॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|28
SK 2303
3|1|28
गुपूधूपविच्छिपणिपनिभ्य आयः   🔊
SK 2303
सूत्रच्छेद:
गुपू-धूप-विच्छि-पणि-पनिभ्यः - पञ्चमीबहुवचनम् , आयः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|22]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
गुपू रक्षणे, धूप सन्तापे, विच्छ गतौ, पण व्यवहारे स्तुतौ च, पन च इत्येतेभ्यो धातुभ्यः आयप्रत्ययो भवति। तोपायति। धूपयति। विच्छायति। पणायति। पनायति। स्तुत्यर्थेन पनिना साहचर्यात् तदर्थः पणिः प्रत्ययम् उत्पादयति न व्यवहारार्थः। शतस्य पणते। सहस्रसय पणते। अनुबन्धश्च केवले चरितार्थः, तेन आयप्रत्ययान्तान्नात्मनेपदं भवति।
`स्तुत्यर्थेन` इत्यादि। `पण व्यवहारे स्तुतौ च` (धातुपाठः- 439) `पन च` (धातुपाठः-440) इत्यनयाऽनुपूव्र्या गणे पाठः। तत्र `पन च` (धातुपाठः-440) इत्यत्र स्तुतावित्यनुवत्र्तते, न व्यवहारार्थः तेन पणिव्र्यवहारार्थः, स्तुत्यर्थश्च,पनिः स्तुत्यर्थ एव। तदिह स्तुत्यर्थेन पणिना साहचर्यात् पनेरपि स्तुत्यर्थ एव गृह्रते। तेनासौ स्तुतावेव वत्र्तमानः प्रत्ययमुत्पादयति, न तु व्यवहारे। `शतस्य` इति। `व्यवह्मपणोः समर्थयोः` 2|3|57 इति कर्मणि षष्ठी। अत्र पणायतीत्यत्रात्मनेपदं कस्मान्न भवति, यावता पणिरयमनुदात्तेत् पठते? तत्र `अनुदात्तङितः` 1|3|12 इति यथा केवलादात्मनेपदं भवति तथायपत्प्रत्ययान्तादपि तेन भवितव्यमित्यत आह-- `अनुबन्धः` इत्यादि। यो हि तस्यानुबन्धः स आयप्रत्ययरहिते पणतौ चरितार्थः = कृतात्मनेपदकार्यः, तेनायप्रत्ययान्तादात्मनेपदं न भवति; तस्य धात्वन्तरत्वात्॥
गूपूधूपविच्छिपणिपनिभ्य आयः॥ विच्छायतीति। विच्छिरयं तुदादौ पठ।ल्ते, तत्सामर्थ्यादायप्रत्ययान्तादपि शविकरणो भवति, न तु शप्, यथा---जुगुप्सते इत्यात्मनेपदम्, तेन विच्छायन्ती विच्छायतीति ठाच्छीनद्योर्नुम्ऽ इति नुम्विकल्पो भवति। अन्ये तु सार्वधातुकेऽप्यायप्रत्ययस्यैव तुदादिपाठसामर्थ्येन विकल्पमाहुः। स्तुत्यर्थेनेति। भट्टिकाव्ये तु व्यवहारार्थादप्यायः---ठ्न चपोलेभे वणिजां पणायान्ऽ इति। अनुबन्धः केवलेऽचरितार्थ इति। अवयवेष्वचरितार्थ लिङ्गं समुदायस्य विशेषकं भवति, यथा---गुपादीनामनुदातत्वमिति भावः। ये तु व्यवहारार्थादप्यायमिच्छन्ति तेषामपि पणिष्यते पाणयिष्यतीत्यादावनुबन्धः केवले चरितार्थः॥
सिद्धान्तकौमुदी
एभ्य आयप्रत्ययः स्यात्स्वार्थे । पुगन्त-(कौमुदी-2189) इति गुणः ॥
गुपूधूपविच्छिपणिपनिभ्य आयः - गुपूधूप । एभ्य इति । गुपू धूप विच्छि पणि पनि इत्येभ्य इत्यर्थः । अर्थनिर्देशाऽभावादाह — स्वार्थ इति । आयप्रत्ययः अकारान्तः । तत्फलं तुगोपायतं नः सुमनस्यमान॑ इत्यत्र गोपायेत्यस्य धातुस्वरेणान्तोदात्तत्वेन शबकारेण एकदेशस्यापिएकादेश उदात्तेनोपादात्तः॑ इत्युदात्तत्वे,त॑मित्यस्य अदुपदेशात् परलसार्वधातुकत्वेन अनुदात्तस्यउदात्तादनुदात्तस्य स्वरितः॑ इति स्वरितत्वमिति बोध्यम् । "धातोरेकाच" इत्यतो धातोरित्यनुवृत्त्या धातोरिति विहितत्वादायप्रत्ययस्याद्र्धधातुकत्त्वात्कार्यं गुणादि भवति । तदाह — - पुगन्तेति गुण इति ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!