Page loading... Please wait.
3|1|23 - नित्यं कौटिल्ये गतौ
॥ तस्मै पाणिनये नमः ॥
3|1|23
SK 2634
नित्यं कौटिल्ये गतौ   🔊
सूत्रच्छेदः
नित्यम् (प्रथमैकवचनम्) , कौटिल्ये (सप्तम्येकवचनम्) , गतौ (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|22
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
गतिवचनाद् धतोः कौटिल्ये गम्यमाने नित्यं यङ् प्रत्ययो भवति। कुटिलं क्रामति चङ्क्रम्यते। दन्द्रम्यते। नित्यग्रहणं विषयनियमार्थं, गतिवचनान् नित्यम् कौटिल्य एव भवति, न तु क्रियासमभिहारे। भृशं क्रामति।
धातोरित्येव। `गतौ` इति। प्रकृतिविशेषणमेतत्। गतौ वत्र्तमानाद्धातोरित्यर्थः। अमुमेवार्थं पर्यायान्तरेणाचष्टे--- `गतिवचनाद्धातोः` इति। `चंक्रकम्यते, दंद्रम्यते` इति। `क्रमु पादविक्षेपे` (धा।प।473), द्रम हम्म मीमृ गतौ (धातुपाठः-466, 467, 468) `नुगतोऽनुनासिकान्तस्य` 7|4|85 इति नुमागमः। योऽल्पीयस्यध्वनि गतागतानि करोति स कुटिलां गतिं सम्पादयन् चंक्रभ्यते देद्रम्यत इति चोच्यते। अथ नित्यग्रहणं किमर्थम्, यावताऽनभिदानादेवात्र वाक्यं न भविष्यति? न हि चङक्रम्यत इति वृत्तेरर्थं कुटिलं क्रामतीति वाक्यं शक्नोति गमयितुम्। तथा हि कुटिलं क्रामतीति वाक्यात् संशयो भवति-- किं गतिकौटिल्यम्? उत मनः-- कौटिल्यमिति? चंक्रम्यत इति वृत्तौ त्वसंशयं गतिकौटिल्यमेव गम्यते, इत्याह-- `नित्यग्रहणम्` इत्यादि। गतिकौटिल्यं विषयः। तत्र यङो नियमोऽर्थः प्रयोजनं यस्य तत् तथोक्तम्। `गतिवचनात्` इत्यादिना नियमस्य प्रयोजनं दर्शयति। `न तु` इत्यादिना तद्व्यवच्छेद्यम्। नित्यम् = सर्वकालं गतिवचनात् कौटिल्य एव भवति, न तु कदाचित् क्रियासमभिहारे। तेन `भृशं क्रामति` इति क्रियासमभिहारे पूर्वेण प्राप्तो यङ् न भवति।
नित्यं कौटिल्ये गतौ॥ ठ्धातोःऽ इति वर्ते, गताविति तस्य विशेषणम्, गतौ वर्तमानाद्धातोरिति। कौटिल्ये इति। संनिधानाद् गतिविषयमेव कौटिल्यं गम्यते। चक्रम्यते, दन्द्रम्यत इति ठ्क्रमु पादविक्षेपेऽ, द्रम मीमृ गतौ, ठ्नुगताऽनुनासिकान्तस्यऽ, योऽल्पीयस्यध्वनि गतागतानिकरोति स कुटिलां गति सम्पादयन्नेवमुच्यते। नित्यग्रहणमनर्थकम्, अनभिधानादेव वाक्यं न भविष्यति, न हि चंक्रम्यत इति वृतेरर्थ कुटिलं क्रमातीति वाक्यं शक्नोति गमयितुम्; संशयो हि वाक्याद्भवति----किं गतिकौटिल्यम्? उत वक्रहृदयत्वनिबन्धनं जिह्वाचरणमिति? वृतौ तु गतिकोटिल्यमेव नियतं