॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|134
SK 2896
3|1|134
नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः   🔊
SK 2896
सूत्रच्छेद:
नन्दि-ग्रहि-पचादिभ्यः - पञ्चमीबहुवचनम् , ल्यु-णिनि-अच: - प्रथमाबहुवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
आदिशब्दः प्रयेकं सम्बध्यते। त्रिभ्यो गणेभ्यः त्रयः प्रत्ययाः यथासङ्ख्यं भवन्ति। नन्द्याऽदिभ्यो ल्युः, ग्रहादिभ्यो णिनिः, पचादिभ्यो ऽच्। नन्दिग्रहपचादयश्च न धातुपाठतः सन्निविष्टा गृह्यन्ते, किं तर्हि, नन्दन रमण इत्येवम् आदिषु प्रातिपदिकगणेषु अपोद्धृत्य प्रकृतयो निर्दिश्यन्ते। नन्दिवासिपदिदूषिसाधिवर्धिशोभिरोचिभ्यो ण्यन्तेभ्यः संज्ञायाम्। नन्दनः। वासनः। मदनः। दूषणः। साधनः। वर्धनः। शोभनः। रोचनः। सहितपिदमेः संज्ञायाम्। सहनः। तपनः। दमनः। जल्पनः। रमणः। दर्पणः। सङ्क्रन्दनः। सङ्कर्षणः। जनार्दनः। यवनः। मधुसूदनः। विभीषणः। लवणः। निपातनाण् णत्वम्। चित्तविनाशनः। कुलदमनः। शत्रुदमनः। इति नन्द्यादिः। ग्रह। उत्सह। उद्दस। उद्भास। स्था। मन्त्र। सम्मर्द। ग्राही। उत्साही। उद्दासो। उद्भासी। स्थायी। मन्त्री। सम्मर्दी। रक्षश्रुवसवपशां नौ। निरक्षी। निश्रावी। निवासी। निवापी। निशायी। याचिव्याहृसंव्याहृव्रजवदवसां प्रतिषिद्धानाम्। अयाची। अव्याहारी। असंव्याहारी। अव्राजी। अवादी। अवासी। अचामचित्तकर्तृकाणाम्। प्रतिषिद्धानाम् इत्येव। अकारी। अहारी। अविनायी। अविशायी। विशयी। विशयी देशे। विशयो, विषयी देशः। अभिभावी भूते। अभिभावी। अपराधी। उपरोधी। परिभवी। परिभावी। इति ग्रह्रादिः। पच। वप। वद। चल। शल। तप। पत। नदट्। भषट्। वस। गरट्। प्लवट्। चरट्। तरट्। चोरट्। ग्राहट्। जर। मर। क्षर। क्षम। सूदट्। देवट्। मोदट्। सेव। मेष। कोप। मेधा। नर्त। व्रण। दर्श। दंश। दम्भ। जारभरा। श्वपच। पचादिराकृतिगणः। अज्विधिः सर्वधातुभ्यः पठ्यन्ते च पचादयः। अण्बाधनार्थम् एव स्यात् सिध्यन्ति श्वपचादयः।
`प्रत्यासत्त्या पचिनैवादिशब्दस्य सम्बन्धो मा विज्ञायीत्यत आह-- `प्रत्येकम्` इत्यादि।