॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|57
SK 2269
3|1|57
इरितो वा   🔊
SK 2269
सूत्रच्छेद:
इरितः - पञ्चम्येकवचनम् , वा - अव्ययम्
अनुवृत्ति:
अङ्  [3|1|52] - प्रथमैकवचनम् , च्ले:  [3|1|44] - षष्ठ्येकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|22]
सम्पूर्णसूत्रम्
इरित: च्ले: अङ् वा
सूत्रार्थ:
इरित्-धातोः परस्य च्लि-प्रत्ययस्य विकल्पेन अङ्-आदेशः भवति ।
लुङ्लकारस्य विषये धातोः च्लि लुङि 3|1|43 इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य च्लेः सिच् 3|1|44 इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु ये धातवः "इरितः" सन्ति, तेषां विषये अनेन सूत्रेण च्लि-इत्यस्य विकल्पेन अङ्-आदेशः अपि भवति ।

किम् नाम "इरित्" धातुः ? यस्मिन् धातौ "इर्" इति वर्णसमुदायः इत्संज्ञकः अस्ति, तस्य धातोः "इरित्" इति संज्ञा भवति । धातुपाठे आहत्य 23 इरितः धातवः सन्ति । एतेषां परस्य च्लि-इत्यस्य अनेन सूत्रेण विकल्पेन अङ्-आदेशः अपि भवति । पक्षे च्लेः सिच् 3|1|44 इति सिजादेशः अपि भवति । यथा -

1. दृश् + लुङ् [लुङ् 3|2|110 इति लुङ्]
→ दृश् + च्लि + ल् [च्लि लुङि3|1|43 इति च्लि-विकरणप्रत्ययः]
→ दृश् + अङ् + ल् [इरितो वा 3|1|57 इति च्लि-इत्यस्य अङ्-आदेशः]
→ दर्श् + अङ् + ल् [ऋदृशोऽङि गुणः 7|4|16 इति दृश्-धातोः ऋकारस्य गुणः अकारः । उरण् रपरः 1|1|51 इति सः रपरः]
→ अट् + दर्श् + अ + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6|4|71 इति अडागमः]
→ अ + दर्श् + अ + तिप् [तिप्तस्.. 3|4|78 इति प्रथमपुरुषैकवचनस्य प्रत्ययः]
→ अ + दर्श् + अ + त् [इतश्च 3|4|100 इति इकारलोपः]
→ अदर्शत्

विकल्पेन सिच्-प्रत्यये कृते "अद्राक्षीत्" इत्यपि रूपं सिद्ध्यति ।

2. क्षुद् + लुङ् [लुङ् 3|2|110 इति लुङ्]
→ क्षुद् + च्लि + ल् [च्लि लुङि3|1|43 इति च्लि-विकरणप्रत्ययः]
→ क्षुद् + अङ् + ल् [इरितो वा 3|1|57इति च्लि-इत्यस्य अङ्-आदेशः]
→ अट् + क्षुद् + अ + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6|4|71 इति अडागमः]
→ अ + क्षुद् + अ + तिप् [तिप्तस्.. 3|4|78 इति प्रथमपुरुषैकवचनस्य प्रत्ययः]
→ अ + क्षुद् + अ + त् [इतश्च 3|4|100 इति इकारलोपः]
→ अक्षुदत्

