Page loading... Please wait.
3|1|135 - इगुपधज्ञाप्रीकिरः कः
॥ तस्मै पाणिनये नमः ॥
3|1|135
SK 2897
इगुपधज्ञाप्रीकिरः कः   🔊
सूत्रच्छेदः
इगुपध-ज्ञा-प्री-किरः (पञ्चम्येकवचनम्) , कः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
इगुपधेभ्यः जानातेः प्रीणातेः किरतेश्च कप्रत्ययः भवति। विक्षिपः। विलिखः। बुधः। कृशः। जानाति इति ज्ञः। प्रीणाति इति प्रियः। किरति इति किरः। देवसेवमेषादयः पचादौ पठितव्याः।
`विक्षिपः` इति। कित्त्वाद्गुणाभावः। `ज्ञः` इति। `आतो लोप इटि च` 6|4|64 इत्याकारलोपः। `प्रियः` इति। `प्रीञ् तर्पणे` (धातुपाठः-1836), इयङ। `किरः` इति। `कृ? विक्षेपे` (धातुपाठः-1409), `ऋत इद्धातोः` 7|1|100 इतीत्त्वम्, रपरत्वम्। अथ कथं देवादयः सिध्यन्ति, यावता दिवादीनामिगुपधत्वात् के कृते दिवः, सिव इत्येवमादिना रूपेण भवितव्यम्?? अत आह-- `देवसेव` इत्यादि। आदिशब्दः प्रकारे॥बाल-मनोरमाओरावश्यके 703, 3.1.135 ओरावश्यके। लाव्यं पाव्यमिति। `अचो ञ्णिती`ति वृद्धौ `वान्तो यी` त्यवादेशः। बाल-मनोरमाइगुपधज्ञाप्रीकिरः कः 714, 3.1.135 इगुपधज्ञा। `कृ? विक्षेपे` इत्यस्य इत्त्वे रपरत्वे च किरिति रेफान्तम्। इगुपध, ज्ञा, प्री, किर् एषां द्वन्द्वात्पञ्चमी। कित्त्वं गुणनिषेधार्थम्। ज्ञ इति। आतो लोपः। प्रिय इति। प्रीञ् के इयङ्। किर इति। कृधातोः कप्रत्यये इत्त्वे रपरत्वम्।
इगुपधज्ञाप्रीकिरः कः॥ इगुपधादीनां समाहारद्वन्द्वे नपुंसकत्वेन ह्रस्वप्रसङ्गदितरेतरयोगे द्वन्द्वः, व्यत्ययेन भ्यसः पञ्चम्येकवचनम्। तत्र कृशब्दस्य धात्वनुकरणत्वात्प्रकृतिवदनुकरणम्, विभक्तावित्वम्। ज्ञ इति। ठातो लोप इटि चऽ प्रिय इति। ठ्प्रीञ् तर्पणेऽ,इयङदेशः। किर इति। ठ्कृ विक्षेपेऽ,ठृत इद्धातोःऽ। पचादिषु द्रष्टव्या इति यद्यप्यजपि तृजादिवत्सर्वधातुभ्यो भवति, तथाप्यपवादबाधनार्थमेते पचादिष्ववश्यं पाठ।ल इत्यर्थः॥
सिद्धान्तकौमुदी
एभ्यः कः स्यात् । क्षिपः । लिखः । बुधः । कृशः । ज्ञः । प्रीणातीति प्रियः । किरतीति किरः । वासरूपविधिना ण्वुल्तृचावपि । क्षेपकः । क्षेप्ता ॥
इगुपधज्ञाप्रीकिरः कः - इगुपधज्ञा । "कृ विक्षेपे" इत्यस्य इत्त्वे रपरत्वे च किरिति रेफान्तम् । इगुपध, ज्ञा, प्री, किर् एषां द्वन्द्वात्पञ्चमी । कित्त्वं गुणनिषेधार्थम् । ज्ञ इति । आतो लोपः । प्रिय इति । प्रीञ् के इयङ् । किर इति । कृधातोः कप्रत्यये इत्त्वे रपरत्वम् ।
इगुपधज्ञाप्रीकिरः कः - इगुपध । इक् उपधा यस्य सः । ज्ञा अवबोधने, प्रीञ् तर्पणे, कृ विक्षेपे । एषामितरेतरयोगद्वन्द्वे व्यत्ययेन पञ्चम्येकवचने कशब्दस्य धात्वनुकरणत्वेनप्रकृतिवदनुकरण॑मित्यतिदेशात्ॠत इद्धातो॑रिति इत्वम् । समाहारद्वन्द्वे तु नपुंसकह्यस्वत्वे सति इत्वं न स्यात् । ज्ञ इति । जानातीति ज्ञः ।आतो लोप इटि चे॑त्यालोपः ।
लघुसिद्धान्तकौमुदी
एभ्यः कः स्यात्। बुधः। कृशः। ज्ञः। प्रियः। किरः॥
महाभाष्यम्
इगुपधज्ञाप्रीकिरः कः (752) (अथ कप्रत्ययप्रकरणम्) (436 कप्रत्ययविधिसूत्रम्।। 3 । 1 । 6 आ. 26) (1989 वार्तिकम्।। 1 ।।) - इगुपधेभ्य उपसर्गे कविधिर्मेषाद्यर्थः- (भाष्यम्) इगुपधेभ्य उपसर्गे को विधेयः। किं प्रयोजनम्। मेषाद्यर्थः। मेषः देवः सेवः।। (1990 निराकरणवार्तिकम्।। 2 ।।) - न वा बुधादीनां दर्शनादनुपसर्गेऽपि- (भाष्यम्) न वा को विधेयः। किं कारणम्। बुधादीनां दर्शनादनुपसर्गेऽपि। बुधादीनामनुपसर्गेऽपि को दृश्यते बुधः युधः भिद इति।। (आक्षेपभाष्यम्) कथं मेषः देवः सेव इति। (समाधानभाष्यम्) पचादिषु पाठः करिष्यते।। इगुपधज्ञा।। 135 ।।