॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|22
SK 2629
3|1|22
धातोरेकाचो हलादेः क्रियासमभिहारे यङ्   🔊
SK 2629
सूत्रच्छेद:
धातोः - पञ्चम्येकवचनम् , एकाचः - पञ्चम्येकवचनम् , हलादेः - पञ्चम्येकवचनम् , क्रियासमभिहारे - सप्तम्येकवचनम् , यङ् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|22]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
एकाज् यो धातुर् हलादिः क्रियासमभिहारे वर्तते तस्माद् यङ् प्रत्ययो भवति। पौनःपुन्यं भृशार्थो वा क्रियासमभिहारः। नः पुनः पचति पापच्यते। यायज्यते। भृशं ज्वलति जाज्वल्यते। देदीप्यते। धातोः इति किम्? सोपसर्गादुत्पत्तिर् मा भूत्, भृशं प्राटति। एकाचः इति किम्? भृशं जागर्ति। हलादेः इति किम्? भृशमीक्षते। सूचिसूत्रमूत्र्यट्यर्त्यशूर्णोतीनां ग्रहनं यङ्विधानवेकाजहलाद्यर्थम्। सोसूच्यते। सोसूत्र्यते। मोमूत्र्यते। अटाट्यते। अरार्यते। अशाश्यते। प्रोर्णोनूयते। भृशं शोभते, भृशं रोचते इत्यत्र नेष्यते, अनभिधानात्।
`एकाच्` इति। बहुव्रीहिरयं न तत्पुरुषः; `हलादेः` इति विशेषणात्। `क्रियासमभिहारे वत्र्तते` इति। एतेन क्रियासमभिहारस्य प्रकृतिविशेषणत्वं दर्शयति। `तस्माद्यङप्रत्ययो भवति` इति। क्व? `अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति`(पु।प।पा।90) इति तत्रैव क्रियासमभिहारे। विप्रकीर्णानामकेत्र राशीकरणं समुदायभावापत्तिर्मुख्यः समभिहारः। स च क्रियागामुत्पन्नापवर्गिणीनां सहानवस्थानादेकेन च धातुनाऽनकस्याः क्रियाया युगपदनभिधानान्न सम्भवतीति गौणं समभिहारं दर्शयतुमाह--`पौनः पुन्यम्` इत्यादि। उभयमपि ह्रेतत् समभिहारसादृश्यादुपचारेण समभिहारे व्यपदेशमासादयति। यथा द्रव्याणां समाह्मतानां द्रव्यान्तरैरव्यपेतानां समाहारो भवति, तथा क्रियाणामपि क्रियान्तरैरव्यपेतानामेतदुभयं भवतीति सादृश्यम्। क्रिया च द्विप्रकारा--- प्रधाना,अप्रधाना च। तत्र प्रधानक्रिया विक्लेदनादिः, गुणक्रिया चाधिश्रयणादिः। तत्र यः फलान्तं पाकमवसाय्य क्रियान्तरमनारभ्य पुनः पाकमेवारभते स प्रधानक्रियां समभिहरति, तासां पौनःपुन्यं समभिहारः। यस्त्वधिश्रयणादीरेव क्रियाः क्रियान्तरैरव्यपेताः साकल्येन करोति स गुणक्रियाः समभिहरति, तासां भृशार्थता समभिहारः। फलातिरेको वा भृशार्थता। तथा हि--- यो ज्वलनफलमवाप्य ज्वलति, दीप्यते वा, स जाज्वल्यते देदीप्यते इति चोच्यते। `पापच्यते` इति। `सन्यङोः` 6|1|9 इति द्विर्वचनम्, `दीघोऽकितः` 7|4|83 इति दीर्घः। अत्र `क्रियासमभिहारे द्वे भवतः` (वा।