॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|25
SK 2563
3|1|25
सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्   🔊
SK 2563
सूत्रच्छेद:
सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यः - पञ्चमीबहुवचनम् , णिच् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|22]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
सत्याऽदिभ्यश्चूर्णपर्यन्तेभ्यः, चुरादिभ्यश्च णिच् प्रत्ययो भवति। सत्यम् आचष्ते सत्यापयति। अर्थवेदसत्यानाम् आपुग् वक्तव्यः। अर्थम् आचष्ते अर्थापयति। देवापयति। आपुग्वचनसामर्थ्याट्टिलोपो न भवति। पाशाद् विमोचने विपाशयति। रूपाद् दर्शने रूपयति। वीणयोपगायति उपवीणयति। तूलेनानुकुष्णाति अनुतूलयति। श्लोकैरुपस्तौति उपश्लोकयति। सेनयाभियाति अभिषेणयति। लोमान्यनुमार्ष्टि अनुलोमयति। त्वचं गृह्णाति त्वचयति। अकारान्तस् त्वचशब्दः। वर्मणा सन्नह्यति संवर्मयति। वर्णम् गृह्णाति वर्णयति। चूर्णैः अवध्वंसयति अवचूर्णयति। चुरादिभ्यः स्वार्थे। चोरयति। चिन्तयति। स्वाभाविकत्वादर्थाभिधानस्य यथास्वं प्रत्ययार्था निर्दिश्यन्ते।
चुरादिभ्योऽन्येंषामिह ग्रहणं प्रपञ्चार्थम्। `प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च` (वा।813) इति सिद्धत्वात्।`अर्थवेद` इत्यादि। वक्तव्यशब्दस्य व्याख्येयमित्यर्थः। व्याख्यानं तु-- प्रातिपदिकाद्धात्वर्थे बहुलमिति कार्यान्तरविधानार्थाद्बहुलणादेषां णिच्सन्नियोगेनापुग्भवतीति। सत्यशब्दस्य तु `सत्याप` इत्यत एव निपातनादापुग्भवतीति वेदितव्यम्। `विपाशयति` इति। पाशं विमोचयतीत्यर्थः। `निरूपयति` इति। रूपं पश्यतीत्यर्थः। `अभिषेणयति` इति। `उपसर्गात्` 8|3|65 इत्यादिना षत्वम्। `त्वचयति` इति। ननु च त्वच्शब्दो हलन्तः, तस्मात् णिचि `णाविष्ठवत्` (वा।813) इतीष्ठवद्भावाट्टिलोपे प्राप्ते तत्र `प्रकृत्यैकाच्` 6|4|163 इति प्रकृतिवद्भावे कृते `अत उपधायाः` 7|2|116 इति वृद्धिः प्राप्नोति, तत् कथं त्वचयतीति हि भवितव्यमित्याह-- `अकारान्तोऽयं त्वचशब्दः` इति। शब्दान्तरमेवेदमकारान्तं त्वच्शब्दसमानार्थम्। अत एव त्वच इत्यकारान्तस्य सूत्रे निर्देशः, तस्यकारस्य लोपे कृते स्थानिवद्भावाद्वृद्धिर्न भवति। `चुरादिभ्य स्वार्थ` इति। स्तेयादौ। ननु च नेह सूत्र आख्यानादयोऽर्था उपात्ताः, तत्कथं ते लभ्यन्ते? अलब्धाश्च कथं निर्दिश्यन्ते? इत्याह-- `स्वाभाविकत्वात्` इत्यादि। शब्दानामर्थाभिधानं स्वाभाविकम्,न तु वाचनिकम्; तस्याशक्यत्व#आदिति प्रागेवोक्तम्। तस्मात् स्वभावत एव यो यस्यार्थस्याभिधायकः स सूत्रानुपात्तोऽर्थो युक्त एव निर्देष्टुम्। `यथायथम्` इति। यो यस्यात्मीय इत्यर्थः॥
सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवमवर्णचूर्णचुरादिभ्यो णिच्॥ स्त्यापेत्यकार उच्चारणार्थः। सत्यमाचष्ट इति। ननु भाष्ये सत्यस्य कृञ्यापुक्, सत्यशब्दात्कृञि करोत्यर्थे णिज्भवति आपुक्च, सत्यं करोति सत्यापयतीत्युक्तम्? सत्यम्; कृञ्ग्रहणमनार्षम्, प्रदर्शनार्थो वा करोतिर्द्रष्टव्य इति मन्यते। आपुग्वक्तव्य इति। आपुग्वचनसामर्थ्याट्टिलोपो न भवति। क्वचितु वृतावेवायं ग्रन्थः पठ।ल्ते। अथ कथं पुनः शब्दापयेदिति? छन्दोवद्दषयः कुर्वन्ति। एतेन प्रक्षालापयेदिति गृह्यप्रयोगो व्याख्यातः। पाशाद्विमोचने इति। प्रायिकोऽयमर्थनिर्देशः, अन्यत्रापि भवति; अन्यथा विपाशतीति विशब्दस्य प्रयोगो न स्यात्, विशब्दविशिष्टस्यैव मोचनस्य ण्यर्थत्वात्, यथाचारक्यच्याङ्ः प्रयोगो न भवति। एवमुपवीणयदीत्यादावपि द्रष्टव्यम्। तूलमुतृणाग्रं तेनानुकृष्णाति अनुघट्टयतीत्यर्थः। अनुगृहणातीति तु पाठाअ न समीचीनोऽर्थः। अभिषेणयतीति। ठुपसर्गात् सुनोतिऽ इत्यादिना षत्वम्। अकारान्तस्त्वचशब्द इति। ठ्त्वच संवरणेऽ इत्यस्माद्धातोः ठ्पुंसि संज्ञायाम्ऽ इति घः। अवघ्वंसयतीति। विकिरतीत्यर्थः। ठ्प्रातिपदिकाद्धात्वर्थेऽ इत्येव सिद्धे सत्यस्यापुग्विधानार्थ वचनमन्येषां प्रपञ्चार्थम्। भालिन्यो ह्युपश्लोकयन्तीत्यादौ सापेक्षेभ्यो यथा स्यादित्येवमर्थ वा। कथं पुनर्विमोचनादिरर्थोऽनिर्दिष्टो लभ्यत इत्यत आह---स्वाभाविकत्वादिति। प्रत्ययार्थो निर्दिश्यत इति। सूत्रकारेणानिर्दिष्टोऽपि प्रत्ययार्थो व्याख्याकारैर्निर्दिश्यत इत्यर्थः॥
सिद्धान्तकौमुदी
॥ अथ तिङन्तचुरादिप्रकरणम्‌ ॥ । 1535 चुर स्तेये

एभ्यो णिच् स्यात् । चूर्णान्तेभ्यः । (गणसूत्रम् -) प्रातिपदिकाद्धात्वर्थे इत्येव सिद्धे तेषामिह ग्रहणं प्रपञ्चार्थम् । चुरादिभ्यस्तु स्वार्थे । पुगन्त-(कौमुदी-2189) इति गुणः । सनाद्यन्ताः--(कौमुदी-2304) इति धातुत्वम् । तिप्शबादि । गुणायादेशौ । चोरयति ॥
सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्ण- चूर्णचुरादिभ्यो णिच् - सत्याप । सत्याप पाश रूप वीणा तूल श्लोक सेना लोमन् त्वच वर्मन् वर्ण चूर्ण चुरादि — एषां द्वन्द्वात्पञ्चमी । तदाह - एभ्यो णिच्स्यादिति । कस्मिन्नर्थे इत्याकाङ्क्षायामाह — चूर्णान्तेभ्य इति । सत्यादिभ्यश्चूर्णान्तेभ्यो द्वादशभ्यः करोत्याचष्टे इत्याद्यथप्रातिपदिकाद्धात्वर्थे बहुल॑मिति वक्ष्यमाणेन सिद्धमेवाऽर्थनिर्देशनमित्यर्थः । ननु तेनैव सिद्धत्वादिह चूर्णान्तानुक्रमणं व्य्रथमित्यत आह - तेषामिह ग्रहणं प्रपञ्चार्थमिति । नच तेभ्यः स्वार्थे एव णिज्विधिरस्त्विति वाच्यं,सत्यस्यतु