॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|131
SK 2892
3|1|131
अग्नौ परिचाय्योपचाय्यसमूह्याः   🔊
SK 2892
सूत्रच्छेद:
अग्नौ - सप्तम्येकवचनम् , परिचाय्य-उपचाय्य-समूह्याः - प्रथमाबहुवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , कृत्या:  [3|1|97] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
परिचाय्य उपचाय्य समूह्र इत्येते शब्दा निपात्यन्ते अग्नावभिधेये। परिपूर्वतुपपूर्वाच् च चिनोतेर् ण्य दायादेशौ निपात्येते। परिचाय्यम्। उपचाय्यः। सम्पूर्वाद् वहेः सम्प्रसारणं दीर्घत्वं च निपात्यते। समूह्रं चिन्वीत पशुकामः। अग्नौ इति किम्? परिचेयम्। उपचेयम्। संवाह्रम्।
`संपूर्वाद्वहेः` इत्यादि। हलन्तत्वाण्ण्यत् सिद्ध एव; तस्मस्तु सति सम्प्रसारणं न प्राप्नोति; अकित्त्वात्। ण्यतः कृतेऽपि सम्प्रसारणे `हलः` 6|4|2 इति दीर्घत्वं न प्राप्नोति; यसमादङ्गावयवाद्धल उत्तरं यत् सम्प्रसारणं तदन्तस्याङ्गस्य दीर्गत्वं विधीयते; न चायमेवम्प्रकारोऽस्ति,अत उभयं निपात्यते। न सम्पूर्वादूहेः सामान्यविहितेन ण्यतैव सिध्यति। अग्नावेव वहेः सम्पूर्वाण्ण्यद्यथा स्यात्, इह मा भूत्-- संवोढव्यो ब्राआहृण इति॥
अग्नी परिचाय्योपचाय्यसमूह्यः॥ अग्नाविति। न ज्वलने, किं तर्हि? तदर्थैष्टकाचयनविशेषे; तत्रैव रूढत्वात्। इह संपूर्वात् ठूह वितर्केअ, इत्यस्मादनेकार्थत्वाद्वहेरर्थे वर्तमानाद्धलन्तत्वाद् ण्यति समूह्यमिति सिद्धम्। तथा च----ठ्समूह्यं चिन्वीत पशुकामः पशवो वै पुरुषः पशूनेवास्य तत्समूहतिऽ इति वह्यर्थेनोहिना ब्राह्मणे समूह्यशब्दो निरुक्तः॥
सिद्धान्तकौमुदी
अग्निधारणार्थे स्थलविशेषे एते साधवः । अन्यत्र तु परिचेयम् । उपचेयम् । संवाह्यम् ॥
अग्नौ परिचाय्योपचाय्यसमूह्याः - अग्नौपरिचाय्य । अग्नौ गम्ये — परिचाय्य, उपचाय्य, समूह्र एते निपात्यन्ते । अग्निशब्द इष्टकारचित्तस्थण्डिलविशेषे वर्तते, यन्मृदा चाद्भिश्चाग्निश्चीयतेऽथ कस्मादग्निरुच्यत इति यच्छन्दोभिश्चिनोत्यग्नयो वै छन्दांसी तस्मादग्निरुच्यतेऽथो इयं वा अगनिर्वैआआनरो यन्मृदा चिनोति तस्मादग्निरुच्यते॑ इति वाक्यशेषाच्च । तदाह — अग्निधारणेति । तत्र परिपूर्वादुपपूर्वाच्च चिञः कर्णि ण्यत्, आयादेशश्च निपात्यते । संपूर्वस्य वहेस्तु कर्मणि ण्यति संप्रसारणं, दीर्घश्च निपात्यते ।समूह्रं चिन्वीत पशुकामः, परिचाय्यंचिन्वीत ग्रामकामः॑इति तैत्तिरीयश्रुतौ परिचाय्यसमूह्रौप्रसिद्धौ । उपचाय्यस्त्वग्निःक्वचिच्छाखायामन्वेषणीयः ।
अग्नौ परिचाय्योपचाय्यसमूह्याः - अग्नौ परि.अग्निरिह न ज्वलनः,किं तु तद्धारणार्थमिष्टकाचयनेन निर्मितं स्थलं, तदाह — स्थलविशेष इति । एते साधव इति । स्थलविशेषेऽभिधेये परिपूर्वाच्चिनोतेण्र्यदायादेशयोः, संपूर्वस्य वहेस्तु संप्रसारणदीर्घयोश्च निपातनादिति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अग्नौपरिचाय्योपचाय्यसमूह्याः (748) (459 ण्यत्प्रत्ययायादेशादिनिपातनसूत्रम्।। 3 । 1 । 6 आ.22) (1979 आक्षेपवार्तिकम्।। 1 ।।) - समूह्य इत्यनर्थकं वचनं सामान्यकृतत्वात्- (भाष्यम्) समूह्य इत्यनर्थकं वचनम्।। किं कारणम्।। सामान्यकृतत्वात्। सामान्येनैवात्रण्यद्भविष्यति ऋहलोर्ण्यद् इति। (आनर्थक्यबाधकभाष्यम्) वह्यर्थे तर्हि निपातनं कर्तव्यम्। वहेर्ण्यद्यथा स्यात्।। (1980 आक्षेपसाधकवार्तिकम्।। 2 ।।) - वह्यर्थमिति चेद् उहेस्तदर्थत्वात्सिद्धम्- (भाष्यम्) उहिरति वह्यर्थे वर्तते। (आक्षेपभाष्यम्) कथं पुनरन्यो नामान्यस्यार्थे वर्तते। कथमूहिर्वह्यर्थे वर्तते?। (समाधानभाष्यम्) बह्वर्था अपि धातवो भवन्ति। (आक्षेपभाष्यम्) अस्ति पुनः क्वचिदन्यत्रापि उहिर्वह्यर्थे वर्तते। (समाधानभाष्यम्) अस्तीत्याह। (1981 आनर्थक्यसाधकान्तरवार्तिकम्।। 3 ।।) - उहिविग्रहच्च ब्राह्मणे सिद्धम्- (भाष्यम्) उहिविग्रहाच्च ब्रह्मणे सिद्धमेतत्। समूह्यं चिन्वीत पशुकामः। पशवो वै पुरुषः पशूनेवास्मै तत्समूहतीति।। अग्नौ षहि।। 131 ।।