॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|39
SK 2491
3|1|39
भीह्रीभृहुवां श्लुवच्च   🔊
SK 2491
सूत्रच्छेद:
भी-ह्री-भृ-हुवाम् - षष्ठीबहुवचनम् , श्लुवत् - अव्ययम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|22]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
ञिभी भये, ह्री लज्जायाम्, डुभृञ् धारणपोषणयोः, हु दानादानयोः, एतेभ्यो लिटि परतः आम् प्रत्ययो भवति अन्यतरस्याम्, श्लाविव च अस्मिन् कार्यं भवति। किं पुनस् तत्? द्वित्वम् इत्त्वं च। बिभायाञ् चकार, विभाय। जिह्रयाञ् चकार, जिह्राय। बिभराञ् चकार, बभार। जुहवाञ् चकार, जुहाव।
`भीह्यीभृहुवाम्` इति। पञ्चम्यर्थे षष्ठी। सुपां सुपो भवन्तीति। `श्लुवत्` इति। श्लविव श्लुवत्। `तत्र तस्येव` 5|1|115 इति सप्तमीसमर्थाद्वतिः। कार्यातिदेशश्चायम्। अत एवाह--- `श्लुवच्चास्मिन् कार्यं भवति` इति। `द्वित्वमित्त्वञ्च` इति। `श्लौ` 6|1|10 इति द्विर्वचनम्, `भृञामित्` 7|4|76 इतीत्त्वम्। असति ह्रतिदेशे लिडाश्रयं द्विर्वचनमामा व्यवधाने न स्यात्। इत्त्वमपि नैव स्यात्, तद्विधौ हि `णजां त्रयाणां गुणः श्लौ` 7|4|75 इत्यतः श्लावित्यनुवत्र्तते। तस्मात् तस्योभयस्य सिद्धये `श्लुवच्च` इत्यतिदेशः॥
भीह्रीभृहुवां श्लुवच्च॥ श्लुवत्कार्यापेक्षया सूत्रे षष्ठी, सन्नियोगरिष्टत्वाच्चाम्, प्रत्ययोऽपि तेभ्य एव विज्ञायते। द्वित्वेत्वे इति। ठ्श्लौऽ इति द्विर्वचनम्, ठ्भृञामित्ऽ इतीत्वम्, तत्र ठ्श्लौऽ इति वर्तते। ठ्न लुमताङ्गस्यऽ इति गुणप्रतिषेधस्तु न भवति, किं कारणम्? ठ्प्रत्ययलोपे प्रत्ययलक्षणम्ऽ इत्यस्याः प्राप्तेरयं प्रतिषेधः। श्रूयमाणत्वादामःऽ॥
सिद्धान्तकौमुदी
एभ्योलिट्याम्वा स्यादामि श्लाविव कार्यं च । जुहवांचकार । जुहाव । होता । होष्यति । जुहोतु । जुहुतात् । हेर्धिः । जुहुधि । आटि परत्वाद्गुणः । जुहवानि । परत्वात् जुसि च (कौमुदी-2481) इति गुणः । अजुहवुः । जुहुयात् । हूयात् । अहौषीत् । 1084 ञिभी भये । बिभेति ॥
भीह्रीभृहुवां श्लुवच्च - भीहि । भी ह्यी भृ हु एषां द्वन्द्वात्पञ्चम्यर्थे षष्ठी ।कास्प्रत्यया॑दित्यत आम् लिटीत्यनुवर्तते । तदाह — एतेभ्य इति ।श्लुव॑दिति सप्तम्यन्ताद्वतिरित्यभिप्रेत्य आह — आमि श्लाविव कार्यं चेति । जुहवामनिति । आमि श्लाविव द्वित्वे गुण इति भावः । जुहावेति । जुहुवतुः । जुहविथ जुहोथ । जुहुधि । हेर्धिरिति ।हुझल्भ्यो हेर्धि॑रित्यनेनेति भावः ।जुहवानी॑त्यत्र आटः पित्त्वेन अङित्तवाद्गुणे प्राप्ते तं बाधित्वाहुश्नुवो॑रिति यणि प्राप्ते आह — आटि परत्वादिति ।हुश्नुवो॑रित्यपेक्षया गुणः परत्वाद्भवतीत्यर्थः । लङि — अजुहोत् अजुहुतामिति सिद्धवत्कृत्यसिजभ्यस्ते॑ति जुसिहुश्नुवो॑रिति यणमाशङ्क्याह — परत्वाज्जुसि चेति गुण इति अजुहवुरिति । अजुहोः अजुहुतम् अजुहुत अजुहवम् अजुहुव अजुहुम । अहौषीदिति । सिचि वृद्धिः । अहौष्टामित्यादि । अहोष्यत् । ञि भी भये इति । अनिट् । ईदन्तः । शपः स्लौ द्वित्वादि मत्वाह — बिभेतीति ।
भीह्रीभृहुवां श्लुवच्च - आटीति ।आडुत्तमस्ये॑त्यनेन । परत्वादिति ।हुश्नुवो॑रिति यणपेक्षया परत्वादित्यर्थः ।
लघुसिद्धान्तकौमुदी
एभ्यो लिटि आम् वा स्यादामि श्लाविव कार्यं च। जुहवाञ्चकार, जुहाव। होता। होष्यति। जुहोतु, जुहुतात्। जुहुताम्। जुह्वतु। जुहुधि। जुहवानि। अजुहोत्। अजुहुताम्॥
महाभाष्यम्
भीह्रीभृहुवां श्लुवच्च (656) (411 आम्विकरणविधिसूत्रम्।। 3.1.3 आ. 10) (आक्षेपभाष्यम्) श्लुवदतिदेशे किं प्रयोजनम्?। (समाधानभाष्यम्) श्लुवदतिदेशे प्रयोजनं द्वित्वेत्वे बिभरांचकार।। भीह्रीभृ।। 39 ।।