`नन्दिवाशि` इत्यादि। `टुनदि सममृद्धौ` (धातुपाठः-67), `वाशृ शब्दे` (धातुपाठः-1163), `मदी हर्षे` (धातुपाठः-1208), `दुष वैकृत्ये` (धातुपाठः-1185), `राध साध संसिद्धौ` (धातुपाठः-1262,1263), `शुभ शुम्भ शोभायाम्` (धातुपाठः-1321,1322), `रुच दीप्तौ` (धातुपाठः-745)-- एभ्यो धातुभ्यो ण्यन्तेभ्यः संज्ञायां ल्युर्भवति। नन्दयतीति। नन्दनमित्येवमाद्युदाहरणम्। `दूषणम्` इति। `दोषो णौ` 6|4|90 इत्यूत्त्वम्। अण्यन्तानां त्वेषामसंज्ञायां संज्ञायां च तृजादय एव भवन्ति। ग्रह्रादीनां नन्द्यादीनाञ्च गणे पाठस्येदमेव प्रयोजनम्-- संज्ञाविशिष्टविषये तेषां साधुत्वं यथा स्यात्। अन्यथा हि प्रकृतीरेव गणे पठित्वेह चादिशब्देन ता उपलक्ष्य प्रत्ययं विदध्यात्। `सहितपि` इत्यादि। `षह मर्षणे` (धातुपाठः-1809), `तप सन्तापे` (धातुपाठः-985), `दमु उपशमे` (धातुपाठः-1203) - एभ्यः संज्ञायामण्यन्तेभ्यो ल्युः। `जल्पनः` इत्यादि। `जप जल्प व्यक्तायां वाचि` (धातुपाठः-397,398), `रमु क्रीडायाम्` (धातुपाठः-853), `दृप {हर्षमोहनयोः-धातुपाठः-} हर्षणमोचनयोः` (धातुपाठः-1196), `कदि क्रदि आह्वाने रोदने च` (धातुपाठः-70,71), `कृष विलेखने` (धातुपाठः-990) ह्मषु अलोके` (धातुपाठः-709),`अर्द हिंसायाम्` (धातुपाठः-1828), जनमर्दयतीति जनार्दनः, कर्मण्यणि प्राप्ते ल्युः। `यु {मिश्रणेऽमिश्रणे च-धातुपाठः-} मिश्रणे` (धातुपाठः- 1033), `षूद क्षरणे` (धातुपाठः-1717), मधुं सूदयतीति मधुसूदनः। अत्रापि कर्मण्यणि प्राप्ते ल्युः। `ञिभी भये` (धातुपाठः- 1084)। विपूर्वात् `हेतुमति च` 3|1|26 इति णिच्; `भियो हेतुभये षुक्` 7|3|40 ।`लवणः` इति। `लूञ् छेदने` (धातुपाठः-1483)। `निपातनाण्णत्वम्` इति। कृतणत्वस्य गणे पाठो निपातनम्। `णश अदर्शने` (धातुपाठः-1194) विपूर्वः, `दमु उपशमे` (धातुपाठः-1203)- द्वावप्येतौ हेतुमण्णिजन्तौ। वित्तं विनाशयतीति वित्तविनाशनः। कुलं दमयतीति कुलदमनः। `मितां ह्यस्वः` 6|4|92 इति ह्यस्वः, कर्मण्यणि प्राप्ते ल्युः।`ग्रह` इत्यादि। `ग्रह उपादाने` (धातुपाठः-1533), `षह मर्षणे` (धातुपाठः-1809) उत्पूर्वः। `तसु {उपक्षये--धातुपाठः-}क्षेपणे` (धातुपाठः-1212), `दसु च` (धातुपाठः-1213),दसिवत् पूर्वः। `भस भत्र्सनदीप्त्योः` (धातुपाठः-1100) उत्पूर्वः। `ष्ठा गतिनिवृत्तौ` (धातुपाठः-928), `आतो युक्` 7|3|33 । स्थायी। `मत्रि {गुप्तपरिभाषणे` धातुपाठः-} गुप्तभाषणे` (धातुपाठः-1679), चुरादिणिजन्तः। `मृद क्षोदे` (धातुपाठः-1515) संपूर्वः। संमृद्नातीति संपूर्वादेव यथा स्यात्। `रक्षश्रुवसवपशां नौ` इति। `रक्ष पालने` (धातुपाठः-658), `श्रु श्रवणे` (धातुपाठः-942), `डुवप बीजतन्तुसन्ताने` (धातुपाठः-1003), `शो तनूकरणे` (धातुपाठः-1145)-- एषां