॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|129
SK 2890
3|1|129
पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु   🔊
SK 2890
सूत्रच्छेद:
पाय्य-सान्नाय्य-निकाय्य-धाय्याः - प्रथमाबहुवचनम् , मान-हविर्-निवास-सामिधेनीषु - सप्तमीबहुवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , कृत्या:  [3|1|97] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
पाय्यादयः शब्दा निपात्यन्ते यथासङ्ख्यं माने हविषि निवासे सामिधेन्यां च अभिधेयायाम्। पाय्य इति माङो ण्यत्प्रत्ययः, आदेः पत्वं च निपात्यते माने। पाय्यं मानम् मेयम् अन्यत्। सम्पूर्वान्नयतेर् ण्यदायादेशावुपसर्गदीर्घत्वं च निपात्यते। सानाय्यं हविः। संनेयमन्यत्। रूढित्वाच् च हविर्विशेष एव अवतिष्ठते। निपूर्वाच् चिनोतेः ण्यदायादेशावादिकुवं च निपात्यते। निकाय्यो निवासः। निचेयम् अन्यत्। सामिधेनीशब्द ऋग्विशेषस्य वाचकः। तत्र च धाय्या इति न सर्वा सामिधेनी उच्यते, किं तर्हि, काचिदेव। रूधिशब्दो ह्रयम्। तथा च असामिधेन्याम् अपि दृश्यते, धाय्याः शंसत्यग्निर्नेता तं सोमक्रतुभिः इति।
`पाय्य` इति।` आतो युक्` 7|3|33 `हविर्विशेषेष्वतिष्ठते` इति। यत्रैवायं रूढस्तत्रैवावतिष्ठते। न हविर्मात्रे। `धाय्या` इति। पूर्ववत् युक्। `ऋग्विशेषस्य वाचकः` इति। सर्वा ऋचो न सामिधेनीशब्देनोच्यते, किं तर्हि? समिदाधानमन्त्रः। तथा हि समिदाधानमन्त्रे सामिधेनीशब्दो व्युत्पाद्यते। सामिधेन्यपि न सर्वा ऋगभिधीयते, किं तर्हि? काचिदेवेति दर्शयन्नाह-- `तत्र` इत्यादि। कथं पुनः सामान्येन निपातनां क्रियमाणं विशेषविषयं लभत इत्याह-- `रूढिशब्दो ह्रमम् ` इति।धाय्याशब्दो रूढिशब्द ऋग्विशेषस्य वाचकः। सैवानेनोच्यते, नान्या। कथं पुनज्र्ञायते रूढिशब्दोऽयमित्यत आह-- `तथा च` इत्यादि। यदि रूढिशब्दोऽयं न स्यात् सामिधेन्यां निपातितत्वाद् धाय्याः शंसतित्यत्र ऋग्विशेषे न दृश्येत, दृश्यते चासौ। तसमाद्रूढिशब्दोऽयमित्यवसीयते। यदि तह्र्रसामिधेन्यामपि दृश्यते, सामिधेनीग्रहणमनर्थकं स्यात्? नानर्थकम्; रूढिविशेषोपलक्षणार्थत्वात्॥।
पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु॥ मीयतेऽनेनेति मानम्, हूयत इति हविः, निवसत्यस्मिन्निति निवासः, समिधामाधानी ऋक् सामिधेनी। माङे ण्यत्प्रत्यय इति। करणे तत्र ठातो युक् चिण्कृतोःऽ इति युक्। मेयमन्यदिति। भावकर्मणोर्यदेव भवतीत्यर्थः। सान्नाय्यमिति। सम्यग्नीयते होमार्थमग्निं प्रतीति कर्मणि ण्यत्। हविर्विशेष इति। ऐन्द्रं दध्यमावास्यायामैन्द्रं पयोऽमावास्यायामिति विहितयोर्दधिपयसोः। माघस्तु यथाश्रुतार्थग्राही हविर्मात्रे प्रायुङ्क्त----ठ्हुतमयमवलीढेअ साधु सान्नाय्यमग्निःऽ इति। निचीयतेऽस्मिन्धान्यादिकमिति अधिकरणे ण्यत्। धाय्येति। धीयतेऽनया समिदिति करणे ण्यत्, पूर्ववद्यौक्। ऋग्विशेषस्येति। ठ्प्रवोवाजा अभिद्यवःऽ इत्यादिकस्य। कि तर्हि काचिदेवेति। समिध्यमानवतीं समिद्धवतीं चान्तरेण विकृतिषु प्रक्षिप्यमाणा पृथुयाजा अमर्त्य इत्यादिका। कथं पुनरयं विशेषो लभ्यत इत्याह----रूढिशब्दोह्य यमिति। अत एव निपातनाश्रयणमिति भावः। रूढित्वमेव द्रढयति----तथा चेति। धाय्याः शंसतीति ज्योतिष्टोमे मरुत्वतीये शस्त्रे विधानमेतत्। सामिधेनीग्रहणं प्रयोगविषयोपलक्षणार्थमिति भावः॥