गम्यते, कौटिल्यमात्रप्रतिपादने च वाक्यं निवारयितुमशक्यमनिष्ट्ंअ चात आह---नित्यग्रहणं विषयनियमार्थमिति। गतिकौटिल्यं विषयः, तत्रैव यङ् यथा स्यादित्येवमर्थमित्यर्थः, तदाह---गतिवचनान्नित्यं कौटिल्य एव भवतीति। व्यवच्छेद्यं दर्शयति---न तु क्रियासमभिहार इति। ननु यथा ठ्वडवाया वृषे वाच्येऽ इत्यपत्येप्राप्तस्ततोऽपकृष्य विधीयते, यथा वा ठ्ञीतः क्तऽ भूते प्राप्तस्ततोऽपकृष्य वर्तमाने विधीयते, एवमत्रापि धातुमात्रात्क्रियासमभिहारे यङ् विहितः, गतिवचनात् तु कौटिल्य इति? तक्रकौडिन्यन्यायेनैव बाधः सिद्धः। यथा वा विवक्षितार्थानभिधानाद्वाक्यं न भवति तथा समभिहारानवगमाद्त्र प्रत्ययो न भविष्यति। अथैवमपि वचनापेक्षा? वाक्यनिवृतावपि वचनमपेक्षस्व! तदेतन्नित्यग्रहणं चिन्त्यप्रयोजनम्॥
सिद्धान्तकौमुदी
गत्यर्थात्कौटिल्य एव यङ् स्यान्न तु क्रियासमभिहारे । कुटिलं व्रजति वाव्रज्यते ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
नित्यं कौटिल्ये गतौ - नित्यं कौटिल्ये ।नित्यं॑ शब्दोऽवधारणार्थक इत्याह — कौटिल्य एवति । तक्रकौण्डिन्यन्यायेनैवेष्टे सिद्धे नित्यग्रहणं तस्य न्यायस्याऽनित्यत्वज्ञापनार्थम् । तेनमतिबुद्धिपूजार्थेभ्यश्चे॑ति वर्तमाने क्तेनाऽबाधनात्पूजार्थेभ्यो भूते क्तः सिध्यति । ततश्चक्तस्य च वर्तमाने॑ इति षष्ठी न प्रवर्तत इतिपूजितो यः सुरासुरै॑रिति तृतीया साधुरेव । इत्यादीति । जंजभ्यते । दंदह्रते । दंदश्यते । बंभज्यते ।पस॑धातुर्दन्त्यान्तः सौत्रो गत्यर्थ इति स्पश बाधनस्पर्सनयोरित्यत्र माधवः । पंपस्यते । काशिकायां तु तालव्यान्तः क्वचिद्दृश्यते । एवं जञ्जभीति । दन्दहीतीत्यादि यङ्लुकि उदाहर्तव्यम् ।
लघुसिद्धान्तकौमुदी
गत्यर्थात्कौटिल्य एव यङ् स्यान्न तु क्रियासमभिहारे॥
महाभाष्यम्
नित्यं कौटिल्ये गतौ (2634) लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम् 6.1.14 ।। (1768 नित्यग्रहणानर्थक्यवार्तिकम्।। 7 ।।) - उत्तरयोर्विग्रहेण विशेषासंप्रत्ययान्नित्यग्रहणानर्थक्यम्- (भाष्यम्) उत्तरयोर्योगयोर्विग्रहेण विशेषस्यासंप्रत्ययान्नित्यग्रहणमनर्थकम्। नहि कुटिलं क्रामति इति चङ्क्रम्यत इति गम्यते।। (अनुयोगभाष्यम्) अथैतेभ्यः क्रियासमभिहारे यङा भवितव्यम्।। (1769 समाधानवार्तिकम्।। 8 ।।) - क्रियासमभिहारे च नैतेभ्यः- (भाष्यम्) क्रियासमभिहारे च नैतेभ्यो यङा भवितव्यम् भृशं जपति ब्राह्मणः, भृशं समिधो दहतीत्येव।। धातोरेकाचो।। 22 ।।