॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|63
SK 2769
3|1|63
दुहश्च   🔊
SK 2769
सूत्रच्छेद:
दुहः - पञ्चम्येकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|22]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
दुह प्रपूरणे, अस्मात् परस्य च्लेः चिणादेशो भवत्यन्यतरस्याम्। अदोहि गौः स्वयम् एव, अगुग्ध गौः स्वयम् एव। कर्मकर्तरि इत्येव, अदोहि गौर्गोपालकेन।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
दुहश्च॥ अप्राप्तविभाषेयम् ठ्न दुहस्नुनमां यक्चिणौऽ इति चिणः प्रतिषेधात्। तत्र दुहिग्रहणे यक्प्रतिषेधार्थ चिण्ग्रहणं स्न्वाद्यर्थम्। अदुग्धेति। ठ्क्सस्याचिऽठ्लुग्वा दुहदिहऽ इति क्सस्य लुक्॥
सिद्धान्तकौमुदी
अदोहि । पक्षे क्सः । लुग्वा--(कौमुदी-365) इति पक्षे लुक् । अदुग्ध । अधुक्षत । उदुम्बरः फलं पच्यते ॥ ।सृजियुज्योः श्यंस्तु (वार्तिकम्) ॥ अनयोः सकर्मकयोः कर्ता बहुलं कर्मवत् यगपवादश्य श्यन्वाच्य इत्यर्थः ॥ ।सृजेः श्रद्धोपपन्ने कर्तर्येवेति वाच्यम् (वार्तिकम्) ॥ सृज्यते स्रजं भक्तः । श्रद्धया निष्पादयतीत्यर्थः ॥ असर्जि । युज्यते ब्रह्मचारी योगम् ॥ ।भूषाकर्मकिरादिसनां चान्यत्रात्मनेपदात् (वार्तिकम्) ॥ भूषावाचिनां किरादीनां सन्नन्तानां च यक्चिणौ चिण्वदिट् च नेति वाच्यमित्यर्थः । अलंकुरुते कन्या । अलमकृत । अवकिरते हस्ती । अवाकीर्ष्ट । गिरते । अगीर्ष्ट । आद्रियते । आदृत । किरीदिस्तुदाद्यन्तर्गणः । चिकीर्षते कटः । अचिकीर्षिष्ट । इच्छायाः कर्तृस्थत्वेऽपि करोतिक्रियापेक्षमिह कर्मस्थक्रियत्वम् ॥
दुहश्च - दुहश्च । "अच" इतिवर्जं पूर्वसूत्रं तत्रानुवृत्तं यत्तत्सर्वमिहानुवर्तते । कर्मकर्तरि तशब्दे परे दुहेश्चिण्वा स्यादित्यर्थः स्पष्ट इति न व्याख्यातम् । अनुवृत्तिसौकर्यार्थमेव पूर्वसूत्रं प्रकृतदुहधातावनुपयुक्तमप्युपन्यस्तम् । अदोहीति । दुहेः कर्मकर्तरि लुङ् । "स्वयमेव गौः पय" इति शेषः । चिण्पक्षे लघूपधगुणः । चिणभावपक्षे आह — पक्षे क्स इति ।शल इगुपधा॑दित्यनेनेति भावः । लुग्वेति ।लुग्वा दुहदिहलिहगुहा॑मिति क्सस्यपाक्षिको लुगित्यर्थः । अथदुहपच्यो॑रित्यत्र पचेरुदाहरति — उदुम्बरः फलं पच्यतेइति ।