886) इति द्वित्वं न भवति; क्रियासमभिहारे विधीयमानस्य यङः स्वयमेव तदभिव्यक्तौ सामथ्र्यात्। यस्तु `क्रियासमभिहारे लोड् लोटो हिस्वौ वा च तध्वमोः` 3|4|2 इति लोड् वक्ष्यते स क्रियासमभिहारव्यक्तौ स्वयमशक्त इत्यपेक्षते द्विर्वचनम्। न ह्रसौ क्रियासमभिहारे विधीयते, किं तर्हि? कर्मादिषु; `लः कर्मणि च भावे चाकर्मकेभ्यः` 3|4|69 इति वचनात्। तेन तस्य प्रयोगे द्विर्वचनं भवत्येव-- `लुनीहि लुनीहीत्येवायं लुनाति। `देदीप्यते` इति। `गुणो यङ लुकोः` 7|4|82 इति गुणः।`भृशं प्राटति` इति। असति धातुग्रहणे, एकाज् यः शब्दो हलादिः क्रियासमभिहारे वत्र्तते तस्माद्यङ प्रत्ययो भवतीत्ये। सूत्रार्थः स्यात्। ततश्च प्रपूर्वादटतेर्यङ प्रसज्येत; प्रपूर्वस्याटतेर्यः समुदायस्तस्य यथोक्तविशेषणविशिष्टत्वात्। धातुग्रहणे सत्येष प्रसङ्गो न भवति। न ह्रयं धातुः, किं तर्हि? धातूपसर्गसमुदायः। `जागर्ति` इति। आदादित्वाच्छपो लुक्। अथ क्रियाग्रहणं किमर्थम्, न समभिहार इत्येवोच्येत? नैवम्। साधनसमभिहारेऽपि स्यात्। नैतदस्ति, प्रकृतिविशेषणं ह्रेतत्। न च प्रकृतेः साधनसमभिहारे वृत्तिः सम्भवति। अपि च `करणे` 3|1|17 इति वत्र्तते, तेन समभिहारो विशेषयिष्यते-- करणसम्बन्धी चेत् समभिहारः, तत् कुतः साधनसमभिहारे प्रसङ्गः? इदं तर्हि प्रयोजनम्--- क्रियामात्रसमभिहारे यथा स्यात्; अन्यथा प्रधाने कार्यसम्प्रत्ययात् प्रधानक्रियासमभिहार एव स्यात्, न गुणक्रियासमभिहारे। `सूचि` इत्यादि। `सूच पैशून्ये` (धातुपाठः-1873), `सूत्र {वेष्टने` धातुपाठः-} अवमोचने` (धातुपाठः-1908), `मूत्र प्ररुआवणे` (धातुपाठः-1909) `अट गतौ` (धातुपाठः-295), `ऋ गतौ` (धातुपाठः-1098), `अश भोजने` (धातुपाठः-1523) `ऊर्णूञ् आच्छादने` (धातुपाठः-1039),-- आसां प्रकृतीनां यङविधौ ग्रहणं कत्र्तव्यम्, तच्च पूर्वस्यैव चकारस्यानुक्तसमुच्चयार्थत्वाल्लभ्यते, किमर्थं पुनरासां प्रकृतीनां ग्रहणमित्याह--- `अनेकाजहलाद्यर्थम्` इति। अनेकाज् अहलादिरर्थः प्रयोजनं यस्य तत्तथोक्तम्। सूच्यदीनां तिसृणां चुरादिणिजन्तानामनेकार्थं ग्रहणम्, ऊर्णोतेस्त्वनेकाजर्थमहलाद्यर्थञ्च, शेषाणां तु अहलाद्यर्थमेव। `सोसूयते` इति। `णेरनिटि` 6|4|51 इति णिलोपः, पूर्ववदभ्यासस्य गुणः। `अटाटयते` इति। `अजादेर्द्वितीयस्य` 6|1|2 इति टकारस्य द्विर्वचनम्, हलादिः शेषः, दीर्घश्च। `अरार्यते` इति। `यङि च` 7|4|30 इति गुणः। द्वितीयस्यैकाचो र्यशब्दस्य द्वर्वचनम्। `न न्द्राः संयोगादयः` 6|1|3 इति तु नास्ति, `यकारपरस्य रेफस्य प्रतिषेधः` (वा। 651) इति वचनात्। `अशाश्यते` इति। द्वितीयस्यैकाचः `श्य` इत्यस्य द्विर्वचनम्। `प्रोर्णुनूयते` इति। अत्रापि नुशब्दस्य द्विर्वचनम्। रेफस्तु न द्विरुच्यते, तथैव प्रतिषेधात्। `भृशं रोचते, भृशं शोभत इत्यत्र नेष्यते` इति। तदर्थं वेत्यनुवृत्तस्य व्यवस्थितविभाषात्वं व्याख्येयम्॥