कृञ्यापुङ्नपात्यते । सत्यं करोति सत्यापयती॑त्यादिभाष्यविरोधादिति भावः । नामधातुप्रकरणे सत्यादिचूर्णान्तानामुदाहरणानि मूल एव स्फुटीभविष्यन्ति । चुरादिभ्यस्तु स्वार्थे इति । अर्थान्तरस्याऽनिर्देशादिति भावः । अत्र "धातोरेकाचः" इत्यतो धातोरित्यनुवर्तते । चुरादिभ्यो धातुभ्यो णिजिति फलितम् । ततश्च णिच आद्र्धधातुकत्वं सिध्यति । अन्यथा धातोरिति विहितत्वाऽभावादाद्र्धधातुकत्वं न स्यादिति बोध्यम् । तदाह — पुगन्तेति गुण इति । णिचि कृते चुर् इ इति स्थिते णिच आद्र्धधातुकत्वात्तस्मिन् चकारादुकारस्यपुगन्तलघूपधस्ये॑ति गुण इत्यर्थः ।
सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्ण- चूर्णचुरादिभ्यो णिच् - सत्यापपाश । एतस्योदाहरणानि अग्रे नामधातुषु स्फुटीभविष्यन्तीति नास्माभिरुपपाद्यन्ते । त्वचशब्दोऽकारान्तः । प्रपञ्चार्थमिति ।सत्याप॑ग्रहणं तु आपुगर्थमिति ज्ञेयम् । अन्ये त्वाहुः — सापेक्षेभ्योऽपि णिजर्थमेषामुपादानम् । अन्यथारमणीयं घटं करोती॑त्यादाविवरमणीयं रूपयती॑त्यादावपि णिज्न स्यादिति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (642) (400 णिच्प्रत्ययविधिसूत्रम्।। 6.1.2 आ. 15 सूत्रम्) (निपातनीयनिर्णयाधिकरणम्) (आक्षेपभाष्यम्) सत्यापेति किं निपात्यते।। (1770 समाधानवार्तिकम्।। 1 ।।) - सत्यस्य कृञ्ञ्यापुक् च- (भाष्यम्) सत्यस्य कृञ्ञि आपुक् च निपात्यते णिच्च। सत्सं करोति सत्यापयति।। (न्यूनताभाष्यम्) अत्यल्पमिदमुच्यते सत्यस्य इति।। (1771 न्यूनतापूरकवार्तिकम्।। 1 ।।) - णिविधावर्थवेदसत्यानामापुक्च- (भाष्यम्) णिविधावर्थवेदसत्यानामापुक् चेति वक्तव्यम्। अर्थापयति वेदापयति सत्यापयति।। (आपुकि दूषणभाष्यम्) यद्यापुक् क्रियते टिलोपः प्राप्नोति।। (पुगङ्गीकारमतभाष्यम्) एवं तर्हि पुक्करिष्यते।। (पुकि दूषणभाष्यम्) एवमपि टिलोपः प्राप्नोति।। (आगङ्गीकारभाष्यम्) एवं तर्ह्याट्करिष्यते।। (आकि दूषणभाष्यम्) एवमपि टिलोपः प्राप्नोति।। (आगङ्गीकारभाष्यम्) एवं तर्ह्यक् करिष्यते।। (आटि दूषणभाष्यम्) एवमप्यनाकारान्तत्वात् पुङ्गप्राप्नोति।। (आडङ्गीकारभाष्यम्) एवं तर्ह्याट् करिष्यते।। (आटि दूषणभाष्यम्) एवमप्यनाङ्गत्वात्पुङ्न प्राप्नोति।। (आपुडङ्गीकारभाष्यम्) एवं तर्ह्यापुट् करिष्यते।। (सर्वमतानां निर्दोषताभाष्यम्) अथ वा पुनरस्त्वापुगेव।। ननुचोक्तं टिलोपः प्राप्नोतीति। आपुक्वचनसार्मथ्यान्न भविष्यति।। अथ वा पुनरस्तु पुगेव। ननु चोक्तमेवमपि टिलोपः प्राप्नोतीति। पुग्वचनसार्मथ्यान्न भविष्यति।। अथ वा पुनरस्त्वागेव। ननु चोक्तमेवमपि टिलोपः प्राप्नोतीति।। आग्वचनसार्मथ्यान्न भविष्यति।। सत्यापपाश।। 25 ।।