Page loading... Please wait.
3|1|125 - ओरावश्यके
॥ तस्मै पाणिनये नमः ॥
3|1|125
SK 2886
ओरावश्यके   🔊
सूत्रच्छेदः
ओः (पञ्चम्येकवचनम्) , आवश्यके (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 कृत्याः  3|1|97 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अवश्यं भावः आवश्यकम्। उवर्णान्ताद् धातोः ण्यत् प्रययो भवति आवश्यके द्योत्ये। यतो ऽपवादः। लाव्यम्। पाव्यम्। अवश्यके इति किम्? लव्यम्। आवश्यके द्योत्ये इति वेत्, स्वरसमासानुपपत्तिः, अवश्यलाव्यम्, अवश्यपाव्यम् इति? नैष दोषः। मयूरव्यं सकादित्वात् समासः। उत्तरपदप्रकृतिस्वरे च यत्नः करिष्यते।
`अवश्यम्भाव आवश्यकम्` इति। मनोज्ञादित्वाद्वुञ्। एतदेव ज्ञापकम्-- अव्ययानां भमात्रे टिलोपो भवतीति। अत्र द्वयं सम्भाव्यते-- उपपदत्वम्, आवश्यक उपपद इति; उपाधिकत्वञ्च, आवश्यके द्योत्य इति। तत्र यद्येवं ज्ञाप्यते-- आवश्यकौपपद इति, तदोपपदरहितादावश्यके द्योत्ये न स्यात्। `लाव्यं पाव्यम्` इति।आवश्यके द्योत्य इत्येवं विज्ञायत इत्याह-- `आवश्यके द्योत्ये` इति। एतच्च प्रत्यासत्या लभ्यते। उपाधिर्हि प्रत्ययान्तद्योत्यत्वादन्तरङ्गः, उपपदेन च सम्बन्धो बहिरङ्गः, तदर्थस्य पदान्तरवाच्यत्वात्। `स्वरसमासानुपपत्तिः` इति। उपपदे ह्रावश्यके विज्ञायमाने `उपपदमतिङ` 2|2|19 इति समासो भवति। तस्मश्च सति `गतिकारकोपपदात् कृत्` 6|2|138 इत्युपपदाश्रय उत्तरपदप्रकृतिस्वरत्वम्, न तित्स्वरो भवति। द्योत्यपक्षे तु समासो न स्यात्; लक्षणाभावात्। अथापि कथञ्चिदुपपदसमासादन्यः समासः स्यात्? एवमप्युपपदसमासाश्रयः स्वरो न स्यात्; ततश्च तित्स्वरो न लभ्येत्, समासान्तोदात्तत्वं हि स्यात्। `अवश्यलाव्यम्` इति। `लुम्पेदवश्यमः कृत्ये` इति मलोपः। `मयूरव्यंसकादित्वात्` इत्यादि। मयूरव्यंसकादेराकृतिगणत्वादवश्यलाव्यप्रभृतलाव्यप्रभृतयस्तत्र द्रष्टव्या इति दर्शयति। स्वरः कथमित्याह-- `उत्तरपदप्रकृतिस्वरत्वे च` इत्यादि। तत्रायं यत्नः-- `गतिकारकोपपदात् कृत्` 6|2|138 इत्यत्र `षट् च काण्डादीनि` 6|2|134 इत्यतश्चकारोऽनुवर्त्तिष्यते, स चानृक्तसमुच्चयार्थः। तेनावश्यलाव्यमित्यादावपि प्रकृतिस्वरो भवतीति॥