धातोरेकाचो हलादेः क्रियासमभिहारे यङ्॥ ठ्हलादेःऽ इति विशेषणादेकाच इति बहुव्रीहिः। क्रियासमभिहारे वर्तत इति। समभिह्रियमाणायां क्रियायां हि वर्तत इत्यर्तः। अनेन समभिहारस्य प्रकृतिविशेषणत्वं दर्शयति। क्रिया हि धातुवाच्या। समभिहारविशिष्टापि क्रियैव भवति, अतः प्रकृतिविशेषणत्वमेव युक्तम्, यथा अतिशयेन शुक्लोऽपि शुक्ल एवेत्यतिशयानं प्रकृत्यर्थस्तद्वत्। तस्माद्यङ्प्रत्ययो भवतीति। क्व? अनिर्दिष्टार्याः प्रत्ययाः स्वार्थे भवन्तीति तत्रैव। समभिहारे द्योत्ये प्रकृत्यर्थसमभिह्रियमाणत्वद्योतनायेत्यर्थः, यथा प्रकृत्यर्थस्यातिशयद्योतनाय तरबादयस्तद्वत्। इह बिप्रकीर्णानं मूर्तानामेककालानामेकत्र राशीकरणं समुदायभावापतिर्मुख्यः समभिहारः, यथा---पूलादीनाम्। धातुवाच्या तु क्रियैकैव। यद्यपि ठ्दिवु क्रीडाविजिगीषाव्यवहारद्यौतिस्तुतिकान्तिगतिषुऽ इत्यनेकार्थे दिविः पठ।ल्ते, तथापि न युगपदनेकार्थमाचष्टे, किं तर्हि? प्रयोगभेदेन। यद्यपि चाश्रयभेदाद्विषयभेदाच्च भिद्यते पाकः----अन्य एव हि देवदतकर्तृकः पाकः, अन्य एव चान्यकर्तृकः, अन्यश्चौदनस्य पाकोऽन्य एव तैलादीनाम्; तथापि धातुना निवृतभेदैव सा प्रत्याय्यते। अत एव भवद्भिरास्यत इत्यादौ बहुवचनं न भवति। न खलु कर्तृभेदः कर्तृ-भेदः क्रियाव्यक्तिभेदेन व्याप्तः, एकफलावच्छिन्नामेकामेव क्रियां कुर्वत्स्वपि बहुषु पचन्तीति दर्शनात्। तदेवं धातुवाच्या समूहरूपा प्रधानक्रियैकैवेति समभिहाराभावः। अधिश्रयणादीनां तु गुणक्रियाणां युगपदेकधातुवाच्यत्वेऽपि क्रमजन्यत्वादुत्पन्नापवर्गित्वेन युगपदवस्थानाभावादमूर्तत्वाच्च कधातुवाच्यत्वेऽपि क्रमजन्यत्वादुत्पन्नापवर्गित्वेन युगपदवस्थानाभावादमूर्तत्वाच्च समभिहाराभावः। तदेवं मुख्यस्य समभिहारस्य धात्वर्थविषयेऽसम्भवाद् गौणो गृह्यते, तद्दर्शयति, तद्दर्शयति---पौनः पुन्यं भृशार्थो वेति। द्रव्याणां द्रव्यान्तरैरव्यपेतानां समभिहारो भवति, तथा क्रियाणामपि क्रियान्तरैरव्यपेतानामेतदुभयं भवति। तत्र प्रधानक्रियाणां पौनः युन्यं समभिहारः, पुनः पुनरनुष्ठीयमानविषयं हि तत्। प्रधानक्रियैव च पुनः पुनरनुष्ठीयते। अवयवक्रियाणां तु