निशब्द उपपदे णिनिः। `निशायी` इति। पूर्ववद्युक्। `याचि` इत्यादि। `टुयाचृ याच्ञायाम्` (धातुपाठः-863), `ह्मञ् हरणे` (धातुपाठः-899) , व्याङ्पूर्वः, पुनः स एव संपूर्वः, `वज व्रज गतौ` (धातुपाठः-252,253), वद व्यक्तायां वाचि` (धातुपाठः-1009), `वस निवासे` (धातुपाठः-1005) --एषां प्रतिषिद्धानां णिनिर्भवति। `प्रतिषिद्धानाम्` इति। `प्रतिषिद्धार्थानामित्य्रथः। प्रतिषिद्धार्थतांच नञ्पूर्वाणामेव भवतीति नञ्पूर्वेभ्यो णिनिर्विज्ञायते। कथं पुनः प्रतिषिद्धानां प्रयोग#ः? उपचारसत्तयामप्रतिषेधाददोषः। न हि मुख्यैव पदार्थानां सत्ता; किन्तूपचरिताऽपि यथोक्तमर्थद्वारेण पदार्थानामन्या सत्तौपचारिकीति। तत्र मुख्या या सत्ता तस्या एव प्रतिषेधः, न तु बुद्धिस्थाया औपचारिक्या इति तन्निबन्धनप्रयोगो न विरुध्यते। `अचाम्` इत्यादि। अजन्तानां धातूनामचित्तकर्त्तृकाणां प्रतिषिद्धानां णिनिर्भवति। अविद्यमानं चित्तमस्येति अचित्तः स कत्र्ता येषां ते तथोक्ताः। अर्थद्वारकं चेदं विशेषणम्। अर्थस्य ह्रचित्तकर्त्तृकत्वात् तदभिधायिनो धातव उपचारेण तथोच्यन्ते। `विशयी विषयी देशे` इति। विशययिविषयिशब्दौ देशेऽभिधेये णिनिप्रत्ययान्तौ साधू भवतः। `शीङ स्वप्ने`((धातुपाठः-1032), `षिञ् बन्धने` (धातुपाठः-1477)--एतयोर्विपूर्वयोर्णिनिः। वृद्ध्यभावश्च निपातनात्। अभिभावी भूते` इति। अभिभाविशब्दो भूतकाले णिनिप्रत्ययान्तः साधुर्भवति। भवतेरभिपूर्वात् णिनिः। अभिभूतवानित्यभिभावी। `अपराधी, उपरोधी` इति। `राध साध संसिद्धौ` (धातुपाठः-1262,1263), `रुधिर् आवरणे` (धातुपाठः-1438)- आभ्यामपोपपूर्वभ्यां णिनिः। `परिभावी, परिभवी` इति। भवतेः परिपूर्वस्य। पक्षे वृद्धयभावः।`पच` इत्यादि। `डुपचष् पाके` (धातुपाठः-996), `वच परिभाषणे` (धातुपाठः-1842), `डुवपबीजतन्तुसन्ताने {छेदनेऽपि--धातुपाठः-}`(धातुपाठः-1003), `वद व्यक्तायां वाचि` (धातुपाठः-1009), `चल कम्पने`(धातुपाठः-832), `शल गतौ` (धातुपाठः-843), `पत्लु गतौ` (धातुपाठः-845)। `नदट्` इति। `{णद` -धातुपाठः-}नद अवक्ते शब्दे` (धातुपाठः-54)। टकारानुबन्धो ङीबर्थः। `{भषट्-काशिका} भसट्` इति। `{भष भत्र्सने`} भस भत्र्सनदीप्त्योः` (धातुपाठः-1100) टकारो ङीबर्थः। `गृ निगरणे` (धातुपाठः-1410), `मिष स्पद्र्धायाम्` (धातुपाठः-1352), `कुप क्रोधे`(धातुपाठः-1233), `मिह सेचने` (धातुपाठः-992), `तृ? प्लवनतरणयोः` (धातुपाठः-969), `चुर स्तेये` (धातुपाठः-1534), `गाहू विलोडने` (धातुपाठः-649), `जृष् झृष् वयोहानौ` (धातुपाठः-1130,1131), `मृङ प्राणत्यागे` (धातुपाठः-1403), `क्षमूष् सहने` (धातुपाठः-442), `तुद व्यथने` (धातुपाठः-1281), `मृद् क्षोदे` (धातुपाठः-1515), `दिवु क्रीडादौ` (धापा।