॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|32
SK 2304
3|1|32
सनाद्यन्ता धातवः   🔊
SK 2304
सूत्रच्छेद:
सनाद्यन्ताः - प्रथमाबहुवचनम् , धातवः - प्रथमाबहुवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|22]
सम्पूर्णसूत्रम्
सनाद्यन्ता: धातव:
सूत्रार्थ:
सनादि-प्रत्ययान्तशब्दाः धातुसंज्ञकाः भवन्ति ।
अनेन सूत्रेण "धातु" इयम् संज्ञा पाठ्यते । "ये शब्दाः सनादि-प्रत्ययान्ताः सन्ति, ते धातुसंज्ञकाः भवेयुः" इति अस्य सूत्रस्य आशयः ।

किम् नाम सनादिप्रत्ययाः ? गुप्तिज्किद्भ्यः सन् 3|1|5 इत्यतः आयादयः आर्धधातुके वा 3|1|31 इति यावत्सु सूत्रेषु ये द्वादश-प्रत्ययाः पाठिताः सन्ति, तेषाम् नाम "सनादिप्रत्ययाः" । एते सर्वे एकम् एकम् उदाहरणम् स्वीकृत्य अधः निर्दिष्टाः सन्ति । एते प्रत्ययाः यस्य अन्ते सन्ति ते शब्दाः वर्तमानसूत्रेण "धातु" संज्ञां स्वीकुर्वन्ति ।

1. सन् - अयम् प्रत्ययः 3|1|5, 3|1|6 तथा 3|1|7 एतैः सूत्रैः दीयते ।
यथा - पठ् + सन् → पिपठिष । अस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - पिपठिष + शप् + ति → पिपठिषति ।
2. क्यच् - अयम् प्रत्ययः 3|1|8, 3|1|10, 3|1|19 एतैः सूत्रैः दीयते ।
यथा - पुत्र + क्यच् → पुत्रीय । अस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - पुत्रीय + शप् + ति → पुत्रीयति ।
3. काम्यच् - अयम् प्रत्ययः 3|1|9 इत्यनेन दीयते ।
यथा - पुत्र + काम्यच् → पुत्रकाम्य । अस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - पुत्रकाम्य + शप् + ति → पुत्रकाम्यति ।
4. क्यङ् - अयम् प्रत्ययः 3|1|11, 3|1|12, 3|1|14, 3|1|15, 3|1|16, 3|1|17, 3|1|18 - एतैः सूत्रैः दीयते ।
यथा - श्येन + क्यङ् → श्येनाय । अस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - श्येनाय + शप् + ते → श्येनायते ।
5. क्यष् अयम् प्रत्ययः 3|1|13 इत्यनेन दीयते ।
यथा - लोहित + क्यष् → लोहिताय । अस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - लोहिताय + शप् + ति → लोहितायति ।
6. णिङ् - अयम् प्रत्ययः 3|1|20 तथा 3|1|30 एताभ्याम् सूत्राभ्याम् दीयते ।
यथा - कम् + णिङ् → कामि । अस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - कामि + शप् + ते → कामयते ।
7. णिच् - अयम् प्रत्ययः 3|1|21, 3|1|25, 3|1|126 एतैः सूत्रैः दीयते ।
यथा - पठ् + णिच् → पाठि । अस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - पाठि + शप् + ति → पाठयति ।
8. यङ् - अयम् प्रत्ययः 3|1|22, 3|1|23, 3|1|24 एतैः सूत्रैः दीयते ।
