॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|105
SK 2853
3|1|105
अजर्यं संगतम्‌   🔊
SK 2853
सूत्रच्छेद:
अजर्यम् - प्रथमैकवचनम् , संगतम् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , कृत्या:  [3|1|97] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अजर्यम् इति निपात्यते, सङ्गतं चेद् भवति। जीर्यतेः नञ्पूर्वात् सङ्गते सङ्गमने कर्तरि यत् प्रययो निपात्यते। न जीर्यति इति अजर्यम्। अजर्यम् आर्यसङ्गतम्। अजर्यं नो ऽस्तु सङ्गतम्। सङ्गतम् इति किम्? अजरिता कम्बलः।
`जीर्यतेः` इति। `जृष् झृष् वयोहानौ` (धातुपाठः-1130, 1131)। `सङ्गमन` इति। सङ्गमनम् = सङ्गतिः। `ल्युट् च` 3|3|115 इति ल्युट्। एतेन सङ्तमित्यत्र `नपुंसके भावे क्तः` 3|3|114 इति दर्शयति। `कत्र्तरि यत्प्रत्ययो निपात्यते`इति। तृजादीनामपवादः। `अजरिता` इति। तृच्॥
अजर्य सङ्गतम्॥ सङ्गमने कर्तरीति। सूत्रे ठ्सङ्गतम्ऽ इति ठ्नपुंसके भावे क्तः।ऽ इति दर्शयति। कर्तरीति ठ्तयोरेव कृत्यक्तखलर्थाःऽ इति भावे भा भूदिति निपातनाश्रयणम्। तेन भावे सङ्गतकर्तृकेऽपि ण्यदेव भवति----अजार्य सङ्गतेनेति। अजरितेति। तृच्॥
सिद्धान्तकौमुदी
नञ्पूर्वाज्जीर्यतेः कर्तरि यत् संगतं येद्विशेष्यम् । न जीर्यतीत्यजर्यम् । तेन संगतमार्येण रामाजर्यं कुरु द्रुतमिति भट्टिः । मृगैरजर्यं जरसोपदिष्टमदेहबन्धाय पुनर्बबन्धेत्यत्र तु संगतमिति विशेष्यमध्याहार्यम् । संगतं किम् । अजरिता कम्बलः । भावे तु संगतकर्तृकेऽपि ण्यदेव । अजार्यं संगतेन ॥
अजर्यं संगतम् - अजर्यम् । कर्तरि यदिति ।कर्तरीति वक्तव्य॑मिति वार्तिकम् । निपातनात्कर्तरीति लभ्यत इति तदाशयः । सङ्गतमिति । सङ्गतं = सङ्गमः । न जीर्यतीत्यजर्यमिति ।मित्रत्व॑मिति शेषः । जरितृ न भवतीत्यर्थः । अत्र भट्टिप्रयोगमाह — तेनेति । हे राम ! तेन आर्येण अजर्यम् = अनआरं, सङ्गतं- सङ्गमं द्रुतं कुरु इत्यन्वयः । ननु "मृगौरजर्यं जरसा" इत्यत्र सङ्गतशब्दाऽभावात्कथं यदित्यत आह — मृगैरित्यादि । कालिदासकाव्यमिदम् । अजरितेति । तृजऽभावान्न यदित्यर्थः ।
अजर्यं संगतम् - संगतं चेदिति । नपुंसके भावे क्तः । विशेष्यमिति । इहाऽजर्यमिति समुदायस्य सङ्गतं वाच्यमित्यर्थो न ग्राह्रः, पर्यायाणां युगपत्प्रयोगाऽसंभवेनाऽजर्यंसतां सङ्गतमिति प्रयोगाऽनापत्तेः,तेन सङ्गत॑मिति भट्टिप्रयोगानुपपत्तेश्च ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अजर्यं सङ्गतम् (722) (443 यत्प्रत्ययविधिसूत्रम्।। 3 । 1 । 6 आ.7) (आक्षेपभाष्यम्) सङ्गतमिति। किं प्रत्युदाह्रियते?। (समाधानभाष्यम्) अजरः कम्बलः, अजरिता कम्बल इति। (आक्षेपभाष्यम्) किं पुनः कारणं कर्तृसाधन एव प्रत्युदाह्रियते, न भावसाधनः प्रत्युदाहार्यः। (समाधानभाष्यम्) एवं तर्हि, (1946 वार्तिकम्।। 1 ।।) - अजर्यं कर्तरि- (भाष्यम्) अजर्यं कर्तरीति वक्तव्यम्।। (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्। (समाधानभाष्यम्) न वक्तव्यम्। गत्यर्थानां क्तः कर्तरि विधीयते तेन योगाद् अजर्यं कर्तरि भविष्यति।। (आक्षेपभाष्यम्) गत्यर्थानां वै क्तः कर्मण्यपि विधीयते। तेन योगादजर्यं कर्मण्यपि प्राप्नोति।। (समाधानभाष्यम्) जीर्यतिरकर्मकः। (आक्षेपभाष्यम्) भावे तर्हि प्राप्नोति। (प्रत्याक्षेपभाष्यम्) संगतग्रहणमिदानीं किमर्थं स्यात्?। (समाधानभाष्यम्) कर्तृविशेषणं संगतग्रहणम्। संगतं कर्तृचेद्भवतीति। तद्यथा ‐ - हृषेर्लोमसु इति लोमानि चेत्कर्तॄणि भवन्तीति।। अजर्यम्।। 105 ।। (अथ क्यप्प्रत्ययप्रकरणम्)