ओरावश्यके॥ अवश्यं भाव आवश्यकमीति। मनोज्ञादित्वाद् वुञ्, अव्ययानां भमात्रे टिलोपः। किं पुनरवश्यार्थवाचिन्युपपदे प्रत्यये? आहोस्विदावश्यके द्योत्ये? तत्राद्ये पक्षे उपपदरहितात्प्रत्ययो न स्यात्---लाव्यं पाव्यमिति, तस्माद् द्वितीयः पक्ष आश्रीयत इत्याह---आवश्यके द्योत्य इति। स्वरसमासानुपपतिरिति। उपपदपक्षे उपपदसमासो लभ्यते, गतिकारकोपपदात्कृदित्युतरपदप्रकृतिस्वरत्वं च; द्योत्यपक्षे त्वेतदुभयमपि न सिद्ध्यतीत्यर्थः। अवश्यलाव्यमीति। ठ्लुम्पेदवश्यमः कृत्येऽ इति मलोपः। द्योतितार्थस्यापि क्वचित्प्रयोगो द्दश्यते, लाघवं प्रत्यनादरात्। न त्वेतदत्र वक्तव्यम्; ठ्लुम्पेदवश्यमः कृत्येऽ इति वचनादेव द्योतिते अवश्यमः प्रयोग इति तस्यावश्यकर्तव्यादौ चरितार्थत्वात्। मयूरव्यंसकादित्वादिति। तस्याकृतिगणत्वादिति भावः। उतरपदप्रकृतिस्वरत्वे चेति । मयूरव्यंसकादिनिपातनादेव स्वरोऽपि भविष्यतीत्यपि शक्यं वक्तुम्॥
सिद्धान्तकौमुदी
उवर्णान्ताद्धातोर्ण्यत्स्यादवश्यंभावे द्योत्ये । लाव्यम् । पाव्यम् ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
ओरावश्यके - लाव्यमिति ।आवश्यके उपपपदे॑ इति व्याख्याने तु नेदं सिध्यतीति भावः । क्वचित्तु लाघवं प्रत्यनादराद्व्यतिसे इत्यादौ व्यतिशब्दवद्द्योतितार्थस्याऽपि प्रयोगो दृश्यते । अवश्यलाव्यम् । अत्रोपपदसमासाऽसंभवेऽपि मयूरव्यंसकादेराकृतिगणत्वात्समासः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
ओरावश्यके (742) (455 ण्यत्प्रत्ययविधिसूत्रम्।। 3 । 1 । 6 आ. 18) (आक्षेपभाष्यम्) कथमिदं विज्ञायते ‐ - आवश्यके उपपदे, आहोस्विद् ‐ - द्योत्य इति। (1971 उपपदपक्षदूषणवार्तिकम्।। 1 ।।) - आवश्यक उपपद इति चेद् द्योत्य उपसंख्यानम्- (भाष्यम्) आवश्यके उपपदे इति चेद् द्योत्ये उपसंख्यानं कर्तव्यम्। पाव्यं लाव्यम्।। (द्योत्यपक्षाभ्युपगमभाष्यम्) अस्तु तर्हि द्योत्ये। (1972 द्योत्यपक्षदूषणवार्तिकम्।। 2 ।।) - द्योत्य इति चेत्स्वरसमासानुपपत्तिः- (भाष्यम्) द्योत्य इति चेत् स्वरसमासानुपपत्तिः प्राप्नोति। अवश्यलाव्यम्। अवश्यपाव्यम्।। (दूषणोद्धारभाष्यम्) नैष दोषः। मयूरव्यंसकादित्वात् समासः। विस्पष्टादिवत् स्वरश्च।। (1973 पूर्वविप्रतिषेधवार्तिकम्।। 3 ।।) - ओरावश्यके ण्यतः स्तौतेः क्यप् पूर्वविप्रतिषिद्धम्- (भाष्यम्) ओरावश्यके ण्यतः स्तौतेः क्यप् भवति पूर्वविप्रतिषेधेन। ओरावश्यके ण्यद्भवतीत्यस्यावकाशः ‐ - अवश्यलाव्यम्। अवश्यपाव्यम्। क्यपोवकाशः ‐ - स्तुत्यः। इहोभयं प्राप्नोति ‐ - अवश्यस्तुत्यः। क्यप् भवति पूर्वविप्रतिषेधेन।। (आक्षेपभाष्यम्) स तर्हि पूर्वविप्रतिषेधो वक्तव्यः। (समाधानभाष्यम्) न वक्तव्यः। उक्तं तत्र क्यबिति वर्तमाने पुनः क्यब्ग्रहणस्य प्रयोजनम् ‐ - क्यबेब यथा स्याद्, यदन्यत् प्राप्नोति तन्मा भूदिति।। ओरावश्यके 125 ।।