यथा - पच् + यङ् → पापच्य । अस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - पापच्य + शप् + ते → पापच्यते ।
9. यक् - अयम् प्रत्ययः 3|1|27 इत्यनेन दीयते ।
यथा - कण्डू + यक् → कण्डूय । अस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - कण्डूय + शप् + ते → कण्डूयते ।
10. आय - अयम् प्रत्ययः 3|1|28 इत्यनेन दीयते ।
यथा - धूप् + आय → धूपाय । अस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - धूपाय + शप् + ति → धूपायति ।
11. ईयङ् - अयम् प्रत्ययः 3|1|29 अनेन दीयते ।
यथा - ऋत् + अयङ् → ऋतीय । अस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - ऋतीय + शप् + ते → ऋतीयते ।
12. क्विप् - सर्वप्रातिपदिकेभ्यो क्विब्वा वक्तव्यः अनेन वार्तिकेन क्विप्-प्रत्ययः सर्वेभ्यः प्रातिपदिकेभ्यः विकल्पेन भवति ।
यथा - क्लीब (प्रातिपदिकम्) + क्विप् → क्लीब (धातुः) । अस्य अस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - क्लीब + शप् + ते → क्लीबते ।
(स्मर्तव्यम् - क्विप्-नाम कश्चन भिन्नः कृत्-प्रत्ययः अपि अस्ति, यः सर्वेभ्यः धातुभ्यः भवति । परन्तु तेन प्रातिपदिकस्य निर्माणं भवति । तस्य उपसंख्यानम् अत्र न क्रियते । )

ज्ञातव्यम् -
1. सूत्रपाठे धातुसंज्ञाविधायकम् अन्यदपि एकम् सूत्रम् अस्ति - भूवादयो धातवः 1|3|1 । अनेन सूत्रेण धातुपाठे उपस्थितानाम् शब्दानाम् धातुसंज्ञा विधीयते । वर्तमानसूत्र तु ये शब्दाः धातुपाठे न सन्ति, परन्तु सनादि-प्रत्ययान्ताः सन्ति, तेषामपि धातुसंज्ञा भवति ।
2. अनेन सूत्रेण निर्मिताः धातवः "आतिदेशिकाः धातवाः" नाम्ना ज्ञायन्ते ।
3. सर्वे सनादिप्रत्ययाः सर्वेभ्यः प्रातिपदिकेभ्यः / सर्वेभ्यः धातुभ्यः वा न विधीयन्ते ।
One-line meaning in English
The words ending in a सनादि प्रत्यय get the term "धातु".
काशिकावृत्तिः
सनादिर्येषां ते सनादयः। सनादयो ऽन्ते येषं ते सनाद्यन्ताः। सनाद्यन्ताः समुदायाः धातुसंज्ञाः भवन्ति। प्रत्ययग्रहणपरिभाषा एव पदसंज्ञायाम् अन्तवचनेन लिङ्गेन प्रतिषिद्धा सती पुनरिह अन्तवचनेन प्रतिप्रसूयते। चिकीर्षति। पुत्रीयति। पुत्रकाम्यति।
`सनादयोऽन्ते येषाम्` इति वाक्यविशेषेण बहुव्रीहि दर्शयति। गमकत्वन हि व्यधिकरणानामपि बहुव्रीहिर्भवत्येव, यथा-- कण्ठेकालः, उरसिलोमेति। आदिशब्देन क्यजादीनां णिङपर्यन्तानां ग्रहणम्। `समुदायाः` इति। प्रकृतिप्रत्ययसमुदायाः। एतेन तद्गुणसंविज्ञानबहुव्रीहि दर्शयति; अन्यथा सनाद्युपलक्षितानां प्रकृतीनामेव धातुसंज्ञा विधीयेत। `{धातुसंज्ञाः-- काशिका, पदमञ्जरी च।}धातुसंज्ञकाः` इति। धातुः संज्ञा येषां ते धातुसंज्ञकाः। धातुशब्दश्चात्र स्वरूपपदार्थकः, न भूवादिपदार्थकः, अन्यथा भूवादयः सनाद्यन्तानां संज्ञाः स्युः, तच्चायुक्तम्, न हि तावतीनां संज्ञानां करणे किञ्चित् प्रयोजनमस्ति। आवर्तिन्यश्च संज्ञा भवन्ति। न हि भूवादीनामेव सर्वेषामावृत्तिः क्वचिच्छास्त्रेऽस्तीति न तत्पदार्थको धातुशब्दः। इह हि संज्ञाविधौ सनादीनां प्रत्ययनां ग्रहणम्। `सुप्तिङन्तं पदम्` 1|4|14 इत्यत्र चान्तग्रहणेन ज्ञापितमेतत-- `प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य` (पि।प।वृ।44) इति। एषा परिभाषा संज्ञाविधौ प्रत्ययग्रहणे प्रतिषिद्धा। तत्रासत्यन्तग्रहणे तदन्तविधिर्न स्यात्, इष्यते च, अतस्तदर्थमन्तग्रहणं कृतम्, तत्रानेनान्तग्रहण#एनापूर्व एव तदन्तविधिः क्रियत इति मन्यमानो यो देशयेत् तं प्रत्याह--- यदि तर्हि सनाद्यन्तानामियं संज्ञा विधीयते तदा देवदत्तः प्राचिकीर्षदित्यत्र देवदत्तस्य सोपसर्गस्य च संज्ञा प्रसज्येतेति। अत आह-- `प्रत्ययग्रहणपरिभाषयैव` इत्यादि। न ह्रनेनान्तग्रहणेनापूर्व एव तदन्तविधिः क्रियते, किं तर्हि? पदसंज्ञाविधादन्तग्रहणेन प्रतिषिद्धा सती प्रत्ययग्रहणपरिभाषयैव पुनरिह प्रतिप्रसूयते। कृतप्रवृत्तिविधाता सती पुनः प्रवत्र्तत इत्यर्थः। ततश्च यतः सनादयो विहितास्तदादेरेव समुदयस्य संज्ञा भवति, न शब्दान्तरादेरिति भावः। अथ `भूवादयो धातवः` 1|3|1 इत्यस्यानन्तरं `सनाद्यन्ताश्च इति कस्मान्नोक्तम्; एवं हि धातुग्रहणं द्विर्न कत्र्तव्यं भवति? नैवं शक्यम्, एवं हि क्रियमाणे सनादीनामियत्तापरिच्छदो न स्यात्। इह तु क्रियमाणे णिङपर्यन्तानां ग्रहणं विज्ञायते। तर्हि `सनाद्यन्ता धातवः` 3|1|32 इत्यस्यानन्तरं `भूवादयश्च` इति कस्मान्नोक्तम्? एतदपि न; एवं हि क्रियमाणे सनाद्यन्तस्यानुक्रान्तापेक्षित्वात् भूवादीनामप्यनुक्रान्तापेक्षित्वं स्यात्; ततश्चानुक्रान्तानामेव गुपादीनां धातुसंज्ञा स्यात्, नान्येषां भूवादीनाम्। अथ भूवादीनामनुक्रान्तापेक्षा न भवति सनादीनामपि न स्यात्, ततश्च सनादयः कप्पर्यन्ता गृह्रेरन्निति सन्देहः स्यात्। तस्माद्यथान्यासमेव न्याय्यम्॥
सनाद्यन्ता धातवः॥ सनादयोऽन्ते येषामिति। अन्तशब्दः समीपवचनः, वैयधिकरण्येऽपि गमकत्वाद्वहुव्रीहिः। अथ वा---वृतावर्थमात्रं दर्शितम्, सूत्रे त्ववयववाचिनोऽन्तशब्दस्य समानाधिकरणस्यैव बहुव्रीहिः। सनादयोऽन्तावयवा येषां समुदायानामित्यनेन तद्गुणसंविज्ञानो बहुव्रीहिरिति दर्शयति। धातुसंज्ञा इति। धातुशब्दोऽत्र स्वरूपपदार्थः, न भूवादिपदार्थकः; तावतीनां