Page loading... Please wait.
3|1|107 - भुवो भावे
॥ तस्मै पाणिनये नमः ॥
3|1|107
SK 2855
भुवो भावे   🔊
सूत्रच्छेदः
भुवः (पञ्चम्येकवचनम्) , भावे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 कृत्याः  3|1|97 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सुप्यनुपसर्गे इत्यनुवर्तते। भवतेर् धातोः सुबन्ते उपपदे ऽनुपसर्गे भावे क्यप् प्रत्ययो भवति। यत् तु न अनुवर्तते। ब्रह्मभूयं गतः ब्रहंत्वं गतः। देवभूयं, देवत्वं गतः। भावग्रहणम् उत्तरार्थम्। सुपि इत्येव, भव्यम्। अनुपसर्गे इत्येव, प्रभव्यम्।
`यत् तु नानुवत्र्तते` इति। पूर्वसूत्रे चानुकृष्टत्वात्। `ब्राहृभूयं गतः` इति। ब्राहृत्वं प्राप्त इत्यर्थः। ननु च `तयोरेव कृत्यक्तखलर्थाः` 3|4|70 इति भावकर्मणोः कृत्वा विधीयन्ते, अनुपसर्ग इति चानुवत्र्तते, अनुपसर्गश्च भवतिरकर्मक इतिसामथ्र्याद्भाव एव भविष्यति, न कर्मणि, किं भावग्रहणेन? इत्याह-- `भावग्रहणेन? इतयाह-- `भावग्रहणमुत्तरार्थम्` इति। एतेन `हनस्त च` 3|1|108 इत्यत्रोपयोगमाह-- तत्र भाव एव यथा स्यात्। `भव्यम्` इति। अचो यत्` 3|1|97 , धातोर्गुणः, `धातोस्तन्निमित्तस्यैव` 6|1|77 इत्यवादेशः॥
भुवो भावे॥ यतु नानुवर्तत इति पूर्वसूत्रे चानुकृष्टत्वात्। ननु ठ्तयोरेव कृत्यक्तखलर्थाःऽ इति भावकर्मणोः कृत्या विधीयन्ते, ठनुपसर्गेऽ इति चानुवर्तते, अनुपसर्गश्च भवतिरकर्मक एव, अतः सामर्थ्याद्भाव एव भविष्यति? ननु च प्राप्त्यर्थः सकर्मक एव? सत्यम्; व्यक्तिनिर्द्देशात्, प्राथम्याच्च सतार्थस्यैव ग्रहणम्। न चच कालादिकर्मणि प्रसङ्गः अनभिधानात्, तत्किमर्थ भावग्रहणम्? इत्यत्राह---भावग्रहणमुतरार्थमिति। ठ्हनस्त चऽ इति सकर्मकादपि हनो भावे यथा स्याद्---ब्राह्महत्या वर्तत इति, कर्मणि मा भूत्----त्वया घात्यो वृषल इति॥
सिद्धान्तकौमुदी
क्यप्स्यात् । ब्रह्मणो भावो ब्रह्मभूयम् । सुप्युपपदे इत्येव । भव्यम् । अनुपसर्ग एव । प्रभव्यम् ॥
भुवो भावे - भुवो भावे । ब्राहृभूयमिति । कित्त्वान्न गुणः । क्लीबत्वं लोकात् । भव्यमिति । भाव इत्यर्थः । अत् सुबुपपदत्वाऽभावाद्यदेव, गुणः,वान्तो यी॑त्यवादेशः । प्रभव्यमिति । प्रभाव इत्यर्थः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
भुवो भावे (724) (445 क्यप्प्रत्ययविधिसूत्रम्।। 3 । 1 । 6 आ.8) (आक्षेपभाष्यम्) भावग्रहणं किमर्थम्?। (प्रयोजनभाष्यम्) कर्मणि मा भूदिति। (प्रयोजननिरासभाष्यम्) नैतदस्ति प्रयोजनम्। भवतिरकर्मकः। (प्रयोजनसाधकभाष्यम्) अकर्मका अपि धातवः सोपसर्गाः सकर्मका भवन्ति। तेनानुभाव्यमामन्त्रणमित्यत्रापि प्राप्नोति।। (प्रयोजनबाधकभाष्यम्) एतदपि नास्ति प्रयोजनम्। अनुपसर्गे इति वर्तते। (प्रयोजनभाष्यम्) उत्तरार्थं तर्हि भावग्रहणं कर्तव्यम्। हनस्त च भावे यथा स्यात् ‐ - -श्वहत्या वर्तते। इह मा भूत् श्वघात्यो वृषलः इति।। भुवो भावे।। 107 ।।