उदुम्बरवृक्षं फलं पचति कालविशेष॑ इत्यत्र द्विकर्मकः पचिः । इह तु उदुम्बरो वृक्षः स्वयमेव कालविशेषमनपेक्ष्य फलं पक्वाश्रयं करोतीत्यर्थः । अत्र उदुम्बरस्यगौणकर्मणः कर्तृत्वेन विवक्षायां फलेन प्रधानकर्मणा सकर्मकत्वात्सकर्मकाणां प्रतषेधः॑ इति कर्मवत्त्वस्य प्रतिषेधे प्राप्तेदुहिपच्यो॑रिति कर्मवत्त्वस्य प्रतिप्रसवाद्यगादिकमिति भावः । वस्तुतस्तु भाष्ये द्विकर्मकेषु पचेरपरिगणनान्न द्विकर्मकत्वमिति कारकाधिकारे प्रपञ्चितमस्माभिः । तथा च कर्मकर्तरि "फलं पच्यते" इत्यत्र फलस्यैव कर्मतया तस्यकर्तृत्वविवक्षायां पचेरकर्मकत्वात्सकर्मकाणा॑मिति प्रतिषेधस्याऽप्रसक्तेः प्रतिप्रसवविधिरयं व्यर्थं इति यद्यपि, तथाप्यत्र मतेउदुम्बरः फलं पचती॑त्यत्र कर्तृलकारे पचेः कर्तृस्थक्रियत्वात् कर्मस्थक्रियत्वाऽभावादुदुम्बरः फलं पच्यतिति कर्मकर्तरिकर्मवत्कर्मणेति कर्मवत्त्वस्याऽप्राप्तौदुहिपच्यो॑रिति कर्मवत्त्वस्य बहुलं पचेरपूर्वविधिरित्यन्यत्र विस्तरः ।सृजियुज्योः श्यस्तु॑ इति वार्तिकम् ।अनयोः सकर्मकयो॑रित्यादि तद्भाष्यम् । अत्र सृजियुज्योर्दैवादिकयोर्न ग्रहणं,तयोरकर्मकताया उक्तत्वात्, किंतु "सृज विसर्गे" इति तौदादिकस्य, "युजिर्योगे" इति रौधादिकस्य च ग्रहणं, तत्र विसर्गः = उत्पादनम् । यथा प्रजाः सृजतीति.योगः — संयोजनम् । यता अआं युनक्तीति । रथादिना संयोजयतीति गम्यते । सृजेः श्रद्धोपपन्ने इति । श्रद्धायुक्ते मुख्यकर्तर्येव उक्तो विधिरित्यर्थः । तत्र मुख्यकर्तरि अत्यन्ताऽप्राप्तं कर्मवत्त्वमिह बहुलं विधीयते ।यजेस्तु कर्मकर्तर्येव उक्तविधि॑ रिति भाष्यात्तत्रापि कर्मणि क्रियाकृतवैलक्षण्याऽभावादप्राप्तं कर्मत्वमिह बहुलं विधीयते । कर्मत्वे सति यकि प्राप्ते तदपवादः श्यन्विधीयते । तेनञ्नित्यादिर्नित्य॑मित्याद्युदात्तत्वं सिध्यति । यकि तुतास्यनुदात्तेदित्यादिना लसार्वधातुकानुदात्तत्वे प्रत्ययस्वरेण यक उदात्तत्वं स्यात् । सृज्यते रुआजं भक्त इति । अत्र मुख्यकर्तरि लकारः । कर्मवत्त्वादात्मनेपदम् । यगपवादः श्यन् । श्रद्धया निष्पादयतीत्यर्थ इति । धातूनामनेकार्थत्वादित भावः ।सृज्यते रुआजं भक्त॑ इत्यत्र यदा तु निष्पादयतीत्येवाऽर्थः, नतु श्रद्धयेति दा सृजति रुआजमित्येव भवति.अथ युजेरुदाहरति — युज्यते ब्राहृचारी योगमिति । अत्रकर्मकर्तरि यगपवादः श्यन्नि॑ति भाष्यम् । योगश्चित्तवृत्तिनिरोधः योगशास्त्रप्रसिद्धः । ब्राहृचर्यं — स्त्रीसङ्गराहित्यम् । तद्योगाङ्गमिति च योगशास्त्रप्रसिद्धम् । स योगः ब्राहृचारिणं युनक्ति = आत्मदर्शनेन संयोजयतीति कर्तृलकारे संयोजनक्रियायां योगो मुख्यकर्ता, ब्राहृचारी तु कर्मेति स्थितिः । तत्र कर्मणो ब्राहृचारिणः कर्तृत्वविवक्षायांयुज्यते