संज्ञानां विधाने प्रयोजनाभावात्। ठ्सुप्तिङ्न्तम्ऽ इत्यत्रान्तग्रहणज्ञापिता संज्ञाविधौ प्रत्ययग्रहणे प्रत्ययग्रहणपरिभाषा न प्रवर्तत इति, ततश्चासत्यन्तग्रहणे तदन्तविधिर्न स्यादित्यत्रान्तग्रहणं कृतम्। एवं स्थिते यद्यपूर्व एवानेन तदन्तविधिः क्रियते, ततो देवदतश्चिकीर्षतीत्यत्र देवदतादेः समुदायस्य संज्ञा प्रसज्येतेति मत्वाह----प्रत्ययग्रहणपरिभाषैवेत्यादि। अपूर्वविधौ गौरवम्, प्रतिप्रसवे तु यत्नस्य लाघवं भवतीति भावः। ठ्भूवादयःऽ इत्यस्यानन्तरं सनाद्यान्ताश्चेत्युच्यमाने सनादीनामियतापरिच्छेदो न स्यात्। एवं तर्हि ठ्सङ्न्ताश्चऽ इत्युच्यताम्, सङिति प्रत्याहारः सनः सशब्दारभ्या णिङे ङ्कारात्। एवमपि सन्देहस्स्यात्, चङदिष्वपि ङ्कारस्य भावात्। एवं तर्हि ठ्सनाद्यन्ताःऽ इत्यस्यानन्तरम् ठ्भूवादयश्चऽ इति वक्तव्यम्। स्यादेतत्----एवमुच्यमाने सनाद्यन्तशब्दवद् भूवादिशब्दोऽपि प्रकृतापेक्षः स्याततश्चानुक्रान्तानां गुपादीनामेव स्यादिति? एवमपि भूवादिग्रहणमनर्थकं गुपादयश्चेति वक्तव्यम्। नानर्थकम्; भुवो वादयो भूवादय इत्येवमर्थमेव स्याद्। भूवादिपाठ इदानीं किमर्थः स्याद् ? अन्तर्गणकार्यार्थः, अनुबन्धासञ्जनार्थश्च। येषां तर्हि तदुभयं न संभवति भूरणिप्रभृतीनां तेषां पाठः किमर्थः? अलमतिनिर्बन्धेन॥
सिद्धान्तकौमुदी
सनादयः कमेर्णिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञाः स्युः । धातुत्वाल्लडादयः । गोपायति ॥
सनाद्यन्ता धातवः - नन्वायप्रत्ययान्तस्य भ्वादिषु पाठाऽभावेन धातुत्वाऽभावात् कथमस्माल्लडादय इत्यत आह — सनाद्यन्ताः ।गुप्तिज्किद्भ्यः स॑नित्यारभ्यकमेर्णि॑ङित्यन्तैः सूत्रैः सनादिप्रत्ययान्विधाय सूत्रमिदं पठितम् । सन् आदिर्येषां ते सनादयो णिङ्प्रत्ययपर्यन्ताः, ते अन्ते येषां ते सनाद्यन्ता इति विग्रहः । तदाह — -सनादयः इति ।सन्क्यच्काम्यच्क्यङ्क्यषोऽथाचारक्विब्णिज्यङौ तथा । यगाय ईयङ् णिङ् चेति द्वादशाऽमी सनादयः॑ इति । सङग्रहः । संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणप्रतिषेधादिह तदन्तग्रहणम् । धातुत्वादिति । आयप्रत्यान्तस्येत्यर्थः । गोपायतीति । शपि "अतो गणे" इति पररूपम् ।
सनाद्यन्ता धातवः - सनाद्यन्ताः । सदनादय इति ।सन्क्यच्काम्यचज्क्यङ्क्यषोऽथाचारक्विप्णिज्यङौ तथा । यगाय णिङ् चेति द्वादशीमी सनादयः॑ । धातुत्वादिति । प्रत्ययविशिष्टस्य धातुत्वादित्यर्थः ।सुप्तिङन्त॑मित्यनेनसंज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ती॑तिज्ञापितत्वाद्विशिष्टस्य धातुसंज्ञालाभाय अस्मिन् सूत्रे अन्तग्रहणं कृतम् ।भूवादयो धातवः॑ इत्यस्यानन्तरंसनाद्यन्ताश्चे॑ति न सूत्रितं, सनादयो द्वादशेवेति निर्धारणाऽलाभापत्तेः । निर्धारणाऽलाभापत्तेः ।सनाद्यन्ता धातवः॑ इत्यस्यानन्तरं तुभूवादयंश्चे॑ति पठित्वाधातव॑ इत्येतत्तन्न त्यक्तुं शक्यम् ।
