस्माच्चेश्चिण्नेति । अवारुद्ध गौरिति ।स्वयमेवे॑ति शेषः । कर्मकर्तरीत्येवेति ।अचः कर्मकर्तरी॑त्यतस्तदनुवृत्तेरिति भावः । अवारोधि गौर्गोपेनेति । इह गोः कर्मणः कर्तृत्वविवक्षाया अभावान्न चिण्निषेध इति भावः ।
न रुधः - न रुधः ।चिण् ते पदः॑ इत्यतश्चिणनुवर्तते ।अचः कर्मकर्तरीत्येवेति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!