Page loading... Please wait.
3|1|140 - ज्वलितिकसन्तेभ्यो णः
॥ तस्मै पाणिनये नमः ॥
3|1|140
SK 2902
ज्वलितिकसन्तेभ्यो णः   🔊
सूत्रच्छेदः
ज्वलिति-कसन्तेभ्यः (पञ्चमीबहुवचनम्) , णः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
इतिशब्दः आद्यर्थः। ज्वल दीप्तौ इत्येवम् आदिभ्यो धातुभ्यः कस गतौ इत्येवम् अन्तेभ्यो विभाषा णप्रत्ययो भवति। अचो ऽपवादः। ज्वालः, ज्वलः। चालः, चलः। अनुपसर्गातित्येव, प्रज्वलः। तेनोतेर्णस्य उपसङ्ख्यानं कर्तव्यम्। अवतनोति इति अवतानः।
`ज्वलिति` इति। ज्वल् इति = आदि येषामिति बहुव्रीहि। विभक्तेस्त्वश्रवणम्, `सुपां सुलुक्` 7|1|39 इति लुप्तत्वात्। `कसन्तेभ्यः` इति। कसोऽन्ता इति तत्पुरुषः, अन्तशब्द समीपवाची। अथ वा -- कसोऽन्त एषामिति बहुव्रीहिः। अन्तशब्दः समीपवाची, मर्यादावाची वा। `ज्वल दीप्तौ` (धातुपाठः-804,831) इति द्विष्पठते-- घटादिषु , परस्ताच्च। `तेभ्यः` इति। तत्रासत्यस्मिन् विशेषणे सन्देहः स्यात्केभ्यो ज्वलादिभ्य इति? अतस्तन्निरासार्थं ज्वलादयो विशिष्यन्ते-- कसन्ता ये ज्वलादय इति। न घटाद्यन्तर्गणः पर्युदस्तो भवति। कसेः परत्वाद्ये पठन्ते तन्निवृत्त्यर्थं कसग्रहणं न भवति, कसमधीत्य वृदिति पाठात्। ननु च घटादिषु ज्वलादीनां पाठो मित्संज्ञार्थः, तत्र विनापि कसन्तग्रहणं कसन्ता एव ग्रहीष्यन्ते,तदनर्थकमिदं विशेषणम्? नैतदस्ति; असति हि तस्मिन् पूर्वेषां ज्वलादीनामुभयार्थः पाठः स्यात्-- मित्त्वार्थः प्रत्ययार्थश्च। इतरेषां तु प्रत्ययार्थ एव। तस्मात् कसग्रहणं कत्र्तव्यम्। `अचोऽपवादः` इति। ज्वलादीनां पचाज्यन्तः पातित्वात्।`तनोतेर्णस्योपसंख्यानं कत्र्तव्यम्` इति। णे विधातव्ये तनोतेरपि णस्य प्रतिपादनं कत्र्तव्यम्। प्रतिपादनं तूत्तरत्र चकारस्यानुक्तसमुच्चयार्थत्वात् कत्र्तव्यम्॥
ज्वलितिकसन्तेभ्यो णः॥ इतिशब्द आद्यर्थ इति। अनेकार्थत्वान्निपातानाम् ठुच्चावचेष्वर्थेषु निपतन्तीति निपाताःऽ इति निरुक्तकारो निपातशब्दं निराह। ज्वलितीत्यविभक्तिको निर्द्देशः, ज्वलादिभ्य इत्यर्थः। कसिरन्ते येषां ते कसन्ताः, तत्र ये कसमधीत्य वृदिति पठन्ति तेषां मते कसन्तग्रहणं चिन्त्यप्रयोजनम्। ननु च ठ्ज्वल दीप्तौऽ इति द्विः पठ।ल्ते----घटादिषु, परस्ताच्च; तेषामसत्यस्मिन्विशेषणे सन्देहः स्यात्----किं पूर्वो ज्वलिरादिः? उत पर इति? अतः कसः समीपभूतेभ्यो ज्वलादिभ्य इति विशेषणमर्थवत्, नैतत्सुष्ठूअच्यते; यद्यन्तशब्दः समीपवचनः, बहुव्रोहौ तत्पुरुषे च कसेर्ग्रहणं न प्राप्नोति, पूर्वत्र ज्वलतावादावभिप्रेते तदनन्तर एव धातुरुपादीयेत; परोपदेशेनैव ज्वलतेर्ग्रहणसिद्धेः। घटादिपाठश्च मित्संज्ञायां चरितार्थः, इतरस्त्वचरितार्थ इति स एवादिर्भविष्यति। अचोऽपवाद इति। तस्यापि सर्वधातुविषयत्वादिति भावः। ठ्भ्रमु चलनेऽ इत्यस्य ज्वलादिपाठः किमर्थः,यावता पचाद्यचि भ्रम इति सिद्धम्, णेऽप्येतदेव रूपम्, ठ्नोदातोपदेशस्यऽ इति पृद्धिप्रतिषेधात्? इहाभ्रम इति ठच्कावशक्तौऽ इति स्वरो मा भूदिति॥
सिद्धान्तकौमुदी
इति शब्द आद्यर्थः । ज्वलादिभ्यः कसन्तेभ्यो णः स्याद्वा । पक्षेऽच् । ज्वालः । ज्वलः । चालः । चलः । अनुसर्गादित्येव । उज्ज्वलः ॥ ।तनोतेरुपसंख्यानम् (वार्तिकम्) ॥ इहानुपसर्गादिति विभाषेति च न संबध्यते । अवतनोतीत्यतानः ॥
ज्वलितिकसन्तेभ्यो णः - ज्वलिति । आद्यर्थ इति । तथा च ज्वल् इति = आदिर्येषां ते ज्वलितयः, ते च ते कसन्ताश्चेति ज्वलितिकसन्ताःष तेभ्य इति विग्रहः । तदाह — ज्वलादिभ्य इति ।ज्वल दीप्तौ इत्यारभ्य "कस गतौ" इत्येवमन्तेभ्य इत्यर्थः । वा णः स्यादिति.विभाषेत्यनुवर्तते इति भावः । पक्षेऽजिति । "इगुपधेभ्यः कः" इत्यपि बोध्यम् । उपसङ्ख्यानमिति ।णस्ये॑ति शेषः । न संबध्यते इति । "अवतानः" इत्येव भाष्ये उदाहरणादिति भावः ।
ज्वलितिकसन्तेभ्यो णः - इतिशब्द आद्यर्थ इति । निपातानामनेकार्थत्वादिति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
ज्वलितिकसन्तेभ्यो णः (757) (466 णप्रत्ययविधिसूत्रम्।। 3 । 1 । 6 आदृ 29) (1995 न्यूनतापूरकवार्तिकम्।। 1 ।।) - तनोतेर्नउपसंख्यानम्- (भाष्यम्) तनोतेर्न उपसंख्यानं कर्तव्यम्। अवतनोतीत्यवतानः।। ज्वलितिक।। 140 ।।