सिद्धान्तकौमुदी
मीयतेऽनेन पाय्यं मानम् । ण्यत् धात्वादेः षत्वं च । आतो युक् (कौमुदी-2761) इति युक् । सम्यङ् नीयते होमार्थमग्निं प्रतीति सान्नाय्यं हविर्विशेषः । ण्यदायादेशः समो दीर्घश्च निपात्यते । निचीयतेऽस्मिन्धान्यादिकं निकायो निवासः । अधिकरणे ण्यत् आय् धात्वादेः कुत्वं च निपात्यते । धीयतेऽनया समिदिति धाय्या ऋक् ॥
पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु - पाय्यसांनाय्य । पाय्य, सांनाय्य, निकाय्य, धाय्य — एषां द्वन्द्वात्प्रथमाबहुवचनम् । मान,हविः, निवास, सामिधेनी - एषां द्वन्द्वात्सप्तमी । मानादिषु गम्येषु क्रमात् पाय्यादयो निपात्यन्ते । मीयते अनेनेति । माधातोः करणे ण्यत्,धात्वादेर्मकारस्य पत्वं च निपात्यते इत्यर्थः । आत इति.ण्यतिमीनातीत्यात्त्वे कृते आतो युगिति भावः । ण्यदिति । संपूर्वान्नीदातोः कर्मणि निपात्यत इत्यर्थः । आयादेशिति । सननीय इतिस्थिते आयादेशो निपात्यते इत्यन्वयः । निवास इति । कुसलादिरित्यर्थः । अधिकरणे इति । चिञ्धातोरधिकरणे ण्यन्निपात्यते इत्यन्वयः । आयिति । अच्परकत्वाऽभावादायादेशोऽप्राप्तो निपात्यते इत्यन्वयः । धाय्या ऋगिति । धाधातोः करणे ण्यति आयादेशो निपात्यते इति भावः । सामिधेन्यो नाम समिदाधानार्था ऋग्विशेषाः । तत्र "समिध्यमानो अध्वरे" इति ऋच उपरि प्रक्षेप्यापृथुपाजा अमत्र्यः इत्याद्या ऋक्प्रसिद्धा ।
पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु - पाय्यसान्नाय्य । चतुर्षु अर्थेषु चत्वारो निपात्यन्ते । पीयतेऽनेनेति माङः करणे ण्यत् । पेयमन्यत् । हविर्विशेष इति ।ऐन्द्रं दध्यमावास्यायामैन्द्रं पयोऽमावास्याया॑मिति विहितो दधिपयोविशेषरूपः । धीयते अनयेति । अत्र सर्वा सामिधेनी न ग्राह्रा, किंतु समिध्यमानवतीं समिद्धवतीं चान्तरेण विकृतिषु प्रक्षिप्यमाणापृथृपाजा अमत्र्यः॑ इत्यादिकैव । अयं च विशेषो निपातनस्य रूढर्थत्वाल्लभ्यते । नन्वेवं निपातनात्सामिदेनीविसेषवाचकत्वे सामिधेनीग्रहणं व्यर्थमिति चेत् । अत्राहुः- सूत्रे सामिधेनीग्रहणं प्रयोगविशेषोपक्षणार्थम् । तथा चाऽसामिधेन्यामपि दृश्यते — धाय्या शंसती॑ति । न हि शस्त्रेण समित् प्रक्षिप्यते ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
पाय्यसान्नाय्यनिकाय्यधाय्यामानहविर्निवाससामिधेनीषु (743) (457 ण्यत्प्रत्ययादिनिपातनविधिसूत्रम्।। 3 । 1 । 6 आ.20) (आक्षेपभाष्यम्) पाय्यनिकाय्ययोः किं निपात्यते?। (1977 समाधानवार्तिकम्।। 1 ।।) - पाय्यनिकाय्ययोरादिपत्वकत्वनिपातनम्- (भाष्यम्) पाय्यनिकाय्ययोरादिपत्वमादिकत्वं च निपात्यते।। मेयं निचेयमित्येवान्यत्र।। पाय्यसा ।। 129 ।।