भृशार्थता समभिहारः, बुद्धिगोचरानेकसकलावयवक्रियाविषया हि सा। पापच्यत इति। ठ्दीर्घोऽकितःऽ इति दीर्घः। देदीप्यत इति। ठ्गुणो यङ्लुकोःऽ यण्èóव समभिहारस्य द्योतितत्वात्। ठ्क्रियासमभिहारे द्वे भवतः ऽ इति वा ठ्नित्यवीप्सयएःऽ इति वा द्विर्वचनं न भवति। धातोरिति किमिति। अन्यस्य क्रियासमभिहारे वृत्त्यसंभवात्प्रश्नः। भृशं प्राटतीति। अत्र धातूपसर्गसमुदायस्य विशिष्टक्रियावचनत्वाततो यङ्स्यात्, ततश्चोपसर्गस्य द्विर्वचनं स्यात्। यदि सोपसर्गसंघातस्यैव क्रियासमभिहारे वृत्तिः, प्रपापच्यत इत्यादौ यङ् न प्राप्नोति ? योऽत्र धातुः स न क्रियासमभिहारे, यश्च क्रियासमभिहारे न स धातुरिति। तस्माद्वातुरेव समभिहारविशिष्टक्रियावाची, उपसर्गस्तु सन्निधिमात्रेणोपकारकः। ततश्च संघातात्प्राप्त्यभावान्नार्थो धातुग्रहणेन। यत्र तर्हि संघातेनैव विशिष्टा क्रियोच्यते----प्रतेष्ठीयत इति, अत्र हि केवलस्तिष्ठतिर्गतिनिवृत्तिवचनः प्रपूर्वेण तु संघातेन गतिक्रियैवोच्यते, यथा---जङ्गम्यत इति? अत्राप्यनेकार्थत्वाद्धातूनां तिष्ठतिरेव गतौ तन्निवृतौ च वर्तते, उपसर्गस्तु सन्निधिमात्रेणोपकारक इति धातोरुत्पत्तिरविरुद्धा, तस्मादार्धधातुकसंज्ञार्थमेव धातुग्रहणम्। तेन ठ्ब्रुवो वचिःऽ इत्यादि भवति। आनुषङ्गिकी त्वथातुनिवृत्तिः। अथ कथं यङ्न्तादात्मनेपदं भवति? कथं च न स्यात्? इङितो धातोरात्भनेपदमुच्यते, यश्चात्र धातुर्न स ङ्त्, नि ह्ययं समुदायस्यानुबन्धः। यश्च ङ्त्प्रित्ययो नासौ धातुः। यत्र चावयवे कृतं लिङ्गमचरितार्थ तत्र समुदायस्य विशेषकं भवति, अयं ङ्कारस्तु बेभिद्यत इत्यादौ गुणनिषेधादौ चरितार्थः? कश्चिदाह---क्रियासमभिहारे यङ्त्यिकारोऽत्र प्रश्लिष्यते, स चानुदातोऽनुनासिकः प्रतिज्ञायते,तत्रानुदातत्वमवयवेऽचरितार्थ समुदायस्य विशेषकं भवति, ठनुदातेतश्च हलादेःऽ इत्येतच्च न भवति ठ्जुचङ्क्रम्यदन्द्रम्यऽ इत्यत्र चङ्क्रम्यदन्द्रम्यग्रहणाल्लिङ्गदिति, स वक्तव्यः। अथ कथं ऋतेरोयङ्न्तादात्मनेपदं भवति, सोऽपि हि ङ्कारो गुणनिवृतौ चरितार्थ इति? स चेद् ब्रूयातस्याप्यादित इकार ईकारे वा अनुदातः प्रश्लिष्यत इति, प्रतिब्रूयादेनम्---इकारे नुम्प्रसज्येत, ईकरे ठ्श्वीदितो निष्ठायाम्ऽ निष्ठायाम्ऽ इतीण्निषेधः स्यादिति? नैष दोषः; नुम्विधौ ठ्गौः पादान्तेऽ इत्यतोऽन्तग्रहणमनुवर्तते, तेनान्ते इकार इत्सञ्ज्ञको येषां तेषां नुम्। ठ्श्वीदितो निष्ठायाम्ऽ इत्यत्राप्येकाच इति वर्तते? सत्यम; प्रतिविहितमायुष्मता, मुधा पुनरयं प्रयासः, तथा हि---ठनुदातङ्तिःऽ इत्यत्र न धातुग्रहणमस्ति, ततः किम? इदं ततो भवति---प्रत्ययमेव ङ्तिमाश्रित्यात्मनेपदं सिद्धं भवति। न चैवमशिश्रियद् अवोचदित्यादौ चङ्ङ्भ्यामपि प्रसङ्गः; प्रागेव विकरणेभ्यः ठनुदातङ्तिःऽ इत्येतत्प्रकरणं प्रवर्तते; अन्यथा ठ्वर्ततेऽ इत्यादौ विकरणव्यवधानान्नियमो न स्यात्। यथा च प्रागेव विकरणेभ्यो नियमः प्रवर्तते, प्रवृते तु नियमे विकरण इति तथा तत्रैव प्रतिपादितमित्यलमियता। सूचिसूत्रीत्यादि। सूच्यादिभ्यो यङ् वक्तव्यः, किमर्थम्? सूच्यादीनामनेकाजर्थम्, अशादीनामहलाद्यर्थम्, ऊर्णोतेस्त्वनेकाजर्थमहलाद्यर्थं च। सोसूच्यत इति। ठ्सूच पैशुन्येऽ, सूत्र अवमोचनेऽ, मूत्र प्रस्रवणेऽ चुरादिण्यन्ताः। अत्र णिलोपोऽपि यङ् आर्धधातुकत्वे प्रयोजनम्। अटाट।ल्ते। ठट पट गतौऽ, ठजादेर्द्वितीयस्यऽइति ट।ल्शब्दस्य द्विर्वचनम्। अशर्यते इति। ठृ गतौऽ ठ्गुणोऽतिसंयोगाद्योःऽ ठ्यङ् चिऽ इति गुणः, ठ् न न्द्राः संयोगादयःऽ इत्यत्र ठ्यदा रपरस्य प्रतिषेधःऽ इति वचनाद्रेफस्य द्विर्वचनम्। अशाश्यते इति। अश्नोतेरशेश्च ग्रहणमित्यागमः। प्रोर्णोनूयते इति। ठूर्णुञ् आच्छादनेऽ नोपधोऽयम्, आष्टमिकं तु णत्वम्, तस्यासिद्धत्वान्नुशब्दस्य द्विर्वचनम्। ननु ठ्पूर्वत्रासिद्धयिमद्विर्वचने? स्यादेतत्----आष्टमिकं तु द्विर्वचनमभिप्रेत्य तदुच्यते, यथा चौजढदित्यत्र ढत्वादीनामसिद्धत्वाद्धत इत्येतद् द्विरुच्यते इति? तन्न; एवं हि षुपिभूतो द्विरुच्यत इति वक्ष्यमाणं व्याहन्येत। एवं तर्हि पूर्वत्रासिद्धीयमद्विर्वचन इत्येतदनित्यम्, ठुभौ साभ्यासस्यऽ इति लिङ्गात्; अन्यथा ठनितेःऽ इति णत्वे कृते तस्य सिद्धत्वाण्णिशब्दस्य द्विर्वचने सति सिद्धं स्यात्प्राणिणिषतीति। इह कस्मान्न भवति---लुनीहि लुनीहित्येवायं लुनातीति? भवत्येव। लोलूयत इति लोट् तर्हि न प्रप्नोति यङ बाधितत्वात्, अन्तरङ्गो यङ् क्रियासमभिहारमात्रापेक्षत्वात्; लोट् तु बहिरङ्गः, क्रियाभेदाश्रये धातुसम्बन्धे भावकर्मकर्तृषु च विधानात्। सावकाशश्च लोट्, कोऽवकाशः? अनेकाजहलादिश्च---जागृहि जागृहीत्येवायं जागर्ति, ईक्षस्वेक्षस्वेत्येवायमीक्षत इति। एवं तर्हि वेत्यनुवृतेः पक्षे पङ्, यदा न यङ् तदा लोड् भविष्यति। यङेऽकारोऽटाट।ल्ते इत्यादौ द्विर्वचनार्थः॥
सिद्धान्तकौमुदी
॥ अथ तिङन्तयङ्प्रकरणम्‌ ॥

पौनः पुन्यं भृशार्थश्च क्रियासमभिहारस्तस्मिन् द्योत्ये यङ् स्यात् ॥
