Page loading... Please wait.
3|1|150 - आशिषि च
॥ तस्मै पाणिनये नमः ॥
3|1|150
SK 2912
आशिषि च   🔊
सूत्रच्छेदः
आशिषि (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
आशिषि गम्यमानायां धातुम् आत्रात् वुन् प्रत्ययो भवति। जीवतात् जीवकः। नन्दतात् नन्दकः। आशीः प्रार्थनाविशेषः। स च इह क्रियाविषयः। अमुष्याः क्रियायः कर्ता भवेतित्येवम् आशास्यते। इति श्रीज्यादित्यविरचितायां काशिकायां वृत्तौ तृतीयाध्यायस्य प्रथमः पादः। तृतीयाध्यायस्य द्वितीयः पादः।
`आशिषि गम्यमानायाम्` इति। न वाच्यायाम्। `कत्र्तरि कृत्` 3|4|67 इति कर्त्तुरेव प्रत्ययान्तवाच्यत्वात्। `धातुमात्रात्` इति। धातुसामान्यविवक्षितत्वात्, प्रुसृल्वाञ्च निवर्तितत्वात्। अन्यस्य चेह धातुविशेषस्यानाश्रयणात्। धातुमात्राश्रयो भवति, न तु कुतश्चिदेव विशेषात्। `जीवतात्, नन्दतात्` इति। आशिषि लोट्प्रयोगेण जीवकनन्दयोस्तत्समानार्थतां दर्शयति। का पुनरियमाशीर्नामेत्याह-- `आशीः प्रार्थनाविशेषः` इति। अप्राप्तस्याभीष्टस्य वस्तुनः प्रार्थना = आशीः। `सा चेह क्रियाविषया`इति। क्रिया विषयोऽस्या इति बहुव्रीहिः। एष चार्थो धातुग्रहणात्, धातोश्च क्रियावाचित्वाद्विज्ञायते। `अमुष्याः क्रियायाः` इति। जीवनक्रियाया नन्दनक्रियायाश्च कत्र्ता भवेदित्येवमाशास्यते-- जीवनं नन्दनञ्च ते भूयादिति॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्जिकायांतृतीयस्याध्यायस्यप्रथमः पादः
आशिषि च॥ आशिषि गम्यमानायामिति। न वाच्यायाम्; कर्तरि कृत्ऽ इति कर्तुरेव वाच्यत्वात्। प्रार्थनाविशेष इति। अप्राप्तस्याभिलषितस्य प्राप्तुमिच्छा प्रार्थनाउआशीः। स चेत्क्रियाविषय इति। ठ्धातोःऽ इत्यधिकाराद्, धातोश्च क्रियावचनत्वात्। अमुष्याः क्रियाया इति। जीवनादिकायाः, अनेन प्रयोक्तृधर्मत्वमाशिषो दर्शयति। जीवतादिति। आशिषि लोट्प्रयोगेणोदाहरणे आशिषं दर्शयति॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यो तृतीयस्याध्यायस्य प्रथमः पादः॥
सिद्धान्तकौमुदी
आशीर्विषयार्थवृत्तेर्धातोर्वुन् स्यात्कर्तरि । जीवतात्-जीवकः । नन्दतात्--नन्दकः । आशीः प्रयोक्तुर्धर्मः । आशासितुः पित्रादेरियमुक्तिः ॥
आशिषि च - आशिषि च । जीवक इत । आशास्यमानजीवनक्रियाश्रय इत्यर्थः । एवं नन्दकः । आशीरिति । आशासनम् = अयमित्थं भूयादिति प्रार्थनं, शब्दप्रयोक्तृकर्तृकमिति यावत् । तत आशासितुः पित्रादेरियमुक्तिः । इयं = नन्दकशब्दप्रयोगः । औचित्यादिति भावः । [इति तृतीयाध्यायस्य प्रथमः पादः] । अथ तृतीयाध्यायस्य द्वितीयः पादः ।
आशिषि च - आशिषि च । अप्राप्तप्रार्थनमाशीः । सा च प्रयोक्तृधर्मो न प्रत्ययार्थः,कर्तरि कृ॑दिति कत्र्रर्थे विधानादित्याशयेनाह — आशीर्विषयार्थेत्यादिना । जीवतादिति । जीवनं तव भूयादित्यर्थः । जीवक इति । स्त्रियां तु टापिआशिषि वुनश्च ने॑ति निषेधात्प्रत्ययस्था॑दिति इत्त्वाऽभावः । जीवका । कर्मण्यण् । उपपदसमास इति ।तत्रोपपदम॑मिति कर्मादिवाच्यकुम्भादिवाचकपदस्योपपदसंज्ञायाम्उपपद[मति॑ ङिति] समास इत्यर्थः । कुम्भकार इति । अणि कृतेकर्तृकर्मणोः कृतिर॑ इति षष्ठन्तस्य कुम्भशब्दस्य कारशब्देन समासः । *ईक्षिक्षमिभ्यां च । शेषत्वविवक्षायामिति । पदसंस्कारपक्षे तु धरतीति धरः, गङ्गाया धर इति कर्मणि या षष्ठी तदन्तेन समास इति सुवचम् । स्यादेतत् — धातोर्विधीयमानस्याऽणादेः पदविधित्वाऽभावेन समर्थपरिभाषाया अनुपस्थानात्पश्यति कुम्भं, करोति कटमित्यादावसमर्थादपि धातोरणादयः स्युरिति चेत् । अत्राहुः — कुम्भाद्युपपदे विधीयमानस्याऽणादेरपि पदाश्रितारविधित्वात्समर्थपरिभाषोपस्थानान्नोक्तदोषः । उपोच्चारितं पपदं ह्रुपपदं, पदं च सुप्तिङन्तमिति प्रागेवोक्तत्वादिति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.