ब्राहृचारी योग॑मिति कर्मकर्तरि ब्राहृचारिणि लकारः, कर्मवत्त्वात्तदैव यगपवादः श्यन् । ब्राहृचारी प्राणायामाभ्यासादिश्रमबाहुल्यं विना स्वयमेव योगेन संबध्यते इत्यर्थः । तत्र ब्राहृचारिणि कर्मकर्तरि धात्वर्थसंबन्धोऽनुयोगितया वर्तते, योगे तु प्रतियोगितया वर्तत इति स्थितिः । तत्र यद्यपि प्रतियोगिनो योगात् "सहयुक्तेऽप्रधाने" इति तृतीयया भवितव्यं, तथापि युजेः प्रतियोगित्वावच्छिन्नसंबन्धोऽर्थः । तत्र प्रतियोगित्वं फलं, संबन्धो व्यापारः । प्रतियोगित्वरूपफलाश्रयत्वाद्द्वितीयेति समाहितं शब्देन्दुशेखरे । अत्र भाष्यप्रयोगादेव योगाद्द्वितीयेत्यन्ये । भूषाकर्मेति वार्तिकम् । भूषाकर्म, किरादि, सन् एषां द्वन्द्वः । अन्यत्रेति । प्रथमान्तात्स्वार्थे त्रल् । आत्मनेपदादन्यत्कर्मकार्यमिति लभ्यते । भूषा कर्म क्रिया येषां वाच्यतया ते भूषाकर्माणो धातवः । भूषणक्रियावाचिनामिति यावत् । तदाह — भूषावाचिनामित्यादिना । अलङ्कुरुते कन्येति । स्वयमेव अन्यप्रयत्नं विना भूषणक्रियावतीत्यर्थः । अत्र भूषार्थकत्वात्कर्मकर्तरि तङेव, न तु यक् । अलमकृतेति । अत्र तङेव नतु चिण् । लुटि तु अलङ्कर्तेत्येव, नतु चिण्वदिटौ । अवकिरते हस्तीति । हस्तिनमवकिरति कुसुमादिरित्यत्र मुख्यकर्तरि लकारः । तत्र हस्ती कर्म । तस्यकर्तृत्वविवक्षायां स्वयमेव पुरुषप्रयत्नं विना वृक्षादिसमीपं गच्छन् पुष्पादिभिरवकीर्णवान् भवतीत्यर्थः । अत्रापि तङेव, नतु यगादि । अवाकीर्ष्टेति ।लिङ्सिचोरात्मनेपदेषु॑ इति वेट् । गिरते इति ।ओदनं स्वयमेव#ए॑ति शेषः । "गृ निगरणे" अयं किरादिः । शप्रत्यये "रिङ् शयग्लिङ्क्षु" इति रिङ् । अतिथिमाद्रियते इति मुख्यकर्तरि । आद्रियतेऽतिथिरिति कर्मकर्तरि । स्वयमेव आदरणाश्रय इत्यर्थः । अत्र यद्यपि शे यकि च न विशेषस्तथापि न्याय्यः श एव, यको निषिद्धत्वात् । स्वरे वा विशेषः । तङ् तु ङित्त्वादेव सिद्धः । अतिथेरभिहितत्वात् प्रथमेति विशेषः । आदृतेति । चिणोऽनेन निषेधेह्यस्वादङ्गा॑दिति सिचो लोपः ।उश्चे॑ति कित्त्वम् । अथ सन्नन्तस्योदाहरति — चिकीर्षते कट इति । स्वयमेव कर्तुमिच्छाविषय इत्यर्थः । नन्विच्छायाः पुरुषरूपकर्तृनिष्ठत्वात्कृटरूपकर्मनिष्ठत्वाऽभावादित्छायां सत्यामसत्यां च कटे कर्मणि वैलक्षण्याऽदर्शनाच्च कर्मस्थक्रियत्वाऽभावादिह कर्मवत्त्वस्याऽप्रसक्तेस्तन्निषेधो व्यर्थ इत्यत आह — इच्छाया इति ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!