॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|15
SK 2671
3|1|15
कर्मणः रोमन्थतपोभ्यां वर्तिचरोः   🔊
SK 2671
सूत्रच्छेद:
कर्मणः - पञ्चम्येकवचनम् , रोमन्थ-तपोभ्याम् - पञ्चमीद्विवचनम् , वर्त्तिचरोः - सप्तमीद्विवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
रोमन्थशब्दात् तपःशब्दाच् च कर्मणो यथाक्रमं वर्तिचरोरर्थयोः क्यङ् प्रत्ययो भवति। रोमन्थं वर्तयति रोमन्थायते गौः। हनुचलने इति वक्तव्यम्। इह मा भूत्, कीटो रोमन्थं वर्तयति। तपसः परस्मैपदम् च। तपशचरति तपस्यति।
कर्मण इति पञ्चमी; रोमन्थतपोभ्यां पञ्चम्यन्ताभ्यां सामानाधिकरण्यात्। सत्यपि ताभ्यां सामानाधिकरण्ये द्विवचनं न भवति, प्रत्येकं वाक्यपरिसमाप्तेः। ` वर्त्तिचरोः` इति। वत्र्तनं वर्त्तिः, ण्यन्तात् स्त्रियां क्तिन्। ननु च क्तिना न भवितव्यम्, `ण्यासश्रन्थो युच्` 3|3|107 इति युचा बाधितत्वात्। अस्मादेव निपातनात् क्तिन् भविष्यतीत्यदोषः। चरणं चरिति सम्पदादित्वात् क्विप्।`हनुचलने` इत्यादि। अभ्यवह्मतस्य यत् पुनरुद्गीर्य चर्वणं हनुचलनम्। अत्रार्थे रोमन्थशब्दात् क्यङ भवतीत्येतदर्थरूपं व्याख्येयम्। व्याख्यानं तु वाग्रहणमनुवर्त्त्य तद्व्यवस्थितरकविभाषात्वमाश्रित्य कत्र्तव्यम्। वाग्रहणं त्ववश्यमनुवत्र्तयितव्यम्, रोमन्थं वत्र्तयतीति वाक्यं यथा स्यात्। `कीटो रोमन्थं वत्र्तयति` इति। उद्गीर्णं वहिर्निरस्तमवगीर्णं वा पृष्ठान्तेन निर्गतं रोमन्थाख्यं द्रव्यं वत्र्तयति, गुटिकां करोतीत्यर्थः। तेनात्र हनुचलनं न विद्यते। मूलोदाहरणे तु विद्यत एव, तथा हि रोमन्थायत इति। अभ्यवह्मतं पुनराकृष्य चर्वयीत्यर्थः। तच्चर्वणं हनुचलनात्मकमेव।अन्ये तु हनुचलने प्रत्ययमन्यथा प्रतिपादयन्ति। अस्ति चायं रोमन्थशब्दः क्रियापदार्थको यो रोमन्थशब्दात् प्रातिपदिकाद्धात्वर्थ इत्यादिना णिचमुत्पाद्य घञन्तो व्युत्पाद्यते, स ह्रभ्यवह्मतस्य द्रव्यस्य पुनराकृष्य यच्चर्वणं तत्र वर्तते। अस्ति च द्रव्यवचनोऽयं य उद्गीर्णमवगीर्णं वा रोमन्थक्रियाविशिष्टं द्रव्यमाह। तत्र यः क्रियावचनस्तस्येदं ग्रहणम्, यतो द्रव्येऽप्ययं वत्र्तमानः क्रियाद्वारेणैव वत्र्तते। अतो द्रव्ये गौणः, क्रियायां मुख्यः; गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः (व्या।प।4)। तेन क्रियावचनादेव भवति, न द्रव्यवचनादिति।`तपसः परस्मैपदं च` इति। वक्तव्यमित्यपेक्षते। ङित्त्वादात्मनेपदे प्राप्ते परस्मैपदं वक्तव्यम् = व्याख्येयम्। व्याख्यानं तु `अनुदात्तङितः` 1|3|12 इति सूत्रे `नपुंसकमनपुंसकेन` 1|2|69 इत्यादेः सूत्रान्मण्डूकप्लुतिन्यायेनानुवत्र्तमानस्यान्थतरस्यांग्रहणस्य व्यवस्थितविभाषात्वमाश्रित्य कत्र्तव्यम्। तेन तपसः क्यङन्तादात्मनेपदं न भवति। तदभावात् `शेषात् कत्र्तरि परस्मैपदम्` 1|3|78 इति परस्मैपदमेव भवति।
कर्मणो रोमन्थतपोभ्यां वर्तिचरोः॥ ठ्कर्मणःऽ इति पञ्चमी, रोमन्थतपोभ्यामित्यनेन सामानाधिकरण्यात्। प्रत्येकसम्बन्धात्वेकवचनम्। वर्तीति। ण्यन्ताद् वृतेः ठ्ण्यासश्रन्थो युच्ऽ इति युचि प्राप्तेऽस्मादेव निपातनात् क्तिन्। युजपि भवति---वर्तना । चरणं चर्, संपादित्वाद्भावे क्विप्। हनुचलन इति। हनुचलनसहचरितं चर्वितस्य मुखप्रदेशे आकृष्य चर्वणं तत्रेत्यर्थः। कीटो रोमन्थं वर्तयतीति। अवगीर्णमपादानप्रदेशान्निः सृतं रोमन्थाख्यं द्रव्यं वर्तयतिउ वृतं करोति, गुलिकां करोतीत्यर्थः। नात्र हनुचलनमस्ति। तपसः परस्मैपदं चेति। एवं च ठ्नमोवरिवःऽ आदिसूत्रे तपः शब्दः पठितव्यस्तथा तु न कृतमित्येव। इह ठ्तपस्यते लोकं जिगीषुरग्नेःऽ इति ठ्तपस्यते लोकं जिगीषुरग्नेःऽ इति छान्दसत्वादात्मनेपदम्॥