अमावस्यदन्यतरस्याम् - अमावस्यद । अधिकरणे इति । निपातनलभ्यमिदम् ।अमे॑त्यस्य विवरणम् — सहेति ।ऋहलोण्य॑दित्यनुपदमेव प्राक् प्रसङ्गाद्व्याख्यातमपि सूत्रक्रमात्पुनरुपात्तम् । कुत्वमिति । पचेण्र्यतिचजो॑रिति कुत्वमिति भावः । ननुपाणौ सृजेण्र्य॑दिति व्यर्थम्,ऋहलो॑रित्येव सिद्धेरित्यत आह — ऋदुपधलक्षणस्येति ।ऋदुपदाच्चाऽक्लृपिचृतेः॑ इति ण्यदपवादस्य क्यपो बाधनाथमतित्यर्थः । पाणिसग्र्या रज्जुरिति । ण्यतिचजो॑रिति कुत्त्वम् । समवपूर्वाच्चेति । वार्तिकमिदम् ।सृजेण्र्य॑दिति शेषः ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (639) (699 यङ्प्रत्ययविधिसूत्रम्।। 6.1.2 आ. 12 सूत्रम्) (समभिहारशब्दार्थनिर्णयाधिकरणम्) (आक्षेपभाष्यम्) समभिहार इति कोऽयं शब्दः?।। (उत्तरभाष्यम्) समभिपूर्वाद्धरतेर्भावसाधनो घञ् ‐ - समभिहरणं समभिहार इति। तद्यथा ‐ - -(पुष्पाभिहारः) उत्पलाभिहारः मालाभिहारः (फलाभिहारः) इति।। (उत्तरबाधकभाष्यम्) विषम उपन्यासः। बह्व्यो हीमाः सुमनसः तत्र युक्तः समभिहार इति। इह पुनरेका क्रिया।। (उत्तरसाधकभाष्यम्) यद्यप्येका सामान्यक्रिया। अवयवक्रियास्तु बह्व्यः। अधिश्रयणोदकासेचनतण्डुलावपनैधोपकर्षणक्रियाः। ताः कश्चित् कार्त्स्येन करोति। कश्चिदकार्त्स्येन। तत्र यः कार्त्स्येन करोति स उच्यते पापच्यत इति। पुनः पुनर्वा पचति पापच्यते इति।। (धातुग्रहणप्रत्याख्यानाधिकरणम्) (पूर्वपक्षभाष्यम्) अथ धातुग्रहणं किमर्थम्?। (प्रयोजनभाष्यम्) इह मा भूत् ‐ - प्राटति भृशमिति। (प्रत्याख्यानभाष्यम्) अत उत्तरं पठति ‐ - (1762 प्रत्याख्यानवार्तिकम्।। 1 ।।) - यङ्विधौ धातुग्रहण उक्तम्- (भाष्यम्) यङ्विधौ धातुग्रहणे उक्तम्। किमुक्तम्?। तत्र तावदुक्तम् ‐ - - कर्मग्रहणात्सन्विधौ धातुग्रहणानर्थक्यं सोपसर्गे कर्मेति चेत्कर्मविशेषकत्वादुपसर्गस्यानुपसर्गे कर्म। सोपसर्गस्य हि कर्मत्वे धात्वधिकारेपि सनोऽविधानमकर्मत्वात् इति एवमिहापि क्रियासमभिहारग्रहणाद्यङ्विधौ धातुग्रहणानर्थक्यम्। सोपसर्गः क्रियासमभिहार इति चेत् क्रियासमभिहारविशेषकत्वादुपसर्गस्यानुपसर्गः क्रियासमभिहारः। सोपसर्गस्य हि क्रिया समभिहारत्वे धात्वधिकारेऽपि यङोऽविधानमक्रियासमभिहारत्वाद् इति।। (एकाज्झलादिग्रहणप्रत्याख्यानाधिकरणम्) (पूर्वपक्षभाष्यम्) अथैकाज्झलादिग्रहणं किमर्थम्?। (समाधानभाष्यम्) इह मा भूत् ‐ - जागर्त्ति भृशम्। इर्क्षते भृशमिति।। (1763 प्रत्याख्यानवार्तिकम्।। 