लघुसिद्धान्तकौमुदी
सनादयः कमेर्णिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञकाः। धातुत्वाल्लडादयः। गोपायति॥
महाभाष्यम्
सनाद्यन्ता धातवः (649) (405 धातुसंज्ञासूत्रम्।। 3।1।3 आ.4) (अतग्रहणप्रयोजनाधिकरणम्।) (आक्षेपभाष्यम्) अन्तग्रहणं किमर्थम्, न सनादयो धातवः इत्येवोच्येत?। (प्रत्याक्षेपभाष्यम्) केनेदानीं तदन्तानां भविष्यति।। (प्रत्याक्षेपसमाधानभाष्यम्) तदन्तविधिना।। (समाधानभाष्यम्) अत उत्तरं पठति ‐ - - (1795 समाधानवार्तिकम्।। 1 ।।) - सनादिष्वन्तग्रहण उक्तम्- किमुक्तम्। पदसंज्ञायामन्तवचनमन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थम् इति। इदं चापि प्रत्ययग्रहणम्। अयं चापि संज्ञाविधिः।। (सूत्रारभ्यप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) किमर्थं पुनरिदमुच्यते। न भूवादयो धातव इत्येव सिद्धम्।। (सूत्रारभ्यसाधकभाष्यम्) न सिध्यति। पाठेन धातुसंज्ञा क्रियते। न चैते तत्र पठ्यन्ते।। (सूत्रप्रत्याख्यानसाधकप्रत्याक्षेपभाष्यम्) कथं तर्ह्यन्येषामपठ्यमानानां धातुसंज्ञा भवति ‐ - अस्तेर्भूः ब्रुवो वचिः चक्षिङ ख्याञ्ञिति।। (सूत्रारम्भसाधकप्रत्याक्षेपसमाधानभाष्यम्) यद्यप्येते तत्र न पठ्यन्ते। प्रकृतयस्त्वेषां पठ्यन्ते। तत्र स्थानिवद्भावात्सिद्धम्।। (सूत्रप्रत्याख्यानभाष्यम्) इमेऽपि तर्हि यद्यपि तत्र न पठ्यन्ते। येषां त्वर्थे आदिश्यन्तेउते तत्र पठ्यन्ते। तत्र स्थानिवद्भावात्सिद्धम्।। (सूत्रारम्भसाधकभाष्यम्) न सिध्यति। आदेशाः स्थानिवदित्युच्यते। न चेमे आदेशाः।। (सूत्रप्रत्याख्यानसाधकभाष्यम्) इमे अप्यादेशाः।। कथम्?। आदिश्यते यः स आदेशः। इमे चाप्यादिश्यन्ते।। (स्थानिवत्त्वानुपपत्तिभाष्यम्) एवमपि षष्ठीनिर्दिष्टस्यादेशाः स्थानिवद्भवन्तीत्युच्यते। न चेमे षष्ठीनिर्दिष्टस्यादिश्यन्ते।। (स्थानिवत्त्वोपपादनभाष्यम्) षष्ठीप्रहणं निवर्तिष्यते।। (निवृत्तिदूषणभाष्यम्) यदि निवर्तते। अपवादे उत्सर्गकृतं प्राप्नोति। कर्मण्यण् आतोऽनुपसर्गे कः इति केऽप्यण्कृतं प्राप्नोति।। (दूषणपरिहारभाष्यम्) नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयति नापवादे उत्सर्गकृतं भवतीति। यदयं श्यन्नादीन् कांश्चिच्छ्रितः करोति श्यन्श्नम्श्नाश्नुरिति।। सनाद्यन्ता धातवः।। 32 ।। (विधिप्रकरणे प्रत्ययप्रकरणे विकरणप्रकरणम्)