सिद्धान्तकौमुदी
रोमन्थतपोभ्यां कर्मभ्यां क्रमेण वर्तनीयां चरणे चार्थे क्यङ् स्यात् । रोमन्थं वर्तयति रोमन्थायते ॥ ।हनुचलन इति वक्तव्यम् (वार्तिकम्) ॥ चर्वितस्याकृष्यपुनश्चर्वण इत्यर्थः । नेह कीटो रोमन्थं वर्तयति । अपानप्रदेशान्निःसृतं द्रव्यमिह रोमन्थः । तदश्नातीत्यर्थं इति कैयटः । वर्तुलं करोतीत्यर्थं इति न्यासकारहरदत्तौ ॥ ।तपसः परस्मैपदं च (वार्तिकम्) ॥ तपश्चरति तपस्यति ॥
कर्मणः रोमन्थतपोभ्यां वर्तिचरोः - कर्मणो रोमन्थ । वृतुधातोण्र्यन्तात्धात्वर्थनिर्देशे इग्वक्तव्यः॑ इति इकि वर्तिशब्दः । आवर्तनमर्थः । चरेः संपदादित्वाद्भावे क्विप् । वर्ति चर अनयोद्र्वन्द्वात्सप्तमी । आवर्तने चरणे चेति लभ्यते । कर्मशब्देन कर्मकारकं विवक्षितम् । तपोभ्यामिति । रोमन्थमिति । उद्गीर्णस्य निगीर्णस्य वा मन्थो रोमन्थ इति भाष्यम् । उद्गीर्णस्य = उदरादुपरि कण्ठ्दवारा निर्गतस्य, निगीर्णस्य = अपानद्वारा निर्गतस्य च मन्थः = चर्वणं रोमन्थ इत्यर्थः । वर्तयतीति । आवर्तयतीत्यर्थः । हनुचलन इति । हनु = तालु, तच्चलने सत्येव अयं विधिरित्यर्थः । तथा च उदरगतं भक्षितं द्रव्यं तृणादिकं पुनःपुनराकृष्य तालुचलनेन चूर्णितस्य पुनः पुनः प्राशने रोमन्थशब्दात्क्यङिति फलितम् । तदाह — चर्वितस्येति । हनुचलनेन भक्षितस्य उदरं प्रविष्टस्य पुनः पुनराकृष्य हनुचलनेन भक्षणे गम्ये इति फलितमित्यर्थः । कीट इति । इह हनुचलनाऽभावान्न क्यङिति भावः । तदेवोपपादयति — अपानेति । तपसः परस्मैपदं चेति — वार्तिकम् । तपश्शब्दः कर्मकारकवृत्तिः पूर्वसूत्राच्चरणे क्यङं लभते, ङित्त्वप्रयुक्तमात्मनेपदं बाधित्वा परस्मैपदमेव च लभते इत्यर्थः । तपस्यतीति । प्रातिपदिकादेवास्य क्यङुत्पत्तेरन्वर्वर्तिविभक्त्यभावात् "नः क्ये" इति नियमाच्च पदत्वाऽभावान्न रुत्वमिति भावः ।
कर्मणः रोमन्थतपोभ्यां वर्तिचरोः - कर्मणो ।रोमन्थतपोभ्या॑मित्यनेन सामानाधिकरण्यात्कर्मण इति पञ्चमी । प्रत्येकं संबन्धादेकवचनमित्याह — कर्मभ्यामिति । वर्तनायां चरण इति । सूत्रेवर्ती॑ति ण्यन्ताद्वृतेःण्यासश्रन्थे॑ति युचं बाधित्वाऽस्मादेव निपातनात्क्तिन् । चर्तेस्तु संपदादित्वाद्भावे क्विबिति भावः । केचित्तु वर्तिशब्दो वर्तयतेःइक्श्तिपौ॑ इति इकि रूपम् । लक्षणया चाऽर्थलाभ इत्याहुः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
कर्मणो रोमन्थतपोभ्यां वर्तिचरोः (632) (393 क्यङ्प्रत्ययविधिसूत्रम्।। 3।1।3 आ. 7. सूत्रम्) (रोमन्थपदार्थनिर्णयाधिकरणम्।) (आक्षेपभाष्यम्) रोमन्थ इत्युच्यते। कोऽयं रोमन्थो नाम?। (समाधानभाष्यम्) उद्गीर्णस्य वावगीर्णस्य वा मन्थो रोमन्थः। यद्येवं। (1751 वार्तिकम्।। 1 ।।) - हनुचलने- (भाष्यम्) हनुचलन इति वक्तव्यम्। इह मा भूत् ‐ - कीटो रोमन्थं वर्तयतीति।। (अनुयोगभाष्यम्) तत्तर्हि वक्तव्यम्। (1752 समाधानवार्तिकम्।। 2 ।।) - न वानभिधानात्- (भाष्यम्) न वा वक्तव्यम्।। कस्मान्न भवति कीटो रोमन्थं वर्तयतीति?। अनभिधानात्।। (1753 न्यूनतावार्तिकम्।। 3 ।।) - तपसः परस्मैपदं च- (भाष्यम्) तपसः परस्मैपदं चेति वक्तव्यम्। तपश्चरति तपस्यति।। (आक्षेपभाष्यम्) कथं तपस्यते लोकजिगीषुरग्नेः।। (समाधानभाष्यम्) छान्दसत्वाद् भविष्यति।। कर्मणो।। 15 ।।