विकल्पेन सिच्-प्रत्यये कृते "अक्षौसीत्" इत्यपि रूपं सिद्ध्यति ।
One-line meaning in English
For the इरित्-verbs, the च्लि प्रत्यय is optionally converted to अङ्.
काशिकावृत्तिः
इरितो धातोः परस्य च्लेः अङादेशो वा भवति। भिदिर् अभिदत्, अभैत्सीत्। छिदिर् अच्छिदत्, अच्छैत्सीत्। परस्मैपदेषु इत्येव, अभित्त। अच्छित्त।
इश्च रश्च इरौ, इतौ यस्य त इरित्। तत्रेकारस्य `उरजेषेऽजनुनासिक इत्` 1|3|2 इतीत्संज्ञा, रेफस्य `हलन्त्यम्` 1|3|3 इति।अथ वा इरित् यस्यैव समुदायस्य तत्येत्संज्ञा, न प्रत्येकमवयवस्य? इरित्ययं समुदाय इत्संज्ञको यस्य स इरित्। समुदायस्येत्संज्ञाऽस्मादेव वचनाद्वेदितव्या। न ह्रन्येन केनचित् तस्येत्संज्ञा विहिता। `अभैत्सीत्` इति। `वदव्रज` 7|2|3 इत्यादिना वृद्धिः, `अस्तिसिचोऽपृक्ते` 7|3|96 इतीट्। `अरुद्ध, अभित्त` इति। स्वरितेत्त्वादात्मनेपदम्,पूर्ववत् सिचो लोपः॥
इरितो वा॥ अभितेति। स्वरित्वादात्मनेपदम्॥
सिद्धान्तकौमुदी
इरितो धातोश्च्लेरङ् वा स्यात्परस्मैपदे परे । अच्युतत् । अच्योतीत् । 41 श्च्युतिर् क्षरणे । श्च्योतति । चुश्च्योत । अश्च्युतत् । अश्च्योतीत् । यकाररहितोऽप्ययम् । श्चोतति । 42 मन्थ विलोडने । विलोडनं प्रतिघातः । मन्थति । ममन्थ । यासुटः किदाशिखि (कौमुदी-2216) इति कित्त्वात्अनिदिताम्-(कौमुदी-415) इति नलोपः । मथ्यात् । 43 कुथि 44 पुथि 45 लुथि 46 मथि हिंसासंक्लेशनयोः । इदित्त्वान्नलोपो न । कुन्थ्यात् । मन्थ्यात् । 47 षिध गत्याम् । सेधति । सिषेध । सेधिता । असेधीत् । सात्पदाद्योः (कौमुदी-2123) इति निषेधे प्राप्ते ॥
इरितो वा - इरितो वा । "धातोरेकाच" इत्यतो धातोरिति,च्लेः सि॑जित्यतश्च्लेरिति,अस्यतिवक्तिख्यातिब्य॑ इत्यतोऽङिति,पुषादिद्युतादी॑त्यतः परस्मैपदेष्विति चानुवर्तते । तदाह — इरितो धातोरित्यादिना । अच्युतदिति । अङि सति ङित्त्वान्न गुणः । अच्युतताम् अच्युतन् । अच्युतः अच्युततम् अच्युतत । अच्युतम् अच्युताव अच्युताम । अङभावे त्वाह — अच्योतीदिति ।इट ईटी॑ति सिज्लोपः । अच्योतिष्टामित्यादि । श्च्युतिरिति.च्युतिवद्रूपाणि । चुश्च्योतेति । "शर्पूर्वा" इति चकारः शिष्यते । यकाररहितोऽपीति ।मधुश्चुतं घृतमिव सुपूत॑मित्यादौ तथा दर्सनादिति भावः । मन्थेति । विलोडलनम् — आस्फालनम् । मन्थतीत्यादि । सुगमम् । आशीर्लिङि विशेषमाह — यासुट इति । कुथीति । चत्वारोऽपि द्वितीयान्ताः । इदित्त्वान्नुमि कुन्थतीत्यादि सुगमम् । आशीर्लिङि यासुटः कित्त्वेऽपि इदित्त्वेन अनिदितामिति पर्युदासन्नलोपो नेत्याह — इदित्त्वादिति । कुन्थ्यादिति । पुन्थ्यात् लुन्थ्यात् मन्थ्यात् । एतदर्थमेव मन्थदातोः पृथङ् मथीति निर्देशः । षिध गत्यामिति । अच्परकषकारादित्वात्षोपदेशोऽयम् । ततश्च धात्वादेरिति सः । तदाह — सेधतीति । सिषेधेति । आदेशसकारत्वात्षत्वम् । अनिट्सु श्यन्विकरमस्यैव सिधेग्र्रहणात्सेट्कोऽयम् । असेधीदिति ।इट इटी॑ति सिज्लोपः । नेटीति निषेधान्न हलन्तलक्षणा वृद्धिः । असेधिष्टामित्यादि । अथ निषेधतीत्यादौउपसर्गात्सुनोती॑ति षत्वं वक्ष्यति तत्किमर्थम्, आदेशप्रत्ययो॑रित्येव सिद्धेरित्याशङ्क्याह — सात्पदाद्योरिति ।
इरितो वा - चुश्र्योतेति ।शर्पूर्वाः खयःर॑ । यकाररहितोऽप्ययमिति । तथा च प्रयुज्यतेमधुश्चुतं घृतमिव सुपूत॑मिति । मन्थ । अयं त्रयादावपि ।षिध गत्याम् । अयमुदिदिति केचित् । तत्तु सिध्यतिबुध्यत्योः श्यना निर्देशात् सिधितं बुधितमिति वृत्तिग्रन्थविरुद्धम् । उदित्त्वे हिउदितो वे॑ति क्त्वायामिड्विकल्पान्निष्ठायामिण्न स्यात्,यस्य विभाषेति॑निषेधात् । सिषेधेति ।आदेशप्रत्यययो॑रिति षत्वम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!