॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|17
SK 2673
3|1|17
शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे   🔊
SK 2673
सूत्रच्छेद:
शब्द-वैर-कलह-अभ्र-कण्व-मेघेभ्यः - पञ्चमीबहुवचनम् , करणे - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
शब्द वैर कलह अभ्र कन्व मेघ इत्येतेभयः करणे करोत्यर्थे क्यङ् प्रत्ययो भवति। शब्दम् करोति शब्दायते। वैरायते। कलहायते। अभ्रायते। कण्वायते। मेघायते। सुदिनदुर्दिननीहरेभ्यश्चेति वक्तव्यम्। सुदिनायते। दुर्दिनायते। नीहारायते। अटाट्टाशीकाकोटापोटासोटाप्रुष्टाप्लुष्टाग्रहणं कर्तव्यम्। अटायते। अट्टायते। शीकायते। कोटायते। पोटायते। सोटायते। प्रुष्टायते। प्लुष्टायते।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
सिद्धान्तकौमुदी
एभ्यः कर्मभ्यः करोत्यर्थे क्यङ् स्यात् । शब्दं करोति शब्दायते । पक्षे तत्करोतीति णिजपीष्यत इति न्यासः । शब्दयति ॥सुदिनदुर्दिननीहारेभ्यश्च (वार्तिकम्) ॥ सुदिनायते ॥
शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे - शब्दवैर । करणं - क्रिया । तदाह — करोत्यर्थे इति ।तत्करोती॑ति णिचोऽपवादः । पक्षे इति । कदाचिदित्यर्थः । न्यास इति । भाष्याऽनारूढत्वमत्र अरुचिबीजम् । सुदिनदुर्दिन इति- वार्तिकम् ।करोत्यर्थे क्य॑हिति शेषः ।
शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे - शब्दवैर । कर्मण इत्यनुवर्तत इत्याह — एभ्यः कर्मभ्य इति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे (634) (695 क्यङ्प्रत्ययविधिसूत्रम्।। 6।1।2 आ. 9 सूत्रम्) (1755 न्यूनतापूरकवार्तिकम्।। 2 ।।) - अटाट्टाशीकाकोटापोटासोटाप्रुष्टप्लुष्टाग्रहणम्- (भाष्यम्) अटाट्टाशीकाकोटापोटासोटाप्रुष्टाप्लुष्टाग्रहणं कर्तव्यम्। अटा ‐ - अटायते। अट्टा ‐ - अट्टायते। शीका ‐ - -शीकायते। कोटा ‐ - कोटायते। पोटा ‐ - -पोटायते। सोटा ‐ - सोटायते। प्रुष्टा ‐ प्रुष्टायते। प्लुष्टा ‐ - प्लुष्टायते।। (1756 न्यूनतापूरकवार्तिकम्।। 2 ।।) - सुदिनदुर्दिनाभ्यां च- (भाष्यम्) सुदिनदुर्दिनाभ्यां चेति वक्तव्यम्। सुदिनायते। दुर्दिनायते।। (1757 वार्तिकम्।। 3 ।।) - नीहाराच्च- (भाष्यम्) नीहाराच्चेति वक्तव्यम्। नीहारायते।। शब्दवैर।। 17 ।।