॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|62
SK 2768
3|1|62
अचः कर्मकर्तरि   🔊
SK 2768
सूत्रच्छेद:
अचः - पञ्चम्येकवचनम् , कर्मकर्त्तरि - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|22]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अजन्ताद् धातोः परस्य च्लेः कर्मक्र्तरि तशब्दे परतः चिणादेषो भवति। प्राप्तविभाषेयम्। अकारि कटः स्वयम् एव, अकृत कटः स्वयम् एव। अलावि केदारः स्वयम् एव, अलविष्ट केदारः स्वयम् एव। अचः इति किम्? अभेदि काष्ठं स्वयम् एव। कर्मकर्तरि इति किम्? अकारि कटो देवदत्तेन।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
अचः कर्मकर्तरि॥ कर्मकर्तरीरि। यत्कर्म भूत्वा कर्ता भवति तत्रैत्यर्थः। प्राप्तविभाषेयमिति। ठ्कर्मवत्कर्मणाऽ इत्यतिदेशेन नित्यं चिणः प्राप्तेः। अकारि कटो देवदतेनेति। अत्र शुद्धे कर्मणि ठ्चिण् भावकर्मणोःऽ इति नित्यमेव चिण् भवति। नन्विह कर्तरोत्यनुवर्तिष्यते, यद्येवम्, शुद्धे कर्तरि स्यात्, कर्मणीति वाक्यभेदेन कर्ता विशेषयिष्यते----कर्मणि कर्तरीति ? नैतदेवं शक्यते लब्धुम्; कर्मणीत्युच्यमाने कर्तुर्निवृत्तिरेव स्यात्, चकारेऽपि क्रियमाणे कर्मणि च भवति कर्तरि च भवतीत्यधिकरणयोरेव समुच्चयः स्याद्, न सामानाधिकरण्ये प्रमाणमस्ति॥
सिद्धान्तकौमुदी
अजन्तात् च्लेश्चिण् वा स्यात्कर्मकर्तरि तशब्दे परे । अकारि । अकृत ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
अचः कर्मकर्तरि - अचः कर्म ।चिण् ते पदः॑ इत्यतश्चिण्तेशब्दावनुवर्तेते,॒दीपजने॑त्यतोऽन्यतरस्यामिति च । तदाह — अजन्तादित्यादि । अचः किम् । अभेदिकाष्ठम् । अत्र नित्यं चिण् । कर्मकर्तरि किम् । अकारि घटः कुलालेन । अत्रापि नित्यमेव । दुहश्च । कर्मकर्तरीत्येव । अदोहि गौर्गोपेनेत्यत्र तु नित्यम् । उदुम्बरः फलमिति ।कालः उदुम्बरं फलं पचती॑ति स्थिते गौणकर्मण उदुम्बरस्य कर्तृत्वविवक्षायामिह कर्मवद्भावः । ननु द्विकर्मकेषु पचेरप्रामाणिकः पाठ इति ये वदन्तितेषामयं ग्रन्थः कथं सङ्गच्छत इति चेत् । अत्राहुः — उदुम्बरः फलं पचती॑त्यत्रकर्मवत्कर्मणे॑त्यस्याऽप्राप्तौदुहिपच्यो॑रित्यनेन कर्मवद्भावो बहुलं विधीयते सृजियुज्योरिवेति न काप्यनुपपत्तरिति । *सृजियुज्योः श्यंस्तु । श्यनो नित्त्वमाद्युदात्तार्थम् । यकि तुतास्यनुदात्ते॑दित्यादिना लसार्वधातुकानुदात्तत्वे कृते यक उदात्तत्वं श्रूयेत । श्रद्धोपपन्न इति । अश्रद्धायुक्ते कर्तरि तु यगेव ।* भूषामकर्मेति । कर्मशब्दः क्रियावाचीत्याह — भूषावाचिनामिति । अन्यत्रेति । आत्मनेपदादन्यस्य निषेध आत्मनेपदमेव भवतीत्यर्थस्तदेतदाह — यक्चिणाविति । अवाकीर्ष्टेति ।लिङ्सिचौ॑ इति वेट् । आद्रियत इति । तुदादित्वाच्छेरिङ् शयग्लिङ्क्षु॑ इति रिङि इयङ् । आदृतेति ।उश्चे॑ति कित्त्वम् ।ह्यस्वादङ्गा॑दिति सिचो लोपः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!