2 ।।) - एकाज्झलादिग्रहणे चोक्तम्- (भाष्यम्) एकाज्झलादिग्रहणे चोक्तम्। किमुक्तम्। तत्र तावदुक्तम् ‐ - कर्मसमानकर्तृग्रहणानर्थक्यं चेच्छाभिधाने प्रत्ययविधानात्। अकर्मणो ह्यसमानकर्तृकाद्वा अनभिधानाद् इति। इहापि एकाज्झलादिग्रहणानर्थक्यं च क्रियासमभिहारे यङ्वचनाद् अनेकाचो हलादेर्ह्यनभिधानम् इति।। तच्चावश्यमनभिधानमाश्रयितव्यम्। क्रियमाणेपि ह्येकाज्झलादिग्रहणे यत्रैकाचो हलादेश्चोत्पद्यमानेन यङाऽर्थस्याभिधानं न भवति, न भवति तत्रोत्पत्तिः तद्यथा ‐ - - भृशं शोभते भृशं रोचते।। यत्र चानेकाचोऽहलादेर्वोत्पद्यमानेन यङाऽर्थस्याभिधानं भवति, भवति तत्रोत्पत्तिः। तद्यथा ‐ - अटाट्यते अरार्यते अशाश्यते सोसूच्यते सोसूत्र्यते मोमूत्र्यते।। (1764 न्यूनतापूरकवार्तिकम्।। 3 ।।) - ऊर्णोतेश्चोपसंख्यानम्। ऊर्णोतेश्चोपसंख्यानं कर्तव्यम्। प्रोर्णोनूयते। अत्यल्पमिदमुच्यते - ऊर्णोतेरिति। सूचिसूत्रिमूत्र्यट्यर्त्यशूर्णोतिग्रहणं यङ्विधावनेकाजहलाद्यर्थम्। (भाष्यम्) सूचिसूत्रिमूत्र्यटर्‌यत्यशूर्णोतीनां ग्रहणं कर्तव्यम्। किं प्रयोजनम्?। यङ्विधावनेकाजहलाद्यर्थम्। सोसूच्यते। सोसूत्र्यते। मोमूत्र्यते। अटाट्यते। अरार्यते। अशाश्यते। प्रोर्णोनूयते।। (ःढ़द्य;र्णुग्रहणानावश्यकताभाष्यम्) ऊर्णोतेर्न वक्तव्यः। वाच्य ऊर्णोर्णुवद्भावो यङ् प्रसिद्धिः प्रयोजनम्। आमश्च प्रतिषेधार्थमेकाचश्चेडुपग्रहात्।। (1766 लोटो यङ्बाधकत्ववार्तिकम्।। 5 ।।) - क्रियासमभिहारे यङो विप्रतिषेधेन लोड्विधानम्- (भाष्यम्) क्रियासमभिहारे यङो लोड्भवति विप्रतिषेधेन। क्रियासमभिहारे यङ् भवतीत्यस्यावकाशाः ‐ - धातुर्य एकाज्झलादिः क्रियासमभिहारे वर्तते, अधातुसंबन्धश्च लोलूयते। पोपूयते।। लोटोऽवकाशः ‐ - - धातुर्योनेकाजहलादिः क्रियासमभिहारे वर्तते, धातुसंबन्धश्च स भवान् जागृहि जागृहीत्येवायं जागर्ति, स भवान् ईहस्व ईहस्व इत्येव अयम् इर्हते ।। धातुर्य एकाज्झलादिः क्रियासमभिहारे वर्तते धातुसंबन्धश्च, तस्माद् उभयं प्राप्नोति ‐ - स भवान् लुनीहि लुनीहि इत्येवायं लुनाति। लोड्भवति विप्रतिषेधेन ।। (अनुयोगभाष्यम्) न तर्हीदानीमिदं भवति ‐ - स भवान् लोलूयस्व लोलूयस्वेत्येवायं लोलूयत इति।। (समाधानभाष्यम्) भवति च।। (1767 विप्रतिषैधवैर्यथ्यवार्तिकम्।। 6 ।।) - न वा नानार्थत्वात्कर्तृकर्मणो हि लविधानं क्रियाविशेषे स्वार्थे यङ्- (भाष्यम्) न वार्थो विप्रतिषेधेन। किं कारणम्? नानार्थत्वात्। का नानार्थता?। कर्तृकर्मणोर्हि लोड्विधीयते। क्रियाविशेषे स्वार्थे यङ्। तत्रान्तरङ्गत्वाद्यङा भवितव्यम्।। (अनुयोगभाष्यम्) न तर्हीदानीमिदं भवति ‐ - स भवान् लुनीहि लुनीहीत्येवायं लुनातीति।। (समाधानभाष्यम्) भवति च। विभाषा यङ्। यदा न यङ् तदा लोट्।। (वार्तिकशेषभाष्यम्)