॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|145
SK 2907
3|1|145
शिल्पिनि ष्वुन्  
SK 2907
सूत्रच्छेद:
शिल्पिनि - सप्तम्येकवचनम् , ष्वुन् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
धातोः ष्वुन् प्रत्ययो भवति शिल्पिनि कर्तरि। नृतिखनिरञ्जिभ्यः परिगणनं कर्तव्यम्। नर्तकः। खनकः। रजकः। नर्तकी। खनकी। रजकी। रञ्जेरनुनासिकलोपश्च।
`शिल्पिनि कत्र्तरि` इति। पूर्ववदुपाधित्वं दर्शयन्नुपपदत्वमपाकरोति। एतच्च रजकस्य वस्त्रं ददातीति भाष्यकारप्रयोगाल्लभ्यते।`नृतिखनिरञ्जिभ्यः परिगणनम्` इति। एतच्च विभाषेत्यनुवृत्तेव्र्यवस्थितविभाषात्वाल्लभ्यते। `रञ्जेरनुनासिकलोपश्च` इति। एषोऽपि तत एव भाष्यकारप्रयोगाल्लभ्यते। किञ्च `जनीजृष्क्नसुरञ्जोऽमन्ताश्च` (धातुपाठः-819 तः पश्चात्) इति यद् रञ्जेर्मित्त्वं शास्ति, तज्ज्ञापयति-- अक्ङित्यपि रञ्जेरनुनासिकलोपो भवतीति। मित्त्वस्य ह्रेतदेव प्रयोजनम्- `मितां ह्यस्वः` 6|4|92 इति ह्यस्वत्वं यथा स्यात्, न चासत्यस्मिन्ननुसाकिलोपे वृद्धिरस्ति। न चासत्यां वृद्धौ ह्यस्वभाविन्युपधा भवति। तेन णौ रञ्जेर्यथानुनासिकलोपो भवति, तथा ष्वुनि च। परिगणनात् ह्वाता, ह्वायक इत्यत्र न भवति। ष्वुनो नित्करणमाद्युदात्तार्थम्, षकारो ङीषर्थः॥
शिल्पिनि ष्वुन्॥ पूर्वेण साहचर्यात् सिल्पिनीत्यपि प्रत्ययार्थस्य विशेषणम्, नोपपदमित्याह----शिल्पिनि कर्तरीति। क्रियासु कौशलं शिल्पं तद्यस्यास्तीति सिल्पो। नृतिखनीत्यादि। एतद्वचनमेव; तेनाह्वाता, आह्वायक इत्यादौ न भवति। रञ्जेनुनासिकलोपश्चेति। एततु ज्ञापकात्सिद्धम्, यदयम् ठ्जनीजृष्क्नुसुरञ्जोऽमन्ताश्चऽ इति मित्संज्ञां शास्ति, तज्ज्ञापयति----रञ्जेरकित्वेऽप्यनुनासिकलोपो भवतौति॥
सिद्धान्तकौमुदी
क्रियाकौशलं शिल्पं तद्वति ष्वुन् स्यात् ॥ ।नृतिखनिरञ्जिभ्य एव (वार्तिकम्) ॥ नर्तकः । नर्तकी । खनकः । खनकी ॥ ।असि अकेऽने च रञ्जेर्नलोपो वाच्यः (वार्तिकम्) ॥ रजकः । रजकी । भाष्यमते तु नृतिखनिभ्यामेव ष्वुन् । रञ्जेस्तु क्वुन्शिल्पिसंज्ञयोः <{उ190}> इति क्वुन् । टाप् । रजिका । पुंयोगे तु रजकी ॥
शिल्पिनि ष्वुन्। नृतिखनिरञ्जिभ्य एवेति। वार्तिकमिदम्। नर्तकीति। षित्त्वान्ङीषिति भावः। `दंशसञ्जस्वञ्जां शपी`ति सूत्रे `रजकरजनरजः सूपसङ्ख्यान`मिति वार्तिकम्। तदर्थतः सङ्गृह्णाति-- असि अके अने चेति। रजक इति। रञ्जेः शिल्पिनि ष्वुनि अकादेशे नलोपः। रजकीति। षित्त्वान्ङीष्। `नृतिखनिरञ्जिभ्य एवे`ति परिगणनात् `वेञ् तन्तुसन्ताने ` इत्यस्मात् कृतात्त्वात् `श्याद्व्यधे`ति णप्रत्यये आतो युकि `वाय`इति सिध्यति। भाष्यमते तु नृतिखनिभ्यामेवेति। इदं च `दंशसञ्जस्वञ्जां शपीटति सूत्रे भाष्ये स्पष्टम्। ननु भाष्यमते क्वुनि `रजकी`ति कथमित्यत आह-- पुंयोगे तु रजकीति।
शिल्पिनि ष्वुन्। पूर्वेण साहचर्याच्छिल्पिनीत्यपि प्रत्ययार्थस्य विशेषणं न तूपपदमित्याह-- तद्वति कर्तरीति। भाष्यमते त्विति। तथा च षष्ठे `रजकरजनरजः सूपसङ्ख्यान`मिति वार्तिकं प्रत्याख्यातुं भाष्यकृतोक्तकम्--`रजकरजनरजःसु कित्त्वात्सिद्धं। कित एवैते औणादिका` इति। तत्र कैयट आह-- `रजक इति। `क्वुन् शिल्पी`ति क्वुन्। रजनमिति। `रञ्जेः क्यु`न्निति क्युन्। रज इति। `भूरञ्जिभ्यां कि` दित्यसन् प्रत्यय` इत्#आदि।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
शिल्पिनि ष्वुन् (732) (467 ष्वुन् प्रत्ययविधिसूत्रम्।। 3 । 1 । 6 आदृ 30) (1996 परिसंख्यावार्तिकम्।। 1 ।।) - नृतिखनिरञ्ञ्जिभ्यः- (भाष्यम्) नृतिखनिरञ्ञ्जिभ्य इति वक्तव्यम्। इहमा भूत् ‐ - वायकः।। शिल्पिनि ष्वुन्।। 145 ।।