1107), `नृती गात्रविक्षेपे` (धातुपाठः-1116), `व्रण गात्रचूर्णने` (धातुपाठः-1937) चुरादिः; `दृशिर् प्रेक्षणे` (धातुपाठः-988)। `डुभृञ् धारणपोषणयोः` (धातुपाठः-1087)- अस्माज्जारशब्द उपपदेऽच्। जारं बिभर्तीति `जारभरः`। पचेः शुन्युपपदे कर्मण्यणपदादोऽच्-- आआनं पचतीति `आपचः`। `आकृतिगणः` इति। पचादिसम्बन्धिन आदिशब्दस्य प्रकारार्थत्वात्। आकृतिगणत्वे चास्य चक्रधरादयः सिद्धा भवन्ति॥
नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः॥ आदिशब्दः प्रत्येकमभिसम्बद्ध्यत इति। गणपाठादिति भावः। अपोद्धृत्य ये पठ।ल्न्त इति। ते गृह्यन्त इत्यन्वयः। अपोद्धृत्येति बुद्ध्या पृथक्कृत्येत्यर्थः। किमर्थ पुनरपोद्धृत्य प्रत्ययविधानम्, यावता नन्दनादीनां गणपाठादेव सिद्धं साधुत्वम्? उच्यते---असत्यस्मिन्नष्टाध्याय्यां क्वचिदप्यनुपयोगाद्रणत्रपयाठोऽनार्षोऽध्यवसीयेत। नन्दिवाशीत्यादि। ठ्टुअनदि समृद्धौऽ, ठ्वाश्रृ शब्देऽ,ठ्मदी हर्षेऽ, ठ्दुष वैकृत्येऽ,ठ्राध साध संसिद्धौऽ,ठ्वृधु वृद्धौऽ,ठ्शुभ शुम्भ शोभार्थेऽ,ठ्रुच दीप्तौऽ। दूषण इति। ठ्दोषो णौऽ इत्यूत्वम्। सहितपीत्यादि। ठ्षह मर्षणेऽ, तप सन्तापेऽ,ठ्शमु दमु उपशमेऽ। जल्पन इत्यादि। ठ्जल्प जप वक्तायां वचिऽ। ठ्रमु क्रीडायाम्ऽ,ठ्द्दप हर्षविमोचनयोःऽ,ठ्क्रदि आह्वाने रोदने चऽ। ठ्कृष विलेखनेऽ,ठ्हृषु अलीकेऽ। ठर्द्द हिंसायाम्ऽ,जनमर्द्दयतीति जनार्दनः, कर्मण्यणि प्राप्ते। एवमुतरत्रापि कर्मण्युपपदे द्रष्टव्यम्। ठ्यु मिश्रणेऽ,ठ्षूद क्षरणेऽ। मधुनाऽसुरः, तं सूदयतीति मधुसूदनः। ठ्ञिभी भयेऽ, णिचि ठ्भियो हेतुभये षुक्ऽ। ठ्लूञ् छेदनेऽ,ठ्णश अदर्शनेऽ,ठ्दमु उपशमे,----ण्यन्तौ, चितं नाशयतीति चितनाशनः, कुलं दमयतीति कुलदमनः। ग्राहीत्यादि। ठ्ग्रह उपदानेऽ,ठ्षह मर्षणेऽ,ठ्तसु उपक्षयेऽ,ठ्दसु चऽ,ठ्भस भर्त्सनदीप्त्योःऽ। तिष्ठतेरातो युक्। ठ्मत्रि गुप्तभाषणेऽ चुरादिः, अर्द्द हिसायाम्। रक्षेत्यादि। ठ्रक्ष पालनेऽ,ठ्श्रु श्रवणेऽ,ठ्डुवप् बीजसन्तानेऽ,ठ्शो तनूकरणेऽ---एषा निशब्द उपपदे णिनिः। याचीत्यादि। ठ्टुअयाचृ याच्ञायाम्ऽ,ठ्हृञ् हरणेऽ,ठ्व्रज