Page loading... Please wait.
3|1|142 - दुन्योरनुपसर्गे
॥ तस्मै पाणिनये नम: ॥
3|1|142
SK 2904
दुन्योरनुपसर्गे  
सूत्रच्छेद:
दुन्योः - षष्ठीद्विवचनम् , अनुपसर्गे - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
दुनोतेर् नयतेश्च अनुपसर्गे णप्रत्ययो भव्ति। दुनोति इति दावः। नयति इति नायः। अनुपसर्गे इति किम्? प्रदवः। प्रणयः।
`दुन्योः` इति सुब्ब्यत्ययेन पञ्चम्यर्थे षष्ठी। `अनुपसर्गे` इत्यपि पञ्चम्यर्थे सप्तमी। अत एवाह-- `दुनोतेर्नयतेश्चानुपसर्गात्` इति। `दावः` इति। `टु दु उपतापे` (धातुपाठः-1256)। `नायः` इति। `णीञ् प्रापणे` (धातुपाठः-901)।`प्रदवः, प्रणयः`इति। पचाद्यच्, `उपसर्गादसमासेऽपि` 8|4|14 इति णत्वम्॥
दुन्योरनुपसर्गे॥ दाव इति। वनवह्निः। कथं तत्रैव दव इति? नयतिसाहचर्यात्सानुबन्धकस्य दुनोतेरिह ग्रहणम्। निरनुबन्धकाद्दवतेः पचाद्यचि भविष्यति। करणसाधनो वा ठृदोरप्ऽ इत्यबन्तः॥
सिद्धान्तकौमुदी
णः स्यात् । दुनोतीति दावः । नीसाहचर्यात्सानुबन्धाद्दुनोतेरेव णः । दवतेस्तु पचाद्यच् । दवः । नयतीति नायः । उपसर्गे तु प्रदवः । प्रणयः ॥
दुन्योरनुपसर्गे - दुन्योरनुपसर्गे । दुनोतेर्नयतेश्चेत्यर्थः ।दव॑शब्दं साधयितुमाह — नी साहचर्यादिति । नीञ्धातुः सानुबन्धकः, तत्साहचर्यात् "टु दु उपतापे" इति स्वादिगणस्थादेव णप्रत्यय इत्यर्थः । दवतेस्त्विति । "दु द्रु गतौ" इति भौवादिकान्निरनुबन्धकात्पचाद्यजित्यर्थः ।
दुन्योरनुपसर्गे - दुनोतेरिति । टुदु उपतापे इत्यस्मात् । दवतेरिति । दु गतावित्यस्मात् । दव इति ।दवदावौ वनारण्यवह्नी॑ इत्यमरः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!