गतोऽठ्वदव्यक्तायां वाचिऽ,ठ्वस निवासेऽ---एषां प्रतिषिद्धानां णिनिभवति, प्रातषिद्धार्थानामित्यर्थः। प्रतिषिद्धार्थता च नञ्पूर्वाणां भवतीति दर्शयति। अयाचीत्यादि। यद्यपि विशब्दोऽपि विगर्द्दभरथिरित्यादौ प्रतिषेधे द्दष्टः, याच्यादीनां तु विपूवाणा णिनिर्न द्दश्यत इति नञ्येव णिनिर्विज्ञायते। अचामित्यादि। अजन्तानां धातूनामचितकर्तृकाणां प्रतिषिद्धार्थानां णिनिर्भवति, न विद्यते चितमस्येत्यचितः स कर्ता येषां ते तथोक्ताः। विशयी विषयीति। ठ्शीङ् स्वप्नेऽ,ठ्षिञ् बन्धनेऽ, वृद्ध्यभावो निपातनात्। अभिभावी भूत इति। अभिभूतवानभिभावी। अपराधी, अवरोधी। ठ्राध साध संसिद्धौऽ,ठ्रुधिर् आवरणेऽ। परिभवी, परिभावीति। पक्षे वृद्ध्यभावः। पचेत्यादि। ठ्डुपचष्पाकेऽ। ठ्वच परिभाषणेऽ,डुवपिरुक्तार्थः, एवं वदिरपि। ठ्चल कम्पनेऽ,ठ्पत्लृ गतौऽ। नदडिति। ठ्नद अव्यक्ते शब्देऽ। ठकारो ङीबर्थः, एवमुतरत्रापि। ठ्भष भर्त्सनेऽ,प्लुङ् गतौऽ,ठ्चर गत्यर्थःऽ,ठ्गृ निगरणेऽ,ठ्तृ प्लवनतरणयोःऽ,ठ्चुर स्तेयेऽ,ठ्दिवु क्रीडादौऽ,ठ्सूदिरुक्तार्थः,ठ्जृष् वयोहानौऽ,मृङ् प्राणत्यागेऽ,ठ्क्षमूष् सहनेऽ,ठ्षिवु तन्तुसन्तानेऽ,ठ्मिष स्पर्द्धायाम्ऽ,ठ्कुप क्रोधेऽ,ठ्मिधृ मेधाहिसनयोःऽ,ठ्व्रण गात्रचूर्णनेऽचुरादिः, ठ्नृती गात्रविक्षेपेऽ,ठ्द्दशिर् प्रेक्षणेऽ,ठ्सृप्लृगतौऽ। ठ्डुभृझ् धारणपोषणयाःऽ,जारं विभर्तीति जारभरा। एवं श्वानं पचतीति श्वपचा, न्यङ्क्वदिषु श्वपाकशब्दस्य पाठात्पक्षे कर्मण्यणपि भवति। पचादिराकृतिगण इति। तत्सम्बन्धिन आदिशब्दस्य प्रकारवचनत्वात्। तथा च ठ्शिवशमरिष्टस्य करेऽ इति कृञोऽच् प्रत्ययः कृतः। घटेश्च ठ्कर्मणि घटोऽठच्ऽ इति। तथा यङ्न्तानां ठ्यङेऽचि चऽ इति यङेऽस्मिन्नचि लुगुक्तः। भाष्ये च ठजपि सर्वधातुभ्यो वक्तव्यःऽ इत्युक्तम्। पचाद्यनुक्रमणं तु नदडित्यादावनुबन्धासञ्जनार्थम्, कर्मोपपदानाम् इगुपधानां च बाधकबाधनार्थम्, देवेडित्युभयार्थम्, अन्येषां तु प्रपञ्चार्थ द्रष्टव्यम्॥
सिद्धान्तकौमुदी
नन्द्यादेर्ल्युर्ग्रह्यादेर्णिनिः पचादेरच् स्यात् । नन्दयतीति नन्दनः । जनमर्दयतीति जनार्दनः । मधुसूदनः । विशेषेण भीषयतीति विभीषणः । लवणः । नन्द्यादिगणे निपातनाण्णत्वम् । ग्राही । स्थायी । मन्त्री । विशयी । वृद्ध्याभावो निपातनात् । विषयी । इह षत्वमपि । परिभावी । परिभवी । पाक्षिको वृद्ध्यभावो निपात्यते । पचादिराकृतिगणः । शिवशमरिष्टस्य करे (कौमुदी-3489) कर्मणि घटोऽठच् (कौमुदी-8136) इति सूत्रयोः करोतेर्घटेश्चाच् प्रयोगात् । अच् प्रत्यये परे यङिलुग्विधानाच्च । केषांचिद्बाधकबाधनार्थः । पचतीति पचः । नदट् । चोरट् । देवट् । इत्यादयष्टितः । नदी । चोरी । देवी । दीव्यतेः । इगुपध--(कौमुदी-2897) इति कः प्राप्तः । न्यङ्क्वादिषु पाठात् श्वापकोऽपि । यङोऽचि च (कौमुदी-2650) इति लुक् । न धातुलोप--(कौमुदी-2656) इति गुणवृद्धिनिषेधः । चेक्रियः । नेन्यः । लोलुवः । पोपुवः । मरीमृजः ॥ ।चरिचलिपतिवदीनां वा द्वित्वमच्याक्चाभ्यासस्येति वक्तव्यम् (वार्तिकम्) ॥ आगमस्य दीर्घत्वसामर्थ्यादभ्यासह्रस्वो हलादिः शेषः (कौमुदी-2179) च न । चराचरः । चलाचलः । पतापतः । वदावदः ॥ ।हन्तेर्घत्वं च (वार्तिकम्) ॥ घत्वमभ्यासस्य उत्तरस्य तु अभ्यासाच्च (कौमुदी-2430) इति कुत्वम् । घनाघनः ॥ ।पाटेर्णिलुक्चोक्च दीर्घश्चाभ्यासस्य (वार्तिकम्) ॥ पाटुपटः ॥ पक्षे चरः । चलः । पतः । वदः । हनः । पाटः । रात्रेः कृति--(कौमुदी-1008) इति वा मुम् । रात्रिंचरः । रात्रचरः ।
नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः - नन्दिग्रहि । नन्दि,ग्रहि, पच एषां द्वन्द्वः । नन्दिग्रहिपचा आदिर्येषामिति विग्रहः । आदिशब्दस्य प्रत्येकमन्वयः फलति । ल्यु , ण्नि, अच् - एषां द्वन्द्वात्प्रथमा । यथासङ्ख्यमन्वयः । तदाह — न्द्यादेरित्यादि । नन्दीति ण्यन्तग्रहणम् । तदाह — नन्दयतीत्यादि । ल्योरनादेशः,णेरनिटी॑ति णिलोपः । मधुं सूदयतीति । मधुरसुरविशेषः, तं सूदयति = केचिदण्यन्ताः । सूत्रे "ग्रह उपादाने" इत्यस्य ग्रहीति इका निर्देशः । सौत्रत्वात् "ग्रहिज्ये" ति संप्रसारणं न । ग्राहीति । ग्रहधातोरदुपधाण्णिनिः । नकारादिकार उच्चारणार्थः । उपधावृद्धिः । विशयीति । विपूर्वात् "शीङ् स्वप्ने" इति धातोर्णिनिः । गुणाऽयादेशौ ।अचोऽञ्णिती॑ति वृद्धिमाशङ्क्याऽ‌ऽह — वृद्ध्यभाव इति । विषयीति । "षिञ् बन्धने" अस्मात्कृतषत्वाण्णिनिः । गुणाऽयादेशौ । नन्विह कतं न वृद्धिः, कथं च षत्वं, पदादित्वादित्यत आह — षत्वमपीति । निपातनाद्वृद्ध्यभावः षत्वं चेत्यर्थः । परिभावी परिभवीत्यत्र णित्त्वान्नित्यवृद्धिमाशङ्क्य आह — पाक्षिक इति । ग्रह्रादयो वृत्तौ पठिताः । पचादिराकृतिगण इति । पच वप इत्यादिकतिपयधातून् पठित्वा आकृतिगण इति गणपाठे वचनादिति भावः । गणपाठे आकृतिगणत्ववचनाऽभावेऽप्याह — शिवशमिति । सूत्रे करशब्दस्य पचादिगणेऽपठितस्य कृञोऽच्प्रत्ययान्तस्य, "कर्मणि घट" इति सूत्रे घटेरचि घटशब्दस्य च प्रयोगदर्शनादित्यर्थः । अच्प्रत्यय इति । यङन्तादच्प्रत्यये परेयङोऽचि चे॑ति यहो लुग्विधीयते । नहि पचादिगणे यङन्तं पठितमस्ति । अतोऽपि पचादेराकृतिगणत्वं विज्ञायते इत्यर्थः । पचादेराकृतिगणत्वे नदट् चोरडित्यादीनं तत्र पाठो व्यर्थ इत्यत आह — - केषांचिदिति । टकारानुन्धासञ्जानार्थ इत्यर्थः । नन्वेमपि वद चल इत्यादीनामनुबन्धरहितानां तत्र किमर्थः पाठ इत्यत आह — केषांचित्प्रपञ्चार्थ इत । बाधकेति । "जारभर"आपचे॑त्यादौ पचाद्यजपवादस्य कर्मण्यणो बाधनार्थं भरपचादीनां पाठ इति भाष्यम् । देवः सेव इत्यादौइगुपधज्ञाप्रीकिरः कः॑ इति विशिष्य विहितस्य कस्य बाधनार्थं च । तदेतदुपपादयति — नदडित्यादि । ननु पचादिगणे आपचशब्दस्य बाधकबाधनार्थत्वे आपाक इति कथमित्यत आह — न्यङ्क्वादिषु पाठाच्छ्वपाकोऽपीति । कदाचिदण्प्रत्ययः,कुत्वं चेत्यर्थः । चेक्रियः, मरीमृज इत्यादौ प्रक्रियां दर्शयति — यङोऽचि चेति । क्रीञादिधातोरचि यङो लुगित्यर्थ- । द्वित्वादौ चेक्री अ इत्यादिस्थितौ आह — न धातुलोप इति । चेक्रिय इति । गुणाऽभावे संयोगपर्वत्वान्न यण् । नेन्य इति । "एरनेकाचः" इति यण् । लोलुव इति । उवङ् । यण्तु न,ओः सुपी॑त्युवक्तेः । मरीमृज इति । अत्र "न धातुलोपे" इति निषेधान्न मृजेर्वृद्धिः । चरिचलीति । एषामच्प्रत्यये परे द्वित्वम्, अभ्यासस्य आगागमश्चेत्यर्थः । ननु "चराचर" इत्यत्राऽभ्यासे रेफादाकारस्य ह्यस्वः स्यात्, हलादिशेषेण तत्र रेफस्यापि निवृत्तिः स्यादित्यत आह — आगागमस्येति । ह्यस्वत्वे सत्यागागमे दीर्घोच्चारणं व्यर्थम्, आगागमस्यैव विधातुं शक्यत्वात् । तथा हलादिशेषेण रेफस्य निवृत्तौ ह्यस्वत्वेऽपि सवर्णदीर्घेण "चाचर" इति सिद्धेर्धीर्घोच्चारणं हलादिशेषाऽभावं गमयतीत्यर्थः । हन्तेरितति । वार्तिकमिदम् । हनधातोरचि घत्वं द्वित्वमापक् चेत्यर्थः । ननूत्तरखण्डेअभ्यासाच्चे॑ति कुत्वसिद्धिः किमर्थमिह घत्वविधानमित्यत आह — घत्वमभ्यासस्येति ।इह विधीयतेट इति शेषः । पाटेरिति । वार्तिकमिदम् । पाटेर्णौ पाटि इत्यस्मादचि णेर्लुक्, द्वित्वम्, अभ्यासस्य ऊगागमः । अभ्यासस्य आकारस्य ह्यस्वे तसय् दीर्घश्चेत्यर्थः । वृद्धिनिवृत्तये णेर्लुग्विधिः । आगमे दीर्घोच्चारणाद्धलादिशेषेण टकारस्य न निवृत्तिः, हलादिशेषे तु आद्गुणे पोपट इति रूपस्य उगागमेऽपि सिद्धेः ।
नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः - नन्दिग्रहि । द्वन्द्वान्ते श्रूयमाण आदिशब्दः प्रत्येकं संबध्यते । तदाह — नन्द्यादेर्ल्युरित्यादि । मधुसूदन इति । मधुं दैत्यं सूदयतीति विग्रहः । षूद क्षरणे । इह अर्दिसूदिभ्यां कर्मण्यणि प्राप्ते नन्द्यादिपाठाल्ल्युः । विभाषण इति ।भियो हेतुभये षुक् । ग्राहीति । णिनेर्णिदत्त्वादुपधावृद्धिः । स्थायीति । आतो युक् । मन्त्रीति ।मत्री॑ति चुरादाविदित्पाठान्नुम्,णेरनिटी॑ति णिलोपः । विषयीति । षिञ् बन्धने ।धात्वादे॑रिति षस्य सत्वेआदेशप्रत्यययो॑ रिति प्राप्तस्य षत्वस्यसात्पदाद्योरिति निषेधादाह — इह षत्वमपीति ।निपातना॑दित्यनुषज्यते ।परिनिविभ्यः॑ इति सूत्रेसितसये॑ति क्तान्ताऽजन्तसिनोतेग्र्रहणाण्णिन्यन्तसिनोतेर्निपातनं विना षत्वं दुर्लभमिति भावः । जारभरेत्यादि । जारं बिभर्ति, आआनं पचतीति विग्रहः । आपाकोऽपीति । कर्मण्यणपि पक्षे भवतीति भावः । चेक्रिय इति । संयोगपूर्वत्वात्एरनेकाचः॑ इति न यण् । लोलुव इति । इह सुबभवात्ओः सुपी॑ति यणनेतिअचि श्नुधातु॑ इत्युवङ् । मरीमृज इति ।रीगृदुपधस्ये चे॑ति रीगागमः । *चरिचलिपतिवदीनां वा द्वित्वमच्याक्चाभ्यासस्येति वक्तव्यम् । हलादिः शेषश्च नेति । सति तु हलादिःशेषे आगमस्य आदेशस्य वा विशेषो नास्तीत्या-चाऽभ्यासस्येत्येव ब्राऊयादिति भावः । * पाटेर्णिलुक्चोक्च दीर्घश्चाभ्यासस्य । पाटेर्णिलुगिति ।णेरनिटी॑ति लोपे हि प्रत्ययलक्षणन्यायेनपाटूपट॑ इत्यत्रोपधावृद्धिः स्यादिति भावः । इहापि पूर्ववद्ध्रस्वहलादिः शेषयोरभावः ।
लघुसिद्धान्तकौमुदी
नन्द्यादेर्ल्युः, ग्रह्रादेर्णिनिः, पचादेरच् स्यात्। नन्दयतीति नन्दनः। जनमर्दयतीति जनार्दनः। लवणः। ग्राही। स्थायी। मन्त्री। पचादिराकृतिगणः॥
महाभाष्यम्
नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (751) (432 प्रत्ययविधिसूत्रम्।। 3 । 1 । 6 आ. 25 ) (1987 इष्टसाधकवार्तिकम्।। 1 ।।) - अजपि सर्वधातुभ्यः- (भाष्यम्) अजपि सर्वधातुभ्यो वक्तव्यः इहापि यथा स्याद् ‐ - भवः सव इति।। (आक्षेपभाष्यम्) न तर्हीदानीमिदं पचाद्यनुक्रमणं कर्तव्यम्। (समाधानभाष्यम्) कर्तव्यं च। किं प्रयोजनम्?। (1988 गणपाठप्रयोजनवार्तिकम्।। 2 ।।) - पचाद्यनुक्रमणमनुबन्धासंजनार्थमपवादबाधनार्थं च- (भाष्यम्) अनुबन्धासंजानर्थं तावत्। नदट् नदी। चोरट् चोरी। अपवादबाधनार्थम्। जारभरा श्वपचेति। नन